Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.123

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.123.1

भृगोर्महर्षेः पुत्रोऽभूच्चयवनो नाम भारत ।
समीपे सरसस्तस्य तपस्तेपे महाद्युतिः ॥ ३.१२३.१ ॥

大仙人婆利古之子名为车耶那,婆罗多啊。他在那湖边修苦行,光辉极盛。

3.123.2

स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव ।
अतिष्ठत चिरं कालमेकदेशे विशांपते ॥ ३.१२३.२ ॥

他如树桩般不动,光辉极盛,以英雄之姿,在一处站立了很长时间,般度之子啊,人民之主啊。

3.123.3

सवल्मीकोऽभवदृषिर्लताभिरिव संवृतः ।
कालेन महता राजन्समाकीर्णः पिपीलिकैः ॥ ३.१२३.३ ॥

这位仙人被蚁垤包围,仿佛被藤蔓遮盖。大王啊,经过很长时间,他被蚂蚁布满了。

3.123.4

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः ।
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥ ३.१२३.४ ॥

如此,这位智者全身被覆盖,如一块泥团,被蚁垤包围,行着可怕的苦行。

3.123.5

अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः ।
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् ॥ ३.१२३.५ ॥

过了很久,一位名叫沙利雅提的国王来到这片可爱而殊胜的湖边游乐。

3.123.6

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः ।
एकैव च सुता सुभ्रूः सुकन्या नाम भारत ॥ ३.१२३.६ ॥

他有四千位妻子,婆罗多啊,还有一个眉目俊美的独生女,名叫苏干雅。

3.123.7

सा सखीभिः परिवृता दिव्याभरणभूषिता ।
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥ ३.१२३.७ ॥

她被女伴环绕,佩戴着天界的装饰,漫步来到了婆哩句(Bhārgava)的蚁垤旁。

3.123.8

सा वै वसुमतीं तत्र पश्यन्ती सुमनोरमाम् ।
वनस्पतीन्प्रचिन्वन्ती विजहार सखीवृता ॥ ३.१२३.८ ॥

她望着那片令人心旷神怡的土地,从树上采摘花朵,被女伴环绕,尽情游乐。

3.123.9

रूपेण वयसा चैव भदनेन मदेन च ।
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ ३.१२३.९ ॥

她凭着美貌、青春、迷人的魅力和骄傲,折断了森林树木上盛开的枝条。

3.123.10

तां सखीरहितामेकामेकवस्त्रामलंकृताम् ।
ददर्श भार्गवो धमांश्चरन्तीमिव विद्युतम् ॥ ३.१२३.१० ॥

婆哩句看见她独自一人,没有女伴,只穿一件衣服,装饰着,如同行走的闪电。

3.123.11

तां पश्यमानो विजने स रेमे परमद्युतिः ।
क्षामकण्ठश्च विप्रर्षिस्तपोबलसमन्वितः।
तामाबभाषेकल्याणीं सा चास्य न शृणोति वै ॥ ३.१२३.११ ॥

他在僻静处凝视着她,这位光辉至极的仙人心生欢喜。这位婆罗门仙人嗓子干涩,具有苦行之力,他向这位吉祥的少女说话,她却没有听见他。

3.123.12

ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ।
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता।
किंनु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ ३.१२३.१२ ॥

于是苏根雅看见蚁垤中婆哩句的两只眼睛,出于好奇,在心智迷惑的驱使下,说道:“这到底是什么?”便用荆棘刺穿了他的双眼。

3.123.13

अक्रुद्ध्यत्स तथा विद्धे नेत्रे परममन्युमान् ।
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥ ३.१२३.१३ ॥

当她刺瞎他的双眼时,他极为愤怒,于是将舍利耶提军队的粪便和尿液全部堵住并覆盖起来。

3.123.14

ततो रुद्धे शकृन्मूत्रे सैन्यमासीत्सुदुःखितम् ।
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः ॥ ३.१२३.१४ ॥

于是粪便和尿液被堵住,军队极为痛苦;国王看到这种情况,便四处询问。

3.123.15

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ।
केनापकृतमद्येह भार्गवस्य महात्मनः।
ज्ञातं वा यदि वाऽज्ञातं तद्द्रुतं ब्रूत माचिरम् ॥ ३.१२३.१५ ॥

今天在这里是谁冒犯了那位常年修苦行、年迈、尤其易怒的伟大婆利古后裔?无论你们知道与否,都请快说,不要迟疑。

3.123.16

तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ।
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु ॥ ३.१२३.१६ ॥

众士兵对他说:“我们不知道有谁做了冒犯之事。请您以各种办法,按您的意愿去查明吧。”

3.123.17

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ।
पर्यपृच्छत्सुहृद्वर्गं पर्यजानन्न चैव ते ॥ ३.१२३.१७ ॥

于是国王亲自用温和和严厉的言辞询问他的亲信,但他们也不知道。

3.123.18

आनाहार्तं ततो दृष्ट्वा तत्सैन्यमनुखार्दितम् ।
पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत् ॥ ३.१२३.१८ ॥

苏干雅看到军队因阻塞而如此受苦,又看到父亲悲伤,便说了这些话。

3.123.19

मयाऽटन्त्येह वल्मीके दृष्टं सत्वमभिज्वलत् ।
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् ॥ ३.१२३.१९ ॥

我在这蚁丘中游荡时,看见一个像萤火虫一样发光的生物。我走近辨认后,便将它刺穿了。

3.123.20

एतच्छ्रुत्वा तु वल्मीकं शर्यातिस्तूर्णमभ्ययात् ।
तत्रापशय्त्तपोवृद्धं चन्द्रादित्यसमप्रभम् ॥ ३.१२३.२० ॥

沙利耶提听到这话,急忙走向蚁丘,在那里看见一位因苦行而年迈、光辉与日月相等的人。

3.123.21

अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः ।
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि ॥ ३.१२३.२१ ॥

于是这位大地之主合掌,为军队祈求:"那愚蠢的女孩因无知对您所做的,请您宽恕。"

3.123.22

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ।
अपमानादहं विद्धो ह्यनया दर्पपूर्णया ॥ ३.१२३.२२ ॥

于是婆利古之子遮那对国王说:"被羞辱所刺,我确实被这个充满傲慢的女子所伤。"

3.123.23

रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् ।
तामेव प्रतिगृह्याहं राजन्दुहितरं तव।
क्षंस्यामीति महीपाल सत्यमेतद्ब्रवीमि ते ॥ ३.१२३.२३ ॥

"国王啊,我将接纳您那位具有美貌与高尚品格、因贪欲和迷惑之力而被献上的女儿,并予以宽恕。护地之王啊,我对您说的是真话。"

3.123.24

ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् ।
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥ ३.१२३.२४ ॥

沙利耶提理解了仙人的话,毫不犹豫地将女儿嫁给了大德的遮那。

3.123.25

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ।
प्राप्तप्रसादौ राजा वै ससैन्यः पुरमाव्रजत् ॥ ३.१२३.२५ ॥

接受了那位少女后,尊者心生欢喜。国王得到恩惠,率领军队返回了城市。

3.123.26

सुकन्याऽपि पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ ३.१२३.२६ ॥

苏干雅也得到了苦行的丈夫,她无可指责,始终怀着爱意、以苦行和戒律侍奉他。

3.123.27

अग्नीनामतीथीनां च शुश्रूषुनसूयिका ।
समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥ ३.१२३.२७ ॥

她侍奉圣火与客人,毫无嫉妒,这位面容秀美的女子很快便令车耶那欢喜。