Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.125

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.125.1

ततः श्रुत्वा तु शर्यातिर्वयस्थं च्यवनं कृतम् ।
सुहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ ३.१२५.१ ॥

闻知遮婆那已恢复青春,舍利耶提大喜,与军队一同前往婆利古的仙居。

3.125.2

च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव ।
रेमे सभार्यः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ ३.१२५.२ ॥

舍利耶提见遮婆那与苏干雅如同天神之子,便与妻子欢乐,仿佛得到了整个大地。

3.125.3

ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।
उपोपविष्टः कल्याणीः कथाश्चक्रे मनोरमाः ॥ ३.१२५.३ ॥

受到那位仙人的礼敬,地上之主与妻子并坐于旁,开始谈论美妙而吉祥的话题。

3.125.4

अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् ।
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥ ३.१२५.४ ॥

于是婆利古以安慰之语对他说:“大王,我将为你主持祭祀,你且备齐所需之物。”

3.125.5

ततः परमसंहृष्टः शर्यातिरवनीपतिः ।
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ३.१२५.५ ॥

于是舍利耶提大喜,地上之主,大王啊,尊重了遮婆那的那番话。

3.125.6

प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् ।
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ३.१२५.६ ॥

在吉日,舍利耶提命人建造了一处适于祭祀、充满一切所欲之物的上好祭场。

3.125.7

तत्रैनं च्यवनो राजन्याजयामास भार्गवः ।
अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ ३.१२५.७ ॥

大王啊,婆利古后裔遮耶那让他举行了祭祀。那里发生的奇异之事,请听我说。

3.125.8

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।
तमिन्द्रो वारयामास गृह्णानं स तयोर्ग्रहम् ॥ ३.१२५.८ ॥

那时遮耶那取了两位天神阿室文的苏摩份额。他取用时,因陀罗阻止了他。

3.125.9

उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ।
भिषजौ दिवि देवानां कर्मणा तेन नार्हतः ॥ ३.१२५.९ ॥

依我之见,这两位,即那撒提亚阿室文,不配享有苏摩;他们是天上诸神的医师,正因这职分,他们并不配享。

3.125.10

मावमंस्था महात्मानौ रूपद्रविणवत्तरौ ।
यौ चक्रतुर्मां मधवन्वृन्दारकमिवाजरम् ॥ ३.१२५.१० ॥

啊,摩伽凡,不要轻视这些在容貌与财富上更为富足的大德,他们使我如同一位不老的尊贵天神。

3.125.11

ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् ।
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥ ३.१२५.११ ॥

除你与其他天神之外,阿室文二神怎会不配享苏摩祭祀?啊,天神之主,啊,布兰达拉,你应当知道阿室文也是天神。

3.125.12

चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ ३.१२५.१२ ॥

他们是医师与仆役,具有随意变化形貌的能力,在世间与凡人同行。那么他们在此怎会配享苏摩?

3.125.13

एतदेव तदा वाक्यमाम्रेडयति वासवे ।
अनादृत्यततः शक्रं ग्रहं जग्राह भार्गवः ॥ ३.१२५.१३ ॥

于是他以嘲弄的口吻重复了对婆薮的这番话,轻视帝释天,婆利古的后裔遂取走了那杯。

3.125.14

ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा ।
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ ३.१२५.१४ ॥

当他正要取得双马童最上等的苏摩时,破伐罗的天神帝释看见了,便说了这番话。

3.125.15

आभ्यामर्ताय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ।
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥ ३.१२५.१५ ॥

若你亲自为这二人取得苏摩,我便以我那形状可怖、无与伦比的金刚杵击你。

3.125.16

एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्यस भार्गवः ।
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ ३.१२५.१६ ॥

如此被说之后,婆利古后裔微笑着望向帝释,依照仪轨取得了为双马童准备的上好苏摩杯。

3.125.17

ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः ।
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ ३.१२५.१७ ॥

于是舍姬之主以形状可怖的金刚杵击他;婆利古后裔却使挥击者的手臂僵住。

3.125.18

तं स्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् ।
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ ३.१२५.१८ ॥

他使之僵住后,遂以咒语向火中献祭;这位大光辉者欲行咒术,决意要伤害天神。

3.125.19

ततः कृत्याऽथ संजज्ञे मुनेस्तस्य तपोबलात् ।
मदो नाम महावीर्यो बृहत्कायो महासुरः ॥ ३.१२५.१९ ॥

于是,凭借那位仙人的苦行之力,生出了一个克里提亚,又出现一位名叫摩陀的大阿修罗,威力巨大,身躯庞大。

3.125.20

शरीरं यस् निर्देष्टुमशक्यं तु सुरासुरैः ।
तस्यास्यमभवद्धोरं तीक्ष्णाग्रदशनं महत् ॥ ३.१२५.२० ॥

他的身躯之大,连天神与阿修罗也无法描述;他的口极为可怖,生着尖锐的大牙。

3.125.21

हनुरेका स्थिता त्वस्य भूमावेका दिवं गता ।
चतस्रश्चायता दंष्ट्रा योजनानां शतंशतम् ॥ ३.१२५.२१ ॥

他的一颌立于大地,另一颌直达天空;他四根长长的獠牙,每根都延伸百由旬。

3.125.22

इतरे तस्य दशना बभूवुर्दशयोजनाः ।
प्रासादशिखराकाराः शूलाग्रसमदर्शनाः ॥ ३.१२५.२२ ॥

他其余的牙齿每颗长十由旬,形如宫殿的尖顶,看起来像矛尖。

3.125.23

बाहू परिघसंकाशावायतावयुतं समौ ।
नेत्रे रविशशिप्रख्ये वक्रं कालाग्निसंनिभम् ॥ ३.१२५.२३ ॥

他的双臂修长而均等,如铁棒一般,仿佛有万由旬之长;双眼如日月,面容如末劫之火。

3.125.24

लेलिहञ्जिह्वया वक्रं विद्युच्चपललोलया ।
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥ ३.१२५.२४ ॥

他以如闪电般迅疾跳动的舌头舔着自己的脸,张开大口,目光可怖,仿佛要强行吞噬整个世界。

3.125.25

स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।
महता घोररूपेण लोकाञ्शब्देन नादयत् ॥ ३.१२५.२५ ॥

他愤怒地想要吞噬,向百祭者(因陀罗)猛冲过去。他以巨大可怖的形貌与吼声,使诸世界震响。