摩诃婆罗多 · 章 3.129
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.129.1
ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा ।
पुत्रकामतया सर्वंकरिष्यामि वचस्तव ॥ ३.१२९.१ ॥
婆罗门啊,凡应当做的,就照你所说的去做吧。出于求子之心,我将遵从你的一切吩咐。
3.129.2
ततः स याजयामास सोमकं तेन जन्तुना ।
मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः ॥ ३.१२९.२ ॥
于是他让苏摩迦用那个生灵举行祭祀;然而满怀怜悯的母亲们强行把儿子拉走了。
3.129.3
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः ।
तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे ॥ ३.१२९.३ ॥
母亲们哭喊着"唉,我们完了!",被剧烈的悲痛击中,抓住他的右手把他拉了回来。
3.129.4
सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति ।
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ॥ ३.१२९.४ ॥
祭司也抓住左手拉扯;如同悲鸣的鹗鸟,他们把儿子拖走了。
3.129.5
विशस्य चैनं विधिवद्वपामस्य जुहाव सः ।
वपायां हूयमानायां गन्धमाघ्राय मातरः ॥ ३.१२९.५ ॥
他依法宰杀了它,把它的脂肪投入火中献祭;脂肪被献上时,母亲们闻到了那股气味。
3.129.6
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ।
सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः ॥ ३.१२९.६ ॥
库鲁之喜悦啊!她们悲痛地忽然倒在地上;于是那些王后全都失去了腹中的胎儿。
3.129.7
ततो दशसु मासेषु सोमकस्य विशांपते ।
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ ३.१२९.७ ॥
此后十个月,众人之主啊,索摩迦从所有这些妻子中诞生了整整一百个儿子,婆罗多啊。
3.129.8
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत् ।
स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः ॥ ३.१२९.८ ॥
战图成为长子,如前一样生于母亲之中。他为她们所爱,而她们自己的其他儿子却不如此。
3.129.9
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे ।
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि ॥ ३.१२९.९ ॥
他的标记是:北侧有一块金色的印记。在那一百个儿子中,他在品德上也成为了最优秀的。
3.129.10
ततः स लोकमगमत्सोमकस्य गुरुः परम् ।
अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम् ॥ ३.१२९.१० ॥
随后,索摩迦的那位师傅前往至上世界;之后索摩迦也跟随他前往至上世界。
3.129.11
अथ तं नरके घोरे पच्यमानं ददर्श सः ।
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥ ३.१२९.११ ॥
于是他看见他在那可怕的地狱中被烹煮,便问他:"再生者啊,你为何在地狱中被烹煮?"
3.129.12
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् ।
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥ ३.१२९.१२ ॥
那位在火中剧烈燃烧的师傅便对他说:"大王啊,是我让你举行了祭祀;这就是那业的果报。"
3.129.13
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत् ।
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥ ३.१२९.१३ ॥
王仙闻言,对法王说:“我将进入此处;请释放我的祭司。”
3.129.14
मत्कृते हि महाभागः पच्यते नरकाग्निना ।
सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः ॥ ३.१२९.१४ ॥
因我之故,这位大福者正在地狱之火中受煎熬;因此我将自己置于地狱之中——愿让上师获释。
3.129.15
नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन ।
इमानि तव दृश्यन्ते फलानि वदतांवर ॥ ३.१२९.१५ ॥
大王啊,行为者的果报从不由他人享受;善言者中最优秀的人啊,这些果报显然都属于你。
3.129.16
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् ।
इच्छाम्यहमननैव सह वस्तुं सुरालये ॥ ३.१२९.१६ ॥
没有宣说梵的上师,我不愿求取福德之界;我愿与他一同居于诸天之所。
3.129.17
नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम् ।
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥ ३.१२९.१७ ॥
无论在地狱还是他处,法王啊,就我的行为而言我与他相等;神啊,愿这善恶之果对我们二人平等。
3.129.18
यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम् ।
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥ ३.१२९.१८ ॥
大王啊,若你心中如此所愿,便与他一同享受这果报;与他同处相等时日之后,你将获得善趣。
3.129.19
स चकार तथा सर्वं राजा राजीवलोचनः ।
क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह ॥ ३.१२९.१९ ॥
洛摩莎说:那位莲花眼的国王也照样做了一切。罪孽消除后,他与他的老师一同从中解脱。
3.129.20
लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम् ।
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ ३.१२९.२० ॥
大王,他获得了由自己的行为所赢得的善愿。他与那位婆罗门老师一起,成为了老师所钟爱的人。
3.129.21
एष तस्याश्रमः पुण्यो य एषोग्रे विराजते ।
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥ ३.१२९.२१ ॥
这是他的圣洁修行处,在此处光辉闪耀。人若在此忍耐地住上六夜,便能获得善趣。
3.129.22
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः ।
षड्रात्रं नियतात्मानः स़ज्जीभव कुरूद्वह ॥ ३.१२९.२२ ॥
诸王之王啊,我们也将在此住六夜,远离忧苦,自制其心。俱卢之最优秀者啊,准备好吧。