摩诃婆罗多 · 章 3.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.13.1
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप ।
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ॥ ३.१३.१ ॥
大地之主啊,若我先前在德瓦拉卡,您便不会遭此厄运。
3.13.2
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः ।
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च।
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ॥ ३.१३.२ ॥
不可战胜者啊,即便未被俱卢族所邀,我也会前往赌局,并向阿姆比卡之子国王难敌指出赌博的种种过失,从而加以制止。
3.13.3
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ।
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ॥ ३.१३.३ ॥
俱卢之子啊,只需召来毗湿摩、德罗纳、克里巴与巴赫利迦,并阻止维基特拉维利亚之子国王赌博,便已足够。
3.13.4
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ।
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ॥ ३.१३.४ ॥
王中之王啊,主啊,为了您的儿子们,我会在那里指出使您误入歧途的种种过错。
3.13.5
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा ।
अतर्कितविनाशश्च देवनेन विशांपते ॥ ३.१३.५ ॥
维拉塞那之子那罗因那些过失而昔日失去王国,而赌博带来了意想不到的毁灭,人民之主啊。
3.13.6
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥ ३.१३.६ ॥
我将如实讲述事件的前后连贯过程。
3.13.7
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् ।
दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः ॥ ३.१३.७ ॥
女人、骰子、狩猎与饮酒——这四种由欲望而生的苦,被称为使人失去财富的根源。
3.13.8
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः ।
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥ ३.१३.८ ॥
精通典籍的人认为此事处处都应说明,而知晓它的人认为,尤其应当就赌博加以说明。
3.13.9
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च ।
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥ ३.१३.९ ॥
在此一日之间,必然财产丧失、灾祸降临;未曾享用的财富也将失去,只剩下刻薄的言语。
3.13.10
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् ।
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥ ३.१३.१० ॥
哦,俱卢之裔,哦,大臂者!我将走到安比迦之子面前,就赌博谈论此事及其他,这些皆由执着的苦涩后果而生。
3.13.11
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम ।
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन ॥ ३.१३.११ ॥
若他听了我这番话而接受我的言语,那么,哦,俱卢的增益者,俱卢族的法便会安泰无恙。
3.13.12
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः ।
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥ ३.१३.१२ ॥
若他,哦王中之王,不接受我甜美而有益的言语,那么,哦,婆罗多中最优秀者,我便要以武力制止他。
3.13.13
अथैनमविनीतेन सुहृदो नाम दुर्हृदः ।
सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान् ॥ ३.१३.१३ ॥
若那些自称是他朋友、心怀恶意的朝臣追随这个不驯之人,我便要惩处他们与那些赌徒。
3.13.14
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा ।
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ॥ ३.१३.१४ ॥
俱卢后裔啊,那时我不在阿那尔多国,因此你们这些智者才遭受了这由赌博引起的灾难。
3.13.15
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन ।
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥ ३.१३.१५ ॥
俱卢中的最优者啊,般度之子啊,我到达德瓦拉卡,从猷猷陀那那里如实听说你陷入了灾难。
3.13.16
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः ।
तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते ॥ ३.१३.१६ ॥
诸王之王啊,听到此事,我的心极为不安;人民之主啊,我渴望见到你,所以迅速来到这里。
3.13.17
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ ।
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ॥ ३.१३.१७ ॥
唉!婆罗多中的公牛啊,我们都陷入了困境;我看到你和你的兄弟们沉溺于灾难之中。