Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.130

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.130.1

सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः ।
षड्रात्रमुष्य नियतो भ्रात्रादिभिररिंदमः।
तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम् ॥ ३.१३०.१ ॥

在索摩迦的圣洁修行所中,法王坚战与兄弟等人守戒住了六夜;随后这位降伏敌人者突然从那里出发,向北方前行。

3.130.2

बहुदूरं ततो गत्वा वनं तत्र मनोहरम् ।
बहुपष्पफलाकीर्णं महानद्युपशोभितम् ॥ ३.१३०.२ ॥

于是他们走了很远,来到一片迷人的森林,那里开满鲜花、结满果实,有一条大河映衬其间。

3.130.3

दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम् ।
किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम् ॥ ३.१३०.३ ॥

国王见到后,问最优秀的仙人罗摩莎:“这片充满鹿与鸟的可爱森林是什么地方?”

3.130.4

बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम् ।
स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया ॥ ३.१३०.४ ॥

这里花果繁盛,众多仙人常来居住,并有一条圣水之大河与之相连。

3.130.5

ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने ।
कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः।
एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर ॥ ३.१३०.५ ॥

贤者啊,我看到许多仙人的圣洁修行所。这座圣所属于谁?这些无垢的仙人又是谁的?我想听您讲述,请说吧,言语中最优秀的人。

3.130.6

शृणु राजेनद्र भद्रं ते वनस्यास्य पुरातनम् ।
वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ ॥ ३.१३०.६ ॥

王中之王啊,请听,愿你吉祥。无过失者啊,现在我将完整地讲述这片森林古老的故事。

3.130.7

मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः ।
बाल एव महाबुद्धिः सर्वविद्याविशारदः ॥ ३.१३०.७ ॥

摩尔根德耶是穆坎杜的智慧之子,大仙人,幼年时便已大智慧,精通一切学问。

3.130.8

मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत् ।
अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥ ३.१३०.८ ॥

他为了讨父母欢心,为修苦行进入森林。在此建立修行处,行了极为严苛的苦行。

3.130.9

ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ।
जलस्थः शिशिरे योगी बहुकालमवर्तत ॥ ३.१३०.९ ॥

夏季行五火苦行,雨季住在露天之下,冬季立于水中。这位瑜伽行者便如此长久地修行。

3.130.10

ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ।
जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम्।
अनाहारो जितक्रोधश्चिरमेवमवर्तत ॥ ३.१३०.१० ॥

双臂高举,无所依托,以大脚趾尖站立,制伏诸根与气息,坚定地观想不灭者,绝食,战胜愤怒,如此长久地住着。

3.130.11

एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा ।
संभूता सर्वसंहर्त्री तया दग्धं चराचरम् ॥ ३.१३०.११ ॥

就在此时,大王啊,出现了极其可怕的旱灾,毁灭一切;动与不动之物都被它烧尽。

3.130.12

अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः ।
केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः ॥ ३.१३०.१२ ॥

旱灾降临之时,众生皆亡;一些大德的仙人,即再生者中的最优者,也同样死去。

3.130.13

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः ।
पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः।
कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः ॥ ३.१३०.१३ ॥

婆罗门、刹帝利、吠舍、首陀罗以及所有妇女,牛羊、飞鸟与鹿群,都被饥渴所困,形容枯槁,嘴唇与喉咙干裂,疲惫、迷乱、失去知觉。

3.130.14

केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः ।
आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन् ॥ ३.१३०.१४ ॥

凭借残存的一点功德,他们缓缓抵达智者摩尔刚迪耶的隐修处,却忽然昏厥倒地。

3.130.15

समाधिविरतो योगी मार्कण्डेयो महातपाः ।
तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकलैः ॥ ३.१३०.१५ ॥

大苦行者瑜伽士摩尔刚迪耶从定境中醒来,看到那片密林中充满了饥渴交迫的人们。

3.130.16

दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे ।
तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः।
आजुहाव तदा गङ्गां तपोयोगेन भारत ॥ ३.१३०.१६ ॥

这位心被慈悲打动的瑜伽士,在心莲中冥想湿婆,随后为了保护他们,以充满吠陀芬芳的声音,凭借苦行与瑜伽的力量,呼唤恒河——婆罗多啊。

3.130.17

गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना ।
नाम्ना वेदनदीत्येव प्रख्याता लोकपावना ॥ ३.१३०.१७ ॥

被他召唤,极其圣洁的恒河迅速到来,于是以“吠陀河”之名而闻名,她是净化世界的河流。

3.130.18

पर्जन्यश्च समाहूतः सुखं वर्षति भारत ।
सस्यानि च समृद्धानि फलमूलान्यनेकशः।
संभूतान्यत्रराजेनद्र सर्वे ते रक्षिता जनाः ॥ ३.१३०.१८ ॥

婆罗多之子啊,被召唤的雨云欣然降雨。王中之王啊,这里生出了种种丰饶的谷物与果实根茎,所有这些人都得到了守护。

3.130.19

मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः ।
चिरं सुखमवर्तन्त तेन संरक्षिता नृप ॥ ३.१३०.१९ ॥

人们都称颂摩根德耶,所有再生族的人长久地安乐生活;国王啊,他们因他而得到守护。

3.130.20

एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम् ।
पुनश्चचार च तपः परमेश्वरतुष्टये ॥ ३.१३०.२० ॥

如此庇护了所有行善之人之后,他又修苦行,以使至高的主喜悦。

3.130.21

एवं बहुतिथे काले प्रादुरासीन्महेश्वरः ॥ ३.१३०.२१ ॥

如此过了许多日子,大自在天显现了。

3.130.22

दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम् ।
ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः ॥ ३.१३०.२२ ॥

他看见了众神之主、头戴明月、乌玛之夫,与梵天、毗湿奴等诸神,以及悉陀、持明和龙蛇一同在场——

3.130.23

गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः ।
स्तूयमानं महादेवमव्ययं निष्कलं शिवम्।
प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः ॥ ३.१३०.२३ ॥

当最优秀的乾闼婆、夜叉、紧那罗与飞鸟赞颂时,仙人以虔诚之心一次又一次地五体投地,礼敬那不朽、无分、吉祥的大天。

3.130.24

प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः ।
तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम् ॥ ३.१३०.२४ ॥

这位仁者即刻俯身礼拜后起身,双手合十,以种种赞歌赞颂世界之主大天神。

3.130.25

तमुवाच महादेवो मार्कण्डेयं महामुनिम् ।
वरं वरय भद्रं ते वरदोस्मि मुने तव ॥ ३.१३०.२५ ॥

于是大天神对大仙人摩根德耶说:"仙人,请选择一个恩赐吧,愿你吉祥。我是赐予恩惠的人。"

3.130.26

एवं संबोधितस्तेन शिवेन परमात्मना ।
सगद्गदमिदं वाक्यमुवाच परमेश्वरम् ॥ ३.१३०.२६ ॥

至上之我湿婆如此相呼,仙人哽咽着向至尊之主说出了这些话。

3.130.27

नान्यं वरं वृणे शंभो …त्वत्पादपङ्कजे ।
भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम् ॥ ३.१३०.२७ ॥

"商布啊,我不求别的恩赐……只愿在您的莲花足下获得唯一专一的虔敬,那是唯有不二之信才能得到的、坚定不移的虔敬。"

3.130.28

एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः ।
पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम् ॥ ३.१३०.२८ ॥

仙人如此说完,那位婆罗多语言之主的主宰又对大仙人摩根德耶说出了这些话。

3.130.29

सम्यगाराधितः पित्रा तव पुत्रार्थमादरात् ॥ ३.१३०.२९ ॥

你的父亲为了求子,恭敬而妥善地礼拜了我。

3.130.30

शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः ।
उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम् ॥ ३.१३०.३० ॥

一子寿百岁而无德,或吉祥而十六岁——汝可选二者之中的另一个。被如此告知后,他对我说。

3.130.31

निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः ।
सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा ॥ ३.१३०.३१ ॥

天神之主啊,愿他不要无德——无论寿百岁或十六岁——愿我的儿子今日有德。往昔父亲便如此选择。

3.130.32

त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने ।
दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः ॥ ३.१३०.३२ ॥

贤者啊,我因你严苛的苦行而大为欢喜,已赐你长寿,并阻止了死亡。

3.130.33

इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ।
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः ॥ ३.१३०.३३ ॥

说完此言,世尊自在天即于彼处隐去。此为其圣洁的修行处,这些无垢的贤者皆属于他。

3.130.34

अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै ।
अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप ॥ ३.१३०.३४ ॥

凡在此住过一夜的人,皆能超越死亡。就在此处,婆罗多之最,国王啊,你当以克己而居。