Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.133

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.133.1

धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः ।
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि ॥ ३.१३३.१ ॥

大王啊,世间所有的君主都只称你为法魂;你为何竟想做违背法的事呢?

3.133.2

विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा ।
माहिंसीर्धर्मलोभेन धर्ममुत्सृज्य मा नशः ॥ ३.१३३.२ ॥

大王啊,对于饥饿所苦的我,这正是规定的食物。请不要因贪求法而伤害我;不要舍弃法而走向毁灭。

3.133.3

संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज ।
मत्सकाशमनुप्रप्तः प्राणगृध्नुरयं द्विजः ॥ ३.१३३.३ ॥

大鸟啊,这只因怕你而惊恐、外形颤抖、寻求庇护、贪恋生命的鸟,已来到我的面前。

3.133.4

एवमभ्यागतस्येह कपोतस्याभयार्थिनः ।
अप्रदाने परो धर्मः किं त्वं श्येनेह पश्यसि ॥ ३.१३३.४ ॥

对于这样来到此地、寻求安全的鸽子,不予交出便是更高的法。鹰啊,你在这里看到了什么?

3.133.5

प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते ।
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः ॥ ३.१३३.५ ॥

鹰啊,那颤抖、惊慌的鸽子似乎为求生而来到我面前;舍弃它是应受谴责的。

3.133.6

यो हि कश्चिद्द्विजान्हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च त्यजते तुल्यं तेषां हि पातकम् ॥ ३.१३३.६ ॥

无论是谁杀害再生者,或杀害作为世界之母的牛,或舍弃前来求庇护的人,他们的罪过都是相同的。

3.133.7

आहारत्सर्वभूतानि संभवन्ति महीपते ।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ ३.१३३.७ ॥

大地之主啊,一切众生都由食物而生;依靠食物而成长,依靠食物而生存。

3.133.8

शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् ।
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् ॥ ३.१३३.८ ॥

即便是难以舍弃之物,也可以舍弃而度过漫长的夜晚;但舍弃食物,却无法长久维持生命。

3.133.9

भक्ष्याद्विलोपितस्याद्य मम प्राणा विशांपते ।
विसृज्यकायमेष्यन्ति पन्थानमपुनर्भवम् ॥ ३.१३३.९ ॥

人主啊,今日我失去食物,生命之气将离开这身体,走上那不再轮回的道路。

3.133.10

प्रमृते मयि धर्मात्मन्पुत्रदारादि नङ्क्ष्यति ।
रक्षमाणः कपोतं त्वं बहून्प्राणान्न रक्षसि ॥ ३.१३३.१० ॥

正法之人啊,我若死去,我的儿子、妻子等将会灭亡。你守护鸽子,却没有守护众多生命。

3.133.11

बहून्यो बाधते धर्मो न स धर्मः कुवर्त्म तत् ।
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम ॥ ३.१३३.११ ॥

若某种法妨害众多,则非真法,乃歧途。而不与任何人相冲突的法,才是真法,真勇之人啊。

3.133.12

विरोधिषु महीपाल निश्चित्य गुरुलाघवम् ।
न बाधा विद्यते यत्र तं धर्मं समुपाचरेत् ॥ ३.१३३.१२ ॥

大地的守护者啊,在相互冲突的法中辨明轻重之后,应当奉行那种没有妨害的法。

3.133.13

गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये ।
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् ॥ ३.१३३.१३ ॥

知晓法与非法裁定中的轻重,王啊,依其更重者而定法。

3.133.14

बहुकल्याणसंयुक्तं भाषसे विहगोत्तम ।
सुपर्णः पक्षिराट् किं त्वं धर्मं ज्ञात्वाऽभिभाषसे ॥ ३.१३३.१४ ॥

你所说的话充满大善,鸟中之最。你是金翅鸟、鸟王吗?你知晓法而如此言说吗?

3.133.15

तथाहि धर्मसंयुक्तं बहुचित्रं च भाषसे ।
न तेऽस्त्यविदितं किंचिदिति त्वां लक्षयाम्यहम्।
शरणैषिपरित्यागं कथं साध्विति मन्यसे ॥ ३.१३३.१५ ॥

如此你所说的话既合乎法又十分多样;我看你并无所不知。你如何认为抛弃求庇护者是善的呢?

3.133.16

आहारार्थं समारम्भस्तव चायं विहंगम ।
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया ॥ ३.१३३.१६ ॥

鸟啊,你这样追求是为了食物。此事可以用别的方式去做,你的食物甚至可以更多。

3.133.17

गोवृषो वा वराहो वा मृगो वा महिषोपि वा ।
त्वदर्थमद्य क्रियतां यच्चान्यदिह काङ्क्षसि ॥ ३.१३३.१७ ॥

公牛,或野猪,或鹿,或水牛——今日为你准备这些,以及你在此所想要的其他任何东西。

3.133.18

न वराहं न चोक्षाणं न मृगान्विविधांस्तथा ।
भक्षयामि महाराज किं ममान्येन केचचित् ॥ ३.१३३.१८ ॥

不吃野猪,不吃公牛,也不吃各种各样的鹿——大王,我不吃这些。对我而言,其他的又有什么用呢?

3.133.19

यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव ।
तमुत्सृज महीपाल कपोतमिममेव मे ॥ ३.१३३.१९ ॥

刹帝利中的勇士啊,命运为我所定的食物,大地之主啊,正是这只鸽子,请把它还给我。

3.133.20

श्येनाः कपोतान्स्वादन्ति श्रुतिरेषा सनातनी ।
मा राजन्सारमज्ञात्वा कदलीस्कन्धमासज ॥ ३.१३३.२० ॥

鹰隼食鸽,此乃永恒的经典。大王啊,不知其实质,不要攀附芭蕉的树干。

3.133.21

राष्ट्रं शिवीनामृद्धं वै शाधि पक्षिभिरर्चितः ।
कृत्स्नमेतन्मया दत्तं राजवद्विहगोत्तम ॥ ३.१३३.२१ ॥

请统治繁荣的尸毗国吧,你受鸟类尊崇。鸟中之王啊,我如国王般将这一切都赠予你。

3.133.22

यं वा कामयसे कामं श्येन सर्वं ददानि ते ।
विनेमं पक्षिणं श्यन शरणार्थिनमागतम् ॥ ३.१३३.२२ ॥

鹰啊,你想要什么,我都全部给你;但请放了这只前来寻求庇护的鸟。

3.133.23

येनेमं स्थापयेथास्त्वं कर्मणा पक्षिसत्तम ।
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् ॥ ३.१३३.२३ ॥

鸟中之王啊,请告诉我,用什么行为能使他恢复;我会照做,但鸽子我不会给你。

3.133.24

उशीनर कपोते ते यदि स्नेहो नराधिप ।
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् ॥ ३.१३३.२४ ॥

乌尸那罗啊,如果你对这只鸽子怀有爱意,人主啊,那就从自己身上割下肉,放在与鸽子等重的秤上。

3.133.25

यदा समं कपोतेन तव मांसं नृपोत्तम ।
त्वया प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति ॥ ३.१३३.२५ ॥

最优秀的君王啊,当你的肉与鸽子相等时,你必须把它给我;那时我才会满足。

3.133.26

अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे ।
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् ॥ ३.१३३.२६ ॥

鹰啊,你向我所求的,我视为一种恩惠;因此今天我将把放在秤上的自己的肉给你。

3.133.27

अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् ।
तुलयामास कौन्तेय कपोतेन समं विभो ॥ ३.१३३.२७ ॥

于是精通至高法的国王割下自己的肉,与鸽子等重地称量,啊,昆蒂之子,啊,大能者。

3.133.28

ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते ।
पुनश्चोत्कृत्यमांसानि राजा प्रादादुशीनरः ॥ ३.१३३.२८ ॥

然而当鸽子放在秤上时,它比肉还重;于是乌shīnara王再次割下自己的肉给了它。

3.133.29

न विद्यते यदा मांसं कपोतेन समं धृतम् ।
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् ॥ ३.१३३.२९ ॥

当秤上找不到与鸽子相等的肉时,被割去肉的国王自己登上了秤盘。

3.133.30

इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् ।
जिज्ञासमानौ धर्म त्वां यज्ञवाटमुपागतौ ॥ ३.१३३.३० ॥

智者啊,我是因陀罗,这只鸽子是遍火阿耆尼;为了求知法,我们二人来到你的祭坛。

3.133.31

यत्ते मांसानि गात्रेभ्य उक्तृत्तानि विशांपते ।
एषा ते शाश्वती कीर्तिर्लोकानभिभविष्यति ॥ ३.१३३.३१ ॥

啊,人民之主,从你肢体上割下的肉,便是你永恒的名声;它将超越诸世界。

3.133.32

यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव ।
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः ॥ ३.१३३.३२ ॥

啊,国王,只要世间的人们还谈论你,你的名声与你的诸世界便将永远长存。

3.133.33

इत्युक्त्वा भूमिपतये तस्मै दत्त्वा यथेप्सितम् ।
प्रशस्य जग्मतू राजन्निन्द्राग्री तुष्टमानसौ ॥ ३.१३३.३३ ॥

说完这些,满足了这位大地之主的心愿,并赞美了他之后,啊,国王,因陀罗与阿耆尼满心欢喜地离去了。

3.133.34

उशीनरोऽपिधर्मात्मा धर्मेणावृत्यरोदसी ।
विभ्राजमानो वपुषाऽप्यारुरोह त्रिविष्टपम् ॥ ३.१३३.३४ ॥

正法之魂的乌尸那罗,以正法遍覆天地,身体也光辉照耀,升上了三界之天(三重天)。

3.133.35

तदेतत्सदनं राजन्राज्ञस्तस्य महात्मनः ।
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् ॥ ३.१३३.३५ ॥

啊,国王,这便是那位大德之王的住所。请与我一同观看:它神圣,能使人脱离罪恶。

3.133.36

तत्र वै सततं देवा मुनयश्च सनातनाः ।
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः ॥ ३.१३३.३६ ॥

啊,国王,在那里,诸神与永恒的圣仙们时常可见,由具有功德的大德婆罗门所见。