Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.134

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.134.1

यः कथ्यते मन्त्रविदग्र्यबुद्धि-
रौद्दालकिः श्वेतकेतुः पृथिव्याम्।
तस्याश्रमं पश्यत पाण्डवेया ।
सदाफलैरुपपन्नं महीजैः ॥ ३.१३४.१ ॥

乌达拉迦之子白足(Śvetaketu),世人称其为诸明咒者中智慧最卓越者。般度之子啊,请看他的修行林,那里常有果实累累的树木。

3.134.2

साक्षादत्र श्वेतकेतुर्ददर्श ।
सरस्वतीं मानुषदेहरूपाम्।
वेत्स्यामि वाणीमिति संप्रवृत्तां ।
सरस्वतीं श्वेतकेतुर्बभाषे ॥ ३.१३४.२ ॥

白足在此亲眼见到了化为人身形态的萨拉斯瓦蒂。他心想“我将认识语言”,便与现身前来的萨拉斯瓦蒂交谈。

3.134.3

अस्मिन्युगे ब्रह्मकृतां वरिष्ठा-
वास्तां मुनी मातुलभागिनेयौ।
अष्टावक्रश्चैव कहोलसूनु-
रौद्दालकिः श्वेतकेतुः पृथिव्याम् ॥ ३.१३४.३ ॥

在此时代,有两位精通梵智的贤者,舅甥二人:卡霍拉之子八曲(Aṣṭāvakra)与乌达拉迦之子白足(Śvetaketu),二人闻名于世。

3.134.4

विदेहराजस् समीपतस्तौ ।
घीरावुभौ मातुलभागिनेयौ।
प्रविश्य यज्ञायतनं विवादे ।
वन्दिं निजग्राहतुरप्रमेयौ ॥ ३.१३४.४ ॥

二位坚毅的贤者,舅甥二人,在毗提诃王身边,进入祭场,在辩论中战胜并擒住了宫廷辩士‘文迪’;二人皆不可限量。

3.134.5

वादे भङ्क्त्वा मज्जयामास नद्याम् ॥ ३.१३४.५ ॥

在辩论中击败他之后,使他沉入河中。

3.134.6

कथंप्रभावः स बभूव विप्र-
स्तथाभूतं यो निजग्राह वन्दिम्।
किंचाधिकृत्याथ तयोर्विवादो ।
विदेहराजस् समीप आसीत् ॥ ३.१३४.६ ॥

那位擒住如此文迪的婆罗门,究竟有何等威力?那二人在毗提诃王身边的争辩,又是关于何事?

3.134.7

अष्टावक्रः केन चासौ बभूव ।
तत्सर्वं मे लोमश शंस तत्त्वम् ॥ ३.१३४.७ ॥

阿湿陀伐克罗因何缘故变成那样?哦,罗摩沙,请将其中一切如实告诉我。

3.134.8

उद्दालकस्य नियतः शिष्य एको ।
नाम्ना कहोळेति बभूव राजन्।
शुश्रूषुराचार्यवशानुवर्ती ।
दीर्घ कालं सोऽध्ययनं चकार ॥ ३.१३४.८ ॥

大王,乌达拉迦有一位名叫迦诃荼的专心弟子。他乐于侍奉,顺从师长的意愿,长久地学习。

3.134.9

तं वै विप्राः पर्यभवंस्तु शिखा-
स्तं च ज्ञात्वा विप्रकारं गुरुः सः।
तस्मै प्रादात्सद्य एव श्रुतं च ।
भार्यां च वै दुहितरं स्वां सुजाताम् ॥ ३.१३४.९ ॥

婆罗门们轻视他,但老师得知他受到的侮辱后,立即将全部学问传授给他,并将自己出身高贵的女儿苏阇多嫁给他为妻。

3.134.10

तस्यां गर्भः समभवदग्निकल्पः ।
सोऽधीयानं पितरमथाभ्युवाच।
सर्वां रात्रिमध्ययनं करोषि ।
नेदं पितः सम्यगिवोपवर्तते ॥ ३.१३४.१० ॥

她腹中孕育出一个如火般的胎儿。父亲正在学习时,这个胎中的孩子对他说:"父亲,您整夜学习,这似乎进行得不太恰当。"

3.134.11

उपालब्धः शिष्यमध्ये महर्षिः ।
स तं कोपादुदरस्थं शशाप।
यस्माद्वक्रं वर्तमानो ब्रवीषि ।
तस्माद्वक्रो भवितास्यष्टधैव ॥ ३.१३४.११ ॥

大仙在弟子面前受到责备,愤怒之下诅咒了腹中的胎儿:"因为你身在胎中就说话弯曲,你将在八处弯曲。"

3.134.12

स वै तथा वक्र एवाभ्यजाय-
दष्टावक्रः प्रथितो मानवेषु।
अस्यासीद्वै मातुलः श्वेतकेतुः ।
स तेन तुल्यो वयसा बभूव ॥ ३.१३४.१२ ॥

他就这样生来弯曲,在人间以八曲者(阿湿塔伐克拉)闻名。他的舅舅是白增,年龄与他相当。

3.134.13

संपीड्यमाना तु तदा सुजाता ।
विवर्धमानेन सुतेन कुक्षौ।
उवाच भर्तारमिदं रहोगता ।
प्रसाद्य हीना वसुना धनार्थिनी ॥ ३.१३४.१३ ॥

那时,苏耶多在腹中渐长的儿子使她痛苦,她便独自走开,对丈夫说了这番话;她缺少财物,渴望钱财,便设法讨好丈夫。

3.134.14

कथं करिष्याम्यधुना महर्षे ।
मासश्चायं दशमो वर्तते मे।
नैवास्ति मे वसु किंचित्प्रदाता ।
येंनाहमेतामापदं निस्तरेयम् ॥ ३.१३४.१४ ॥

大仙啊,我现在该怎么办?这已是我怀胎的第十个月。我没有任何财物可以给出,借此度过这场灾难。

3.134.15

उक्तस्त्वेवं भार्यया वै कहोळो ।
वित्तस्यार्थे जनकमथाभ्यगच्छत्।
स वै तदा वादविदा निगृह्य ।
निमज्जितो वन्दिनेहाप्सु विप्रः ॥ ३.१३४.१५ ॥

妻子这样说了之后,迦诃拿为了钱财去见父亲。那时,精通辩论的温丁抓住他,让他在这里沉入水中。

3.134.16

उद्दालकस्तं तु तदा निशम्य ।
सूतेन वादेऽप्सु निमज्जितं तथा।
उवाच तां तत्रततः सुजात-
मष्टवक्रे गूहितव्योऽयमर्थः ॥ ३.१३४.१६ ॥

那时,乌达拉迦从御者那里听说他在辩论中被沉入水中,便在那里对苏耶多说:关于八曲者的这件事必须保密。

3.134.17

ररक्ष सा चापि तमस् मन्त्रं ।
जातोऽप्यसौ नैव शुश्राव विप्रः।
उद्दालकं पितरं सोऽभिमेने ।
तथाऽष्टावक्रो भ्रातरं श्वेतकेतुम् ॥ ३.१३४.१७ ॥

她也守护着那段咒语。虽然他已出生,这位婆罗门却没有听闻;他以乌达拉迦为父,阿湿陀伐克罗也以其兄弟室吠多刹为兄。

3.134.18

ततो वर्षे द्वादशे श्वेतकेतु-
रष्टावक्रं पितुरङ्के निषण्णम्।
अपाकर्षद्गृह्यपाणौ रुदन्तं ।
नायं तवाङ्कः पितुरित्युक्तवांश्च ॥ ३.१३४.१८ ॥

此后第十二年,室吠多刹抓住坐在父亲膝上的阿湿陀伐克罗的手,把他拉开。对哭泣的他说:“这不是你父亲的膝盖。”

3.134.19

यत्तेनोकतं दुरुक्तं तत्तदानीं ।
हृदि स्थितं तस्य सुदुःखमासीत्।
गृहं गत्वा मातरं सोऽथ विग्रः ।
पप्रच्छेदं क्व नु तातो ममेति ॥ ३.१३४.१९ ॥

他所说的那句严厉的话当时就留在了他心中,他非常悲伤。回到家后,这位婆罗门问母亲:“我的父亲在哪里?”

3.134.20

ततः सुजाता परमार्तरूपा ।
शापाद्भीता तत्त्वमस्याचचक्षे।
तद्वै तत्त्वंसर्वमाज्ञाय रात्रा-
वित्यब्रवीच्छ्वेतकेतुं स विप्रः ॥ ३.१३४.२० ॥

于是,苏阇多极为悲苦,又因诅咒而恐惧,便把真相告诉了他。那婆罗门知晓了一切真相,夜里对室吠多刹这样说。

3.134.21

गच्छाव यज्ञं जनकस्य राज्ञो ।
बह्वाश्चर्यः श्रूयते तस्य यज्ञः।
श्रोष्यावोऽत्र ब्राह्मणानां विवाद-
मन्नं चाग्र्यं तत्रभोक्ष्यावहे च ॥ ३.१३४.२१ ॥

我们去国王遮那迦的祭祀吧,听说他的祭祀非常奇妙。在那里我们将听婆罗门的辩论,也将在那里享用最上等的食物。

3.134.22

विचक्षणत्वं च भविष्यते नौ ।
शिवश्च सौम्यश्च हि ब्रह्मघोषः ॥ ३.१३४.२२ ॥

我们二人都将获得明辨之智,并且会有吉祥温和的吠陀诵声。

3.134.23

तौ जग्मतुर्मातुलभागिनेयौ ।
यज्ञं समृद्धं जमकस्य राज्ञः।
अष्टावक्रः पथि राज्ञा समेत्य ।
प्रोत्सार्यमाणो वाक्यमिदं जगाद ॥ ३.१३४.२३ ॥

二人,舅舅与外甥,前往遮那迦王繁盛的祭祀。途中遇见国王时,被推搡着让开的阿湿塔伐克拉说出了这些话。