Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.135

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.135.1

अन्धस्य पन्था बधिरस्य पन्थाः ।
स्त्रियः पन्था भारवाहस्य पन्थाः।
राज्ञः पन्था ब्राह्मणेनासमेत्य ।
समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ३.१३५.१ ॥

盲人有路,聋人有路;妇人有路,负重者有路;国王之路,在未遇婆罗门之前;一旦遇到婆罗门,路便只属于婆罗门。

3.135.2

पन्था अयं तेऽद्य मया निसृष्टो ।
येनेच्छसे तेन कामं व्रजस्व।
न पावको विद्यते वै लघीया-
निन्द्रोपि नित्यं नमते ब्राह्मणानाम् ॥ ३.१३५.२ ॥

今日我将此路让与你;你愿走哪条路,便依你所愿前行。没有比婆罗门更小的火;连因陀罗也始终向婆罗门致敬。

3.135.3

स एवमुक्तो मातुलेनैव सार्धं ।
यथेष्टमार्गो यज्ञनिवेशनं तत्।
संप्राप्य धर्मेण निवारितः सन् ।
द्वारि द्वाःस्थं वाक्यमिदं बभाषे ॥ ३.१३५.३ ॥

舅父如此说了之后,他与舅父一同走他所愿的路,抵达了祭场;但按照法度在门口被拦下时,他对守门人说了这些话。

3.135.4

यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात ।
कौतूहलं बलवद्वै विवृद्धम्।
आवां प्राप्तावतिथी संप्रवेशं ।
काङ्क्षावहे द्वारपते तवाज्ञाम् ॥ ३.१३५.४ ॥

孩子,我们是来观看祭祀的;我们的好奇心已变得十分强烈。我们二人以客人身份来到此处;守门人啊,我们愿得到你的允许入内。

3.135.5

ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां ।
विवक्षू वै जनकेन्द्रं दिदृक्षू।
न वै क्रुध्यो वन्दिना चोत्तमेन ।
संयोजय द्वारपाल क्षणेन ॥ ३.१३५.५ ॥

我们二人前来观看因陀罗umna之子的祭祀;我们想与阇那迦族的主君交谈并拜见他。我们并不因卓越的文丁而生气。守门人啊,请立刻带我们进去。

3.135.6

वन्देः समादेशकरा वयं स्म ।
निबोध वाक्यं च मयेर्यमाणम्।
न वै बालाः प्रविशन्त्यत्र विप्रा ।
वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ॥ ३.१३५.६ ॥

我们是遵从文丁之命的人。请听我所说的话。这里不许孩童进入;只有年长、博学的婆罗门中的第一流者才能进入。

3.135.7

यद्यत्रवृद्धेषु कृतः प्रवेशो ।
युक्तं मया द्वारपाल प्रवेष्टुम्।
वयं हि वृद्धाश्चरितव्रताश्च ।
वेदप्रभावेन समन्विताश्च ॥ ३.१३५.७ ॥

若此处允许长者入内,那么我入内是合宜的,守门人啊。我们是年长者,持守誓戒,并具有吠陀的威力。

3.135.8

शुश्रूषवश्चापि जितेन्द्रियाश्च ।
ज्ञानागमे चापि गताः स्म निष्ठाम्।
न बाल इत्येव मन्तव्यमाहु-
र्बालोऽप्यग्निर्दहति स्पृश्यमानः ॥ ३.१३५.८ ॥

我们恭敬侍奉,克制诸根,也在求得知识中达到了坚定。人们说,不应只把人看作孩童;即便是幼小的火,被触碰时也会灼烧。

3.135.9

सरस्वतीमीरय वेद जुष्टा-
मेकाक्षरां बहुरूपां विराजम्।
अङ्गात्मानं समवेक्षस्व बालं ।
किं श्लाघसे दुर्लभा वादसिद्धिः ॥ ३.१३५.९ ॥

诵念为吠陀所喜爱、单音节、多形、光辉的萨罗室伐蒂;看那以肢体为自我之人。少年,你为何夸耀那难得的辩论成就?

3.135.10

न ज्ञायते कायवृद्ध्या विवृद्धि-
र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः।
ह्रस्वोऽल्पकायः फलितो विवृद्धो ।
यश्चाफलस्तस्य न वृद्धभावः ॥ ३.१३५.१० ॥

成熟并不由身体的增长而知,如同莎尔玛利树的果核,即使完全长成也是如此。矮小、身量短小却结果而长成的,与无果者相比,并无老成之态。

3.135.11

वृद्धेभ्य एवेह मतिं स्म बाला ।
गृह्णन्ति कालेन भवन्ति वृद्धाः।
न हि ज्ञातुमल्पकालेन शक्यं ।
कस्माद्बालः स्थविर इव प्रभाषसे ॥ ३.१३५.११ ॥

此处少年只从长者处获得智慧;时日久了,他们也成为长者。短时间内是不可能知道的。少年,你为何像老人一样说话?

3.135.12

न तेन स्थविरो भवति येनास्य पलितं शिरः ।
बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ॥ ३.१३५.१२ ॥

并非头发花白便成为长者;即使是少年,若能明白,诸神也视之为长者。

3.135.13

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ३.१३५.१३ ॥

不因年岁,不因白发,不因财富,也不因亲族;诸仙人行持法。通晓吠陀者,才是我们所尊敬的伟人。

3.135.14

दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि ।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ॥ ३.१३५.१४ ॥

我怀着想见的心愿而来,想见王庭中的辩士。守门人啊,请向佩戴莲花花环的国王通报我。

3.135.15

द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः ।
सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ॥ ३.१३५.१५ ॥

守门人啊,今天你将看到我们与智者辩论;争论激烈之时,辩士也必被击败。

3.135.16

पश्यन्तु विप्राः परिपूर्णविद्याः ।
सहैव राज्ञा सपुरोधमुख्याः।
उताहो वाऽप्युच्चतां नीचतां वा ।
तूष्णींभूतेष्वेव सर्वेष्वथाद्य ॥ ३.१३५.१६ ॥

愿学问圆满的婆罗门们,与国王及首席祭司一同看着吧,无论尊贵或卑微,待到众人皆默然之时,就在今日。

3.135.17

कथं यज्ञं दशवर्षो विशेस्त्वं ।
विनीतानां विदुषां संप्रवेशम्।
उपायतः प्रयतिष्ये तवाहं ।
प्रवेशने कुरु यत्नं यथावत् ॥ ३.१३५.१७ ॥

你年方十岁,如何进入祭祀,进入谦逊博学之士的集会?我将设法为你尝试;你也当恰当地努力求得入内。

3.135.18

एष राजा संश्रवणे स्थितस्ते ।
स्तुह्येनं त्वं वचसा संस्कृतेन।
स चानुज्ञां दास्यति प्रीतियुक्तः ।
प्रवेशने यच्च किंचित्तवेष्टम् ॥ ३.१३५.१८ ॥

国王就站在你听得见的地方。用雅正的言辞赞美他吧;他欢喜之后会允准,你所愿的入内之事也会成就。

3.135.19

भोभो राजञ्जनकानां वरिष्ठ ।
त्वं वै सम्राट् त्वयि सर्वं समृद्धम्।
त्वं वा कर्ता कर्मणां यज्ञियानां ।
ययातिरेको नृपतिर्वा पुरस्तात् ॥ ३.१३५.१९ ॥

啊,国王,诸遮那卡中最优秀者!你确实是至尊的君主;你身上一切都繁盛。你是祭祀仪式的执行者,或者从前只有耶耶提是国王。

3.135.20

विद्वान्वन्दी वादविदो निगृह्य ।
वादे भग्नानप्रतिशङ्कमानः।
त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि-
र्जले सर्वान्मज्जयतीति नः श्रुतम् ॥ ३.१३५.२० ॥

我们听说,精通辩论的博学吟游者万底,制伏辩论中落败的人,毫无顾忌地,借助你派出的可靠之人,把他们全都投入水中淹死。

3.135.21

सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ।
ब्रह्माद्य वै कथयितुमागतोस्मि।
क्वासौ वनदी यावदेनं समेत्य ।
नक्षत्राणीव सविता नाशयामि ॥ ३.१३५.२१ ॥

我在婆罗门面前听闻此事,今日前来与人谈论梵。那位林中吟游者在哪里?我见到他后,将毁灭他,犹如太阳毁灭众星。

3.135.22

आशंससे वन्दिनं वै विजेतु-
मविज्ञाय त्वं वाक्यबलं परस्य।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं ।
दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ॥ ३.१३५.२२ ॥

你不知道他言辞的力量,却希望能战胜这位吟游者。只有力量为人所知的人才能这样说话。而且,那些喜好辩论的婆罗门确实见过他。

3.135.23

आशंसमाना वन्दिनं वै बिजेतु-
मविज्ञात्वा तु बलं वन्दिनोऽस्य।
समागता ब्राह्मणास्तेन पूर्वं ।
न शोभन्ते भास्करेणेव ताराः ॥ ३.१३५.२३ ॥

妄想战胜辩士凡丁,却不知其力量,先前与他相会的婆罗门如同太阳前的星辰般黯然失色。

3.135.24

आशानुबन्धो हि तवात्र यत्नः ।
स वन्दिमासाद्यतथा विनश्यति।
विज्ञानवन्तो निकृतास्तु तात ।
कथं सदस्तर्तुमिदं समर्थः ॥ ३.१३५.२४ ॥

你在此的努力为希望所束缚;接近凡丁后,它也会这样消亡。亲爱的,即便有智者也已败北,你如何能够渡过这个集会?

3.135.25

विवादितोऽसौ न हि मादृशैर्हि ।
सिंहीकृतस्तेन वदन्यभीतः।
समेत्य मां निहतः शेष्यतेऽद्य ।
मार्गे भग्नं शकटमिवाबलाक्षम् ॥ ३.१३५.२५ ॥

他不会被我这样的人在辩论中击败;他无所畏惧地说话,已化作雄狮。与我相遇,他今日将被杀害而遗留路旁,如同半途折断了弱轴的车辆。

3.135.26

षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः ।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ॥ ३.१३५.२६ ॥

知晓具六毂、十二轴、二十四节、三百六十辐之轮的吠陀真义者,便是最上的智者。

3.135.27

चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि ।
तत्रिषष्टिशतारं वै चक्रं पातु सदागति ॥ ३.१३५.२७ ॥

愿那具二十四节、六毂、十二辋、三百六十辐、永恒运转的车轮保佑你。

3.135.28

बडबे इव संयुक्ते श्येनपाते दिवौकसाम् ।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥ ३.१३५.२८ ॥

如同诸天神灵俯冲如鹰之时并驾的两匹母马,二者之中谁受孕,谁又产下胎儿?

3.135.29

मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम् ।
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ॥ ३.१३५.२९ ॥

大王啊,即便在自己的家中,即便面对敌人,也千万不要成为那样;以风为御者的,承载着胚胎;那二者生下了它。

3.135.30

किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति ।
कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ॥ ३.१३५.३० ॥

什么东西睡着时也不眨眼?什么东西出生后也不动?谁没有心?什么东西依靠速度而增长?

3.135.31

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ ३.१३५.३१ ॥

睡着的鱼不眨眼;孵出的卵不动;石头没有心;河流依靠水流而增长。

3.135.32

न त्वां मन्ये मानुषं देवसत्व ।
न त्वं बालः स्थविरः संमतो मे।
न ते तुल्यो विद्यते वाक्प्रलापे ।
तस्माद्द्वारं वितराम्येष विद्वन् ॥ ३.१३५.३२ ॥

神性之人啊,我不把你当作凡人;你既非孩童,也不是我所尊敬的长者;在言辞辩论中,没有人能与你相比;因此,智者啊,我为你打开这扇门。