摩诃婆罗多 · 章 3.136
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.136.1
अत्रोग्रसेनसमितेषु राजन् ।
समागतेष्वप्रतिमेषु राजसु।
न मे विवित्सान्तरमस्ति वादिनां ।
महाजने हंसविवादिनामिव ॥ ३.१३६.१ ॥
大王啊,在乌格拉塞纳的集会中,诸位无与伦比的国王齐聚于此,在辩论者之间我看不到机会,就像在大众面前天鹅的争论一样。
3.136.2
न मोक्ष्यसे वै वदमानो निमज्जन् ।
जलं प्रपन्नः सरितामिवाधनः।
हुताशनस्येव समिद्धतेजसः ।
स्थिरो भवस्वेह ममाद्य वन्दिन् ॥ ३.१३६.२ ॥
噫,万丁啊,你即使说话也逃不出我的手,就像贫穷之人沉入河水之中。今日在我面前,你要像燃烧的火一样站稳于此。
3.136.3
व्याघ्रं शयानं प्रति मा प्रबोध ।
आशीविषं सृक्विणी संलिहानम्।
पदा हतस्येह शिरोभिहत्य ।
नादष्टो वै मोक्ष्यसे तन्निबोध ॥ ३.१३६.३ ॥
不要惊醒熟睡的老虎,那是舔着嘴唇的毒蛇。在这里,击打已被脚踢倒者的头颅,你不被咬伤就无法逃脱——请明白这一点。
3.136.4
यो वै दर्पात्संहननोपपन्नः ।
सुदुर्बलः पर्वतमाविहन्ति।
तस्यैव पाणिः सनखो विदीर्यते ।
न चैव शैलस्य हि दृश्यते व्रणः ॥ ३.१३६.४ ॥
凭着骄傲,虽有强健之躯却极其孱弱,去击打大山的人,他自己的手会连同指甲一起裂开;而岩石上连伤痕都看不见。
3.136.5
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा ॥ ३.१३६.५ ॥
弥提罗(遮那伽)的诸王如同摩奈迦山;而这些国王却属下等,如同牛前的小牛。
3.136.6
यथा महेन्द्रः प्रवरः सुराणां ।
नदीषु गङ्गा प्रवरा यथैव।
तथा नृपाणां प्रवरस्त्वमेको ।
वन्दिं समभ्यानय मत्सकाशम् ॥ ३.१३६.६ ॥
犹如因陀罗在诸神中最为殊胜,恒河在诸河中最为殊胜,你也独自是诸王中最殊胜者。把歌者行者(Vandin)带到我面前来。
3.136.7
एवमष्टावक्रः समितौ हि गर्ज-
ञ्जातक्रोधो वन्दिनमाह राजन्।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि ।
वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥ ३.१३६.७ ॥
于是八曲仙在集会中怒吼,愤怒地对歌者行者说道:“王啊,请回答已说过的话;你的话,我也会回答。”
3.136.8
एक एवाग्निर्बहुधा समिध्यते ।
एकः सूर्यः सर्वमिदं विभाति।
एकोऽवीरो देवराजोऽरिहन्ता ।
यमः पितृणामीश्वरश्चैक एव ॥ ३.१३६.८ ॥
火只有一个,却以多种方式燃起;太阳只有一个,它照耀着这一切。诸神之王只有一位,是敌人的摧毁者;而祖先之主阎摩也只有一位。
3.136.9
द्वाविन्द्राग्नी चरतो वै सखायौ ।
द्वौ देवर्षी नारदपर्वतौ च।
द्वावश्विनौ द्वे रथस्यापि चक्रे ।
भार्यापती द्वौ विहितौ विधात्रा ॥ ३.१३६.९ ॥
因陀罗与阿耆尼如朋友般同行,是二者;那罗陀与帕尔瓦塔两位天仙,是二者;双马童是二者,车轮也是二者;夫妻是二者,由造物主所安排。
3.136.10
त्रिः सूयते कर्मणा वै प्रजेयं ।
त्रयो युक्ता वाजपेयं वहन्ति।
अध्वर्यवस्त्रिसवनानि तन्वते ।
त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥ ३.१३६.१० ॥
此众生因业而三次出生。三匹被套上轭的神驹承载着瓦贾佩耶祭;祭司们展开三次祭酒;人们说有三界,也有三光。
3.136.11
चतुष्टयं ब्राह्मणानां निकेतं ।
चत्वारो वर्णा यज्ञमिमं वहन्ति।
दिशश्चतस्रो वर्णचतुष्टयं च ।
चतुष्पदा गौरपि शश्वदुक्ता ॥ ३.१३६.११ ॥
四重之群是婆罗门的居所。四种姓承载此祭祀。四方、四种姓之群以及四足之牛也常被提及(皆与“四”相关)。
3.136.12
पञ्चाग्नयः पञ्चपदा च पङ्क्ति-
र्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि।
दृष्ट्वा वेदे पञ्चचूडाप्सराश्च ।
लोके ख्यातं पञ्चनदं च पुण्यम् ॥ ३.१३६.१२ ॥
五火、五足的般遮(paṅkti)韵律,以及五种祭祀;然后是五根。在吠陀中见到了五冠天女,而世间闻名的圣地五河之地亦然。
3.136.13
षडाधाने दक्षिणामाहुरेके ।
षट् चैवेमे ऋतवः कालचक्रम्।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च ।
षट् साद्यस्काः सर्ववेदेषु दृष्टाः ॥ ३.१३६.१३ ॥
在六火的点燃中,有人称之为祭礼酬金。这六个季节即时间之轮;六根,也有六个昴宿(Kṛttikā);在所有吠陀中可见六种即时祭仪(sadyaskra)。
3.136.14
सप्त ग्राम्याः पशवः सप्त वन्याः ।
सप्त च्छन्दांसि क्रतुमेकं वहन्ति।
सप्तर्षयः सप्त चाप्यर्हणानि ।
सप्तन्त्री प्रथिता चैव वीणा ॥ ३.१३६.१४ ॥
七种家畜与七种野兽;七种韵律共同承载一场祭祀。七位仙人,还有七种供奉之物;而七弦的维纳琴亦享有盛名。
3.136.15
अष्टौ शाणाः शतमानं वहन्ति ।
तथाष्टपादः शरभः सिंहघाती।
अष्टौ वसूञ्शुश्रुम देवतासु ।
यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे ॥ ३.१३६.१५ ॥
八个沙那构成一个沙塔玛那。同样,八足的沙罗婆,杀狮者。在诸神之中,我们听说过八位婆苏。而在一切祭祀中,规定有一根八棱的祭柱。
3.136.16
नवैवोक्ताः सामिधेन्यः पितॄणां ।
तथा प्राहुर्नवयोगं विसर्गम्।
नवाक्षरा बृहती संप्रदिष्टा ।
नवैव योगो गणनामेति शश्वत् ॥ ३.१३६.१६ ॥
为祖先所宣说的只有九首萨弥陀尼颂。同样,人们说九重结合与奉献。九音节的布利哈蒂格律被教授。在计数中,只有九总是成为一种结合。
3.136.17
दिशो दशोक्ताः पुरुषस्य लोके ।
सहस्रमाहुर्दशपूर्णं शतानि।
दशैव मासान्बिभ्रति भर्गवत्यो ।
दशैरका दशदाशा दशार्हाः ॥ ३.१३६.१७ ॥
在世间,人的十方被宣说。人们说千是由十充满的百。光明的女性只承载十个月。十,十十,唯十,配得上十。
3.136.18
एकादशैकादशिनः पशूना-
मेकादशैवात्र भवन्ति यूपाः।
एकादश प्राणभृतां विकारा ।
एकादशोक्ता दिवि देवेषु रुद्राः ॥ ३.१३६.१८ ॥
此处为牲畜所设的十一根祭柱确实是十一。有生命者的变化有十一种。天上诸神之中,十一位楼陀罗被宣说。
3.136.19
संवत्सरं द्वादशमासमाहु-
र्जगत्याः पादो द्वादशैवाक्षराणि।
द्वादशाहः प्राकृतो यज्ञ उक्तो ।
द्वादशादित्यान्कथयन्तीह घीराः ॥ ३.१३६.१९ ॥
人们称一年为十二个月。贾伽蒂格律的一个音步是十二个音节。十二日的自然祭祀被宣说。此处智者们列举十二位阿迭多。
3.136.20
त्रयोदशी तिथिरुक्ता महोग्रा ।
त्रयोदशद्वीपवती मही च।
एतावदुक्त्वा विरराम वन्दी ।
श्लोकस्यार्धं व्याजहाराष्टवक्रः।
त्रयोदशाहानि ससार केशी ।
त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥ ३.१३६.२० ॥
据说第十三太阴日极为猛烈,大地有十三个岛。说完这些,颂者便沉默了,阿湿陀伐克罗诵出了半首颂。凯希流浪了十三天;智者们谈到十三及其他超韵律。
3.136.21
ततो महानुदतिष्ठन्निनाद-
स्तूष्णींभूतं सूतपुत्रं निशम्य।
अधोमुखं ध्यानपरं तदानी-
मष्टावक्रं चाप्युदीर्यन्तमेव ॥ ३.१३६.२१ ॥
于是,见御者之子沉默不语、低头沉思,一阵喧哗骤起;阿湿陀伐克罗也准备开口了。
3.136.22
तस्मिंस्तथा संकुले वर्तमाने ।
स्फीते यज्ञे जनकस्योत राज्ञः।
अष्टावक्रं पूजयन्तोऽभ्युपेयु-
र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥ ३.१३६.२२ ॥
在遮那迦王那盛大的祭祀中人群拥挤之时,所有知名的婆罗门合掌向阿湿陀伐克罗致敬,走近他身边。
3.136.23
अनेनैव ब्राह्मणाः शुश्रुवांसो ।
वादे जित्वा सलिले मज्जिताः प्राक्।
तानेव धर्मानयमद्य वन्दी ।
प्राप्नोतु गृह्याशु निमज्जयैनम् ॥ ३.१३६.२३ ॥
那些先前被此人在辩论中击败、并被投入水中的婆罗门,曾是听众;愿今日这位颂者也得到同样的法。快快抓住他,把他沉入水中。
3.136.24
अहं पुत्रो वरुणस्योत राज्ञ-
स्तत्रास सत्रं द्वादशवार्षिकं वै।
सत्रेण ते जनक तुल्यकालं ।
तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥ ३.१३६.२४ ॥
我是王者伐楼那之子。那里正举行一场十二年的祭祀法会。哦,遮那迦,与你的祭会时长相同;为此,我已派遣了最优秀的婆罗门来到你这里。
3.136.25
ते तु सर्वे वरुणस्योत यज्ञं ।
द्रष्टुं गता इम आयान्ति भूयः।
अष्टावक्रं पूजये पूजनीयं ।
यस्य हेतोर्जनितारं समेष्ये ॥ ३.१३६.२५ ॥
他们都去观看伐楼那的祭祀,如今又回来了。我敬拜值得敬拜的八曲仙人,因为有他,我将与父亲相见。
3.136.26
विप्राः समुद्राम्भसि मज्जिता ये ।
वाचा जिता मेधया वा विदानाः।
तां मेधया वाचमथोज्जहार ।
यथा वाचमवचिन्वन्ति सन्तः ॥ ३.१३६.२६ ॥
那些被沉入大海之水、在辩论中落败、或虽有学识却被言辞所胜的婆罗门,我以智慧借言语将他们重新救起,正如善人采集言辞一般。
3.136.27
अग्निर्दहञ्जातवेदाः सतां गृहान् ।
विसर्जयंस्तेजसा न स्म धाक्षीत्।
बालेषु पुत्रेषु कृपणं वदत्सु ।
तथा वाचमवचिन्वन्ति सन्तः ॥ ३.१३६.२७ ॥
遍知万物的火神焚烧善人的房屋,却以其光辉将之放过而不焚毁;当孩童与子嗣哀切言语时,善人也如此采集言辞。
3.136.28
श्लेष्मातकी क्षीणवर्चाः शृणोषि ।
उताहो त्वां स्तुतयो मादयन्ति।
हस्तीव त्वं स्तुतयो मादयन्ति ।
न मामिकां वाचमिमां शृणोषि ॥ ३.१३६.२८ ॥
哦,光辉已衰的黏液果树啊,你听见了吗?还是赞美使你沉醉,如同使大象沉醉?你并未听我这番话。
3.136.29
शृणोमि वाचं तव दिव्यरूपा-
ममानुषीं दिव्यरूपोऽसि साक्षात्।
अजैषीर्यद्वन्द्विनं त्वं विवादे ।
निसृष्ट एष तव कामोऽद्य वन्दी ॥ ३.१३६.२९ ॥
我听到你那具有神圣形体、非人间的言语;你本身就是神圣之形。因为你在辩论中战胜了对手,今日你的愿望得以实现——吟游者汪丁获释。
3.136.30
नानन जीवता कश्चिदर्थो मे वन्दिना नृप ।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥ ३.१३६.३० ॥
大王啊,只要吟游者汪丁还活着,我与他毫无关系。若他的父亲是伐楼那,就让他把此人沉没在水中吧。
3.136.31
अहं पुत्रो वरुणस्योत राज्ञो ।
न मे भयं विद्यते मज्जितस्य।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय-
मष्टावक्रश्चिरनष्टं कहोळम् ॥ ३.१३६.३१ ॥
我是伐楼那之子,也是国王之子。被淹没对我而言并无恐惧。此刻,阿斯塔瓦克拉将见到他那久已失散的父亲迦呼陀。
3.136.32
ततस्ते पूजिता विप्रा वरुणेन महात्मना ।
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः ॥ ३.१३६.३२ ॥
于是,那些受到大德伐楼那尊敬的婆罗门,全都从遮那迦身旁起身。
3.136.33
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा ।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥ ३.१३६.३३ ॥
人们正是为此而渴望有子嗣:我未能做到的,我的儿子做到了。
3.136.34
उताबलस्य क्लवानुत बालस्य पण्डितः ।
उत वाऽविदुषो विद्वान्पुत्रो जनक जायते ॥ ३.१३६.३४ ॥
遮那迦啊,从软弱无能的父亲、从孩童、从无知之人,都可能生出有学识的儿子。
3.136.35
शितेन ते परशुना स्वयमेवान्तको नृप ।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते ॥ ३.१३६.३५ ॥
大王啊,以你锋利的斧头,死神自己在战场上夺走了敌人的头颅。愿你吉祥如意。
3.136.36
महदैक्थ्यं गीयते साम चाग्र्यं ।
सम्यक्सोमः पीयते चात्र सत्रे।
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः ।
साक्षाद्देवा जनकस्येह राज्ञः ॥ ३.१३६.३६ ॥
在遮那迦王的这场祭祀中,正举行盛大的Aikthya仪式:最上乘的娑摩颂正在吟唱,苏摩酒被如法饮用,而欢喜的诸神亲自接受了洁净的供品。
3.136.37
समुत्थितेष्वथ सर्वेषु राजन् ।
विप्रेषु तेष्वधिकं सुप्रभेषु।
अनुज्ञातो जनकेनाथ राज्ञा ।
विवेश तोयं सागरस्योत वन्दी ॥ ३.१३६.३७ ॥
大王啊,当那些光辉耀目的婆罗门全都起身之后,文底获得遮那迦王的许可,走入了大海的水中。
3.136.38
अष्टावक्रः पितरं पूजयित्वा ।
संपूजितो ब्राह्मणैस्तैर्यथावत्।
प्रत्याजगामाश्रममेव चाग्र्यं ।
जित्वा वन्दिं सहितो मातुलेन ॥ ३.१३६.३८ ॥
阿湿陀伐伽敬拜了父亲;受到那些婆罗门的应有敬重,又战胜了文底,他与母舅一同返回了最上乘的修行处。
3.136.39
ततोऽष्टावक्रं मातुरथान्तिके पिता ।
नदीं समङ्गां शीघ्रमिमां विशस्व।
प्रोवाच चैनं स तथा विवेश ।
समैरङ्गैश्चापि बभूव पुण्या ॥ ३.१३६.३९ ॥
随后,父亲在母舅身旁对阿湿陀伐伽说:"快进入这条萨曼伽河。"他照做了:进入河中,他的肢体也都变得洁净了。
3.136.40
नदी समङ्गा च बभूव पुण्या ।
यस्यां स्नातो मुच्यते किल्बिषाद्धि।
त्वमप्येनां स्नानपानावगाहैः ।
सभ्रातृकः सहभार्यो विशश्व ॥ ३.१३६.४० ॥
娑摩崗河变得神圣;在其中沐浴者可脱离罪恶。你也应与兄弟和妻子一同入水,沐浴、饮水并浸入其中。
3.136.41
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं ।
सुखोषितः सह विप्रैः प्रतीतः।
पुण्यान्यन्यानि शुचिकर्मैकभक्ति-
र्मया सार्धं चरितास्याजमीढ ॥ ३.१३६.४१ ॥
般度之子啊,你与兄弟和婆罗门在此安乐居住,并因此而闻名。阿阇弥陀之裔啊,你以纯洁的行为和专一的虔诚,与我一同游历了其他圣地。