Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.137

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.137.1

एषा मधुविला नाम समङ्गा संप्रकाशते ।
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥ ३.१३७.१ ॥

此名摩图维拉的三摩伽显现。此乃名为迦尔达弥罗的婆罗多灌顶之地。

3.137.2

अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः ।
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ ३.१३७.२ ॥

因杀死弗栗多,受厄运所困的舍氏之主因陀罗在三摩伽河中沐浴,脱离了一切罪业。

3.137.3

एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ ।
अदितिर्यत्रपुत्रार्थं तदन्नमपचत्पुरा ॥ ३.१३७.३ ॥

人中之牛啊,此乃摩纳迦腹中的毗那舍那,往昔阿提提为求子在此烹煮了那食物。

3.137.4

एनं पर्वतराजानमारुह्य भरतर्षभाः ।
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ ३.१३७.४ ॥

婆罗多族的雄牛们啊,登上此山之王,你们将驱除那带来恶名、不可言说的厄运。

3.137.5

एते कनखला राजन्नृषीणां दयिता नगाः ।
एषा प्रकाशते गङ्गा युधिष्ठिर यशस्विनी ॥ ३.१३७.५ ॥

大王啊,这些迦那卡拉山是仙人们所爱的;尊贵的恒河在此显现,俱卢啊。

3.137.6

सनत्कुमारो भगवानत्र सिद्धिमगात्पुरा ।
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥ ३.१३७.६ ॥

往昔尊贵的萨那特库马罗在此证得成就;阿贾米德之后啊,于此沐浴,你将解脱一切罪业。

3.137.7

अपां ह्रदं च पुण्याख्यं भृगुतुन्दं च पर्वतम् ।
तूष्णीं गङ्गां च कौन्तेय सानुजः समुपस्पृश ॥ ३.१३७.७ ॥

昆提之子啊,与你的诸位幼弟一同,在名为普尼亚的湖中、在婆利古屯陀山旁和恒河中默默沐浴,并触摸圣水。

3.137.8

आश्रमः स्थूलशिरसो रमणीयः प्रकाशते ।
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ ३.१३७.८ ॥

此处的斯图拉希拉斯隐修处光彩照人,十分可爱。昆提之子啊,在此也要舍弃傲慢与愤怒。

3.137.9

एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते ।
भारद्वाजो यत्रकविर्यवक्रीतो व्यनश्यत ॥ ३.१३७.९ ॥

般度之子啊,这里光彩照人的是莱布耶的隐修处,婆罗堕阇之子耶瓦克利多在此丧命。

3.137.10

कथं युक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् ।
किमर्थं च यवक्रीतः पुत्रोऽनश्यत वै मुनेः ॥ ३.१३७.१० ॥

威力强大的仙人婆罗堕阇是如何具备那种品质的?那位仙人之子耶瓦克利多又为何丧命?

3.137.11

एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि तत्त्वतः ।
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ ३.१३७.११ ॥

我想如实地听闻这一切的经过。听到诸位如天神般之人的事迹被讲述,我感到无比欢喜。

3.137.12

भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः ।
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ ३.१३७.१२ ॥

婆罗堕阇与莱布耶成为了朋友。他们二人在此林中深处居住,彼此十分欢悦。

3.137.13

रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू ।
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ ३.१३७.१३ ॥

瑞布耶有两个儿子,阿尔瓦苏与帕拉瓦苏。婆罗堕遮之子名为耶跋克里多,哦,婆罗多之子。

3.137.14

रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् ।
तयोश्चाप्यतुला प्रीतिरभवद्भरतर्षभ ॥ ३.१३७.१४ ॥

瑞布耶成为有学识的苦行者,并与其子嗣同修苦行,另一人亦然。哦,婆罗多中的雄牛,二人之间有无与伦比的情谊。

3.137.15

यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् ।
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघः ॥ ३.१३७.१५ ॥

耶跋克里多看见他的父亲,那位苦行者,受到轻慢;哦,无罪者,他又看见瑞布耶与其子受到婆罗门的尊敬。

3.137.16

पर्यतप्यत तेजस्वी मन्युनाऽभिपरिप्लुतः ।
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ ३.१३७.१६ ॥

光辉的耶跋克里多被愤怒所占据而痛苦;然后,哦,般度之子,他为求吠陀知识而行可怖的苦行。

3.137.17

सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् ।
जनयामास संतापमिन्द्रस्य सुमहातपाः ॥ ३.१३७.१७ ॥

他在一堆熊熊烈火中灼烧自己的身体,这位大苦行者使因陀罗陷入痛苦。

3.137.18

तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर ।
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ ३.१३७.१८ ॥

于是,哦,坚战,因陀罗走近耶跋克里多,说道:“你为了什么缘故而修此无上苦行?”

3.137.19

द्विजानामनधीता वै वेदाः सुरगणार्चित ।
प्रतिभान्त्विति तप्येहमिदं परमकं तपः ॥ ३.१३७.१९ ॥

受众天神敬拜者啊!婆罗门的吠陀未经诵习。我想:“愿它们显现”,故而修此至上苦行。

3.137.20

स्वाध्यायार्थं समारम्भो ममायं पाकशासन ।
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥ ३.१३७.२० ॥

帕迦沙桑那啊!我此举为诵习吠陀。憍尸迦啊!我欲以苦行知晓一切学问。

3.137.21

कालेन महता वेदाः शक्या गुरुमुखाद्विभो ।
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ ३.१३७.२१ ॥

威力者啊!吠陀只能经由师长之口,历经漫长岁月才能获得。因此我才发起此至上之努力。

3.137.22

अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि ।
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ ३.१३७.२२ ॥

婆罗门中的仙人啊!你想走的这条路是错误的。婆罗门啊!这样的阻碍对你有何益处?去吧,从师长之口学习。

3.137.23

एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत ।
भूय एवाकरोद्यत्नं तपस्यमितविक्रमः ॥ ३.१३७.२३ ॥

说完这些,因陀罗离去了。婆罗多啊!药迦利多也再次全力投入苦行,他拥有无量的威力。

3.137.24

घोरेण तपसा राजंस्तप्यमानो महत्तपः ।
संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ ३.१३७.२४ ॥

大王啊!他以可怖的苦行,修行伟大的苦行,极大地折磨了天神之主,此乃我们所闻。

3.137.25

तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् ।
उपेत्य बलभिद्देवो वारयामास वै पुनः ॥ ३.१३७.२५ ॥

天神、杀死婆罗的因陀罗走近那位正行苦行的大仙,再次制止了他。

3.137.26

अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव ।
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ ३.१३७.२६ ॥

你所发起的目标是不可能实现的,这并非出于你的智慧。吠陀必将向你和你的父亲显现。

3.137.27

न चैतदेवं क्रियते देवराजसमीप्सितम् ।
महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ ३.१३७.२७ ॥

而这件事并未按天王所希望的方式进行。我将以大誓愿,修行最为严酷的苦行。

3.137.28

समिद्धेऽग्नावुपकृत्याङ्गमङ्गं ।
होष्यामि वा मघवंस्तन्निबोध।
यद्येतदेवं न करोषि कामं ।
ममेप्सितं देवराजेह सर्वम् ॥ ३.१३७.२८ ॥

我将在燃烧的火中一一割下肢体献为供物;摩伽梵啊,请知晓此事。若你不如此满足我的愿望,天王啊,那么我在此的一切所求都将落空。

3.137.29

निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः ।
प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥ ३.१३७.२९ ॥

智慧的因陀罗知晓那位大心仙人的坚定决心后,便以智慧思量如何阻止他。

3.137.30

तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः ।
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ ३.१३७.३० ॥

于是因陀罗化作一位苦行的婆罗门,虚弱而患有肺痨,已有数百岁之龄。

3.137.31

यवक्रीतस्य यत्तीर्थमुचितं शैचकर्मणि ।
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ ३.१३७.३१ ॥

在适合净身仪式的耶婆克利多圣渡口,他在婆吉罗提河上用沙子建造了一座桥。

3.137.32

यदाऽस्य वदतो वाक्यं न स चक्रे द्विजोत्तमः ।
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ ३.१३७.३२ ॥

当那位最优秀的再生者不听他的话时,因陀罗开始用沙子将恒河完全填满。

3.137.33

वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् ।
स्नातुमभ्यागतं शक्रो यवक्रीतमदर्शयत् ॥ ३.१३७.३३ ॥

因陀罗不停地向婆吉罗提河中撒沙,并将此展示给前来沐浴的耶婆克利多看。

3.137.34

तं ददर्श यवक्रीतो यत्नवन्तं निबन्धने ।
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥ ३.१३७.३४ ॥

耶婆克利多看见他正专心地修筑堤坝,那位最优秀的贤者笑着说了这些话。

3.137.35

किमिदं वर्तते ब्रह्मन्किंच ते ह चिकीर्षितम् ।
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥ ३.१३७.३५ ॥

婆罗门啊,这是在做什么?你想要做什么?你付出了如此巨大的努力,却毫无意义。

3.137.36

बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति ।
क्लिश्यते हि जनस्तात तरमाणः पुनःपुनः ॥ ३.१३७.३६ ॥

我要用桥梁束缚恒河,道路就会平坦。亲爱的,人们渡河时一次次地受苦。

3.137.37

नायं शक्यस्त्वया बद्धुं महानोघस्तपोधन ।
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ ३.१३७.३७ ॥

苦行的宝藏啊,这条巨大的洪流不是你能够束缚的。请离开不可能之事,去做可能的事情。

3.137.38

यथैव भवता चेद तपो वेदार्थमुद्यतम् ।
अशक्यं तद्वदस्माभिरयं भारः समाहितः ॥ ३.१३७.३८ ॥

正如你为吠陀的义理而发起苦行,我们也承担了这份重担;那对我们也是不可能的。

3.137.39

यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर ।
तथा यदि ममापीदं मन्यसे पाकशासन ॥ ३.१३७.३९ ॥

三十三天之主啊,你的这项事业若在你看来毫无意义,那么如果你也认为我的这项事业同样毫无意义,那就请说吧,帕卡莎萨那!

3.137.40

क्रियतां यद्भवेच्छक्यं त्वया सुरगणेश्वर ।
वरांश्च मे प्रयच्छान्यासन्यैर्विद्वान्भवितास्म्यहम् ॥ ३.१३७.४० ॥

众神之主啊,请做你力所能及之事,并赐予我恩惠;我将比别人更有学问。

3.137.41

तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः ।
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ ३.१३७.४१ ॥

大苦行者因陀罗赐予他恩惠,并说:“吠陀将与你的父亲一起,按你所愿地向你显现。”

3.137.42

यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति ।
स लब्धकाम पितरं समेत्याथेदमब्रवीत् ॥ ३.१३७.४२ ॥

“你所希求的其他任何东西,耶婆克利陀啊,拿去吧,走吧。”他得偿所愿,便来到父亲身边,这样说道。

3.137.43

प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः ।
अपि चान्यान्भविष्यावो वरा लब्धास्तथा मया ॥ ३.१३७.४३ ॥

诸吠陀将在我与父亲二人身上显现,我们二人也将获得其他之物;如此,我已得到诸恩赐。

3.137.44

दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान् ।
स दर्पपर्णः कृपणः क्षिप्रमेव विनङ्क्ष्यसि ॥ ३.१३७.४४ ॥

孩子,你得到所愿的恩赐之后,将生出骄慢;充满骄慢的可怜人,你很快就会灭亡。

3.137.45

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः ।
मुनिरासीत्पुरा पुत्र बालधिर्नाम विश्रुतः ॥ ३.१३७.४५ ॥

关于此事,人们也引述诸神所说的这些伽陀。孩子,古时有一位名叫跋罗提的著名仙人。

3.137.46

स पुत्रशोकादुद्विग्रस्तपस्तेपे सुदुष्करम् ।
भवेन्मम सुतोऽमर्त्य इतितं लब्धवांश्च सः ॥ ३.१३७.४६ ॥

他因丧子之痛而心烦意乱,修行了极其艰难的苦行,心想:“愿我的儿子不死。”他得到了这个恩赐。

3.137.47

तस्य प्रसादो वै देवैः कृतो न त्वमरैः समः ।
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति ॥ ३.१३७.४७ ॥

诸神向他施以恩惠,但他并未与不死者相等;凡人并非不死,他的寿命将因某种缘由而定。

3.137.48

यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः ।
तावज्जीवेन्मम् सुतो निर्वाणमुत मे मतः ॥ ३.१३७.४८ ॥

诸天中最优秀者啊,正如这些山岳永恒矗立,愿我的儿子也活得那样久;否则,依我看来,那便是解脱。

3.137.49

तस्य पुत्रस्तदा जत्रे मेधावी क्रोधनस्तदा ।
स तु लब्धवरो दर्पादृषींश्चैवावमन्यत ॥ ३.१३७.४९ ॥

那时他的儿子生来聪慧而易怒。他获得恩惠后,因傲慢而轻视甚至诸仙人。

3.137.50

विकुर्वाणो मुनीनां च व्यचरत्स महीमिमाम् ।
आससाद महावीर्यं धनुषाक्षं मनीषिणम् ॥ ३.१३७.५० ॥

他对诸仙人肆意妄为,在这片大地上游荡。之后他遇到了大力而智慧的达努沙克沙。

3.137.51

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् ।
भव भस्मेति चोक्तः स न भस्म समपद्यत ॥ ३.१३७.५१ ॥

他冒犯了那位智者。那位有力的仙人诅咒他说:“化为灰烬吧!”但他并没有化为灰烬。

3.137.52

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् ।
मुनिस्तत्कारणं ज्ञात्वा स्वयं महिषरूपधृत्।
शृङ्गेणाद्रीनचलयत्ततोऽयंभस्मसादभूत् ॥ ३.१३७.५२ ॥

见那智者安然无恙,并知其原因,达努沙克沙自己化作一头水牛。他以角撼动群山,于是那人化为灰烬。

3.137.53

निमित्तमस्य महर्षिर्भेदयामास पर्वतान् ।
स निमित्ते विनष्टे तु ममार सहसा शिशुः ॥ ३.१३७.५३ ॥

大仙因此事而劈开群山。那个根由被毁灭时,那孩子突然死去了。

3.137.54

तं मृतं पुत्रमादाय विललाप ततः पिता ॥ ३.१३७.५४ ॥

于是父亲抱起死去的儿子,痛哭哀号。

3.137.55

लालप्यमानं तं दृष्ट्वा मुनयः परमार्तवत् ।
ऊचुर्वेदविदः सर्वै गाथां यां तां निबोध मे ॥ ३.१३७.५५ ॥

众知吠陀的仙人见他如此悲痛哀号,便说道:请听我所说的那则伽陀。

3.137.56

न दिष्टमर्थमत्येतुमीशोऽमर्त्यः कथंचन ।
महर्षिर्भेदयामास धनुषाक्षो महीधरान् ॥ ३.१३७.५६ ॥

凡人无论如何也无法违越注定的命运;大仙以弓箭劈开了群山。

3.137.57

एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तपस्विनः ।
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् ॥ ३.१३७.५७ ॥

如此得到恩赐而充满傲慢的愚笨苦行者,很快就会毁灭;愿你不要如此。

3.137.58

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ ।
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः ॥ ३.१३७.५८ ॥

这位是大力的莱布耶,他的两个儿子也是如此;孩子,你要不懈地小心,不要去见他。

3.137.59

स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा ।
रैभ्यश्चापि तपस्वी च कोपनश्च महानृषिः ॥ ३.१३७.५९ ॥

因为他一旦愤怒,有能力在怒火中伤害你,孩子;莱布耶是苦行者,易怒,也是一位伟大的仙人。

3.137.60

एव करिष्ये मा तापं तात कार्षीः कथंचन ।
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम ॥ ३.१३७.६० ॥

我会这样做;父亲,请不要以任何方式悲伤;正如您受我尊敬,莱布耶也是我的父亲。

3.137.61

उक्त्वा स पितरं श्लक्ष्ण यवक्रीरकुतोभयः ।
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा ॥ ३.१३७.६१ ॥

耶婆克利多对父亲温和地如此说完,无所畏惧,侮辱其他仙人,以极大的喜悦而欢喜。