Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.140

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.140.1

एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः ।
सत्रं तेने महाभागो रैभ्ययाज्यः प्रतापवान् ॥ ३.१४०.१ ॥

就在那时,极有福德、威势强大的国王布利哈德尤姆纳以莱布亚为祭司,举行了一场萨特罗祭。

3.140.2

तेन रैभ्यस्य वै पुत्रावर्वावसुपरासू ।
वृतौ सहायौ सत्रार्थं बृहद्द्युम्नेन धीमता ॥ ३.१४०.२ ॥

智慧的布利哈德尤姆纳选定莱布亚的两个儿子阿尔瓦婆苏与帕拉婆苏为祭祀的助手。

3.140.3

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः ।
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः ॥ ३.१४०.३ ॥

贡蒂之子啊,二人得到父亲允许后前往那里;而在静修处,留下了莱布亚和帕拉婆苏的妻子。

3.140.4

अथावलोककोऽगच्छद्गृहानकः परावसुः ।
कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ ३.१४०.४ ॥

于是帕拉婆苏回到家中,在林中看见父亲身披黑羚羊皮。

3.140.5

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यापि ।
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् ॥ ३.१४०.५ ॥

夜将尽时,他被睡意蒙蔽,尚有残暗之际,便把在密林中徘徊的父亲当作了鹿。

3.140.6

मृगं तु मन्यमानेन पिता वै तेन हिंसितः ।
अकामयानेन तदा शरीरत्राणमिच्छता ॥ ३.१४०.६ ॥

他以为那是鹿,便击伤了父亲;父亲被他所伤,虽然并不愿意,那时却也想护住自己的身体。

3.140.7

तस्य स प्रेतकार्याणि कृत्वा सर्वाणि भारत ।
पुनरागम्य तत्सत्रमब्रवीद्धातरं वचः ॥ ३.१४०.७ ॥

婆罗多啊,他为他完成了所有的丧葬仪式,回来后就那次祭祀之事对他的兄弟说了这番话。

3.140.8

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन ।
मया च हिंसितस्तातो मन्यमानेन वै मृगम् ॥ ३.१४०.८ ॥

你一个人无论如何都不能承担这件事。是我把你的父亲误当作鹿而杀死的。

3.140.9

सोऽस्मदर्थे व्रतं तात चर त्वं ब्रह्मघातिनाम् ।
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने ॥ ३.१४०.९ ॥

因此,亲爱的,为了我们,你应当持守杀害婆罗门者的誓戒。哦,贤者,只有我一人能够完成此事。

3.140.10

करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः ।
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः ॥ ३.१४०.१० ॥

愿您亲自主持智慧的布利哈德晓姆纳的祭祀。为了您,我将守持杀害婆罗门的誓戒,并克制诸根。

3.140.11

स तस्यब्रह्महत्यायाः पारं गत्वा युधिष्ठिर ।
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः ॥ ३.१४०.११ ॥

犹太希拉啊,完成了那杀害婆罗门的誓戒后,贤者阿尔瓦婆苏便再次回到了祭祀之场。

3.140.12

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् ।
बृहद्द्युम्नमुवाचेदं वचनं हर्षगद्गदम् ॥ ३.१४०.१२ ॥

于是帕拉瓦苏看见兄长走近,便以喜悦哽咽的声音对布利哈德晓姆纳说了这番话。

3.140.13

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति ।
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वामसंशयम् ॥ ३.१४०.१३ ॥

愿这杀害婆罗门者不要进入来观看你的祭祀;杀害婆罗门者即使只是被看见,也必定会使你受苦。

3.140.14

तच्छ्रुत्वैव तदा राजा प्रेष्यानाह स विट्पते ।
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा।
न मया ब्रह्महत्येयं कृतेत्याह पुनःपुनः ॥ ३.१४०.१४ ॥

国王听了这话,立即对他的仆人说。国王啊,被仆人驱赶的阿尔瓦婆苏那时反复说:“这桩杀害婆罗门的罪行不是我犯下的。”

3.140.15

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महा इति भारत ।
नैवस्म प्रतिजानामि ब्र्हमहत्यां स्वयंकृताम्।
मम भ्रात्रा कृतमिदं मया स परिमोक्षितः ॥ ३.१४०.१५ ॥

婆罗多的后裔啊,虽然仆人们一再称他为“杀害婆罗门者”,他仍说:“我不承认自己所犯的杀害婆罗门之罪。这是我的兄弟所做的;我是由他而被解脱的。”

3.140.16

स तथा प्रवदन्क्रोधात्तैश्च प्रेष्यैः प्रभाषितः ।
तूष्णीं जगाम ब्रह्मर्षिर्वनमेव महातपाः ॥ ३.१४०.१६ ॥

他愤怒地如此说着,被那些仆人呵斥之后,这位大苦行的婆罗门仙人便默默地走向森林。

3.140.17

उग्रं तपः समास्थाय दिवाकरमथाश्रितः ।
रहस्यवेदं कृतवान्सूर्यस्य द्विजसत्तमः ॥ ३.१४०.१७ ॥

他修持严酷的苦行,然后归依太阳,那位再生者中的至尊编纂了太阳的秘密吠陀。

3.140.18

मूर्तिमांस्तं ददर्शाथ स्वयमग्रभुगव्ययः ॥ ३.१४०.१८ ॥

那时,具形的、先受供养的、不灭的他亲自看见了他。

3.140.19

प्रीतास्तस्याभवन्देवाः कर्मणाऽर्वावसोर्नृप ।
तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥ ३.१४०.१९ ॥

国王啊,诸神因阿尔瓦瓦苏的行为而欢喜。他们选他为祭司,并驱逐了波罗瓦苏。

3.140.20

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः ॥ ३.१४०.२० ॥

于是以阿耆尼为首的诸神赐予他一个恩惠。

3.140.21

स चापि वरयामास पितुरुत्थानमात्मनः ।
अनागस्त्वं ततो भ्रातुः पितुश्चास्मरणं वधे ॥ ३.१४०.२१ ॥

他也请求一个恩惠:让他的父亲复活,让他的兄弟无罪,并且在杀戮时不要想起父亲。

3.140.22

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः ।
प्रतिष्ठां चापि वेदस्य सौरस्य द्विजसत्तमः ॥ ३.१४०.२२ ॥

还有婆罗堕遮与耶婆克利多的复活,二人皆是,以及太阳吠陀的确立,啊,再生者中最优秀者。

3.140.23

एवमस्त्विति तं देवाः प्रोचुश्चापि वरान्ददुः ।
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर ॥ ३.१४०.२३ ॥

诸神说:「就这样吧」,并赐予了恩惠。于是,啊,坚战,他们全都现身了。

3.140.24

अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् ।
समधीतं मया ब्रह्म व्रतानि चरितानि च ॥ ३.१४०.२४ ॥

于是耶婆克利多对以阿耆尼为首的诸神说:「我已经精通吠陀,也已奉行了誓戒。」

3.140.25

कथं च रैभ्यः शक्तो मामदीयानं तपस्विनम् ।
तथायुक्तेन विधिना निहन्तुममरोत्तमाः ॥ ३.१४०.२५ ॥

诸神中最杰出者啊,罗毗耶如何能够以如此不当的仪式,杀害我这样卑微的苦行者呢?

3.140.26

मैवं कृथा यवक्रीत यथा वदसि वै मुने ।
ऋते गुरुमधीता हि स्वयं वेदास्त्वया पुरा ॥ ३.१४०.२६ ॥

圣者耶婆迦利多啊,不要如你所说那样去做;因为从前你是没有老师、自己研读了吠陀的。

3.140.27

अनन तु गुरूनदुःखात्तोषयित्वाऽऽत्मक्रमणा ।
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् ॥ ३.१४०.२७ ॥

然而,至高的梵只有经过长久的时间和巨大的艰辛,以不使师长痛苦的方式令他们欢喜,循序渐进地自我成就,才能获得。

3.140.28

यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः ।
संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् ॥ ३.१४०.२८ ॥

对耶婆迦利多如此说后,以阿耆尼为首的诸神使他们全部复活,然后返回天界。

3.140.29

ततो वै स यवक्रीतो ब्रह्मचर्यं चचार ह ।
अष्टादश च वर्षाणि त्रिंशतं च युधिष्ठिर ॥ ३.१४०.२९ ॥

其后,耶婆迦利多奉行梵行十八年又三十年,阿般施提罗啊。

3.140.30

आस्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः ।
अत्रोष्य राजशार्दूल सर्वपापैः प्रभोक्ष्यसे ॥ ३.१४०.३० ॥

这是他的圣洁净修处,那里的树木常开花结果。王中之虎啊,住在此处,你将脱离一切罪恶。