摩诃婆罗多 · 章 3.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.143.1
भीमसेनयमौ चोभौ पाञ्चालि च निबोधत ।
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ॥ ३.१४३.१ ॥
Bhīmasena、两位孪生兄弟与Draupadī,请听:生灵没有毁灭;看看我们这些住在林中的人。
3.143.2
दुर्बलाः क्लेशिताः स्मेति यद्ब्रुवामेतरेतरम् ।
अशक्येऽपि व्रजामो यद्नंजयदिदृक्षया ॥ ३.१४३.२ ॥
我们彼此说:「我们虚弱而受苦」,然而即使不可能,我们仍因想见Dhanaṃjaya之心而出发。
3.143.3
तन्मे दहति गात्राणि तूलराशिमिवानलः ।
यच्च वीरं न पश्यामि धनंजयमुपान्तिके ॥ ३.१४३.३ ॥
这灼烧我的肢体,如同火焚烧一堆棉絮;而近在身旁的那位英雄Dhanaṃjaya,我却看不见。
3.143.4
तस्यादर्शनतप्तं मां सानुजं वनमास्थितम् ।
याज्ञसेन्याः परामर्शः स च वीर दहत्युत ॥ ३.१४३.४ ॥
因见不到他而痛苦的我,与弟弟们一同住在林中;Yājñasenī的触碰,还有那位英雄,也都在灼烧我。
3.143.5
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ ३.१४३.५ ॥
我看不见比Nakula年长的Pārtha,他力量无限、不可战胜、弓箭凶猛;因他之故,我正受煎熬,哦Vṛkodara。
3.143.6
तीर्थानि चैव रम्याणि वनानि च सरांसि च ।
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया ॥ ३.१४३.६ ॥
我与你们一同游历圣地、美丽的森林与湖泊,只因渴望见到他。
3.143.7
पञ्चवर्षाण्यहं वीरं सत्यसन्धं धनंजयम् ।
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ ३.१४३.७ ॥
五年来我未见英勇守信的檀男闍耶(阿周那);因此我深受煎熬,狼腹啊。
3.143.8
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् ।
न पश्यामि महाबाहुं तेन तप्ये वृकोदर ॥ ३.१४३.८ ॥
我见不到那黑肤、卷发、步如狮子的大臂者;因此我深受煎熬,狼腹啊。
3.143.9
कृतास्त्रं निपुणं युद्देऽव्रतिमानं धनुष्मताम् ।
न पश्यामि कुरुश्रेष्ठ तेन तप्ये वृकोदर ॥ ३.१४३.९ ॥
我见不到那精通武器、善战、在弓手中坚定不移的人;因此我深受煎熬,库鲁之最啊,狼腹啊。
3.143.10
चरन्तमरिसङ्घेषु क्रुद्धं कालमिवानघ ।
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम् ॥ ३.१४३.१० ॥
我见不到檀男闍耶(阿周那),他在敌军中奔走,如愤怒的死神,无瑕者啊,如发情的象,狮肩的人。
3.143.11
यः स शक्रादनवरो वीर्येण च बलेन च ।
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ॥ ३.१४३.११ ॥
他在勇力与力量上不逊于因陀罗,是双生子之兄,即普利塔之子,白马者,威力无量。
3.143.12
नारायणसमो युद्धे सत्यसन्धो दृढव्रतः ।
तं ममापश्यतो भीम न शान्तिर्हृदयस्य वै ॥ ३.१४३.१२ ॥
在战场上与那罗延相等,守信,立誓坚定——因我见不到他,婆罗摩啊,我心中没有安宁。
3.143.13
दुःखेन महताऽऽविष्टश्चिन्तयामि दिवानिशम् ।
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर ॥ ३.१४३.१३ ॥
我被巨大的悲痛所笼罩,日夜思虑。因那不可战胜、威猛的射手,我倍受煎熬,哦狼腹(Vṛkodara)。
3.143.14
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा ।
ऋजुमार्गप्रपन्नस्य शर्मदाता भयस्य च ॥ ३.१४३.१४ ॥
他总是宽容忍让,即使被卑劣之人辱骂,也能给予走正路之人以安宁,并使其免于恐惧。
3.143.15
स तु जिह्मप्रवृत्तस्य माययाऽभिजिघांसतः ।
अपि वज्रधरस्यापि भवेत्कालविषोपमः ॥ ३.१४३.१५ ॥
然而,对于行走歪曲之道、欲以诡计杀害的人,他便如死亡之毒,即使对执雷霆者(因陀罗)也是如此。
3.143.16
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।
दाताऽभयस् बीभत्सुरमितात्मा महाहलः ॥ ३.१४३.१६ ॥
即使敌人投降归附,他也慈悲而威猛。毗菩特苏(Bībhatsu)施予无畏,精神无限,力量宏大。
3.143.17
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता ।
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ ३.१४३.१७ ॥
他是我们所有人的依靠,是战场上击溃敌人者。他带来一切珍宝,给我们所有人带来幸福。
3.143.18
रत्नानि यस्य वीर्येण दिव्यान्यासत्पुरा मम ।
बहूनि बहुजातीनि यानि प्राप्तः सुयोधनः ॥ ३.१४३.१८ ॥
我昔日的神圣珍宝,凭他的勇力而得以拥有——许多种类的许多珍宝——如今已被苏约达那获得。
3.143.19
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम ।
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव ॥ ३.१४३.१९ ॥
英雄啊,般度之子,昔日由于他臂力之故,我有一座全由宝石构成的议事厅,名闻三界。
3.143.20
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि ।
अजेयममितं युद्धे तं न पश्यामि फल्गुनम् ॥ ३.१४३.२० ॥
勇力与婆苏提婆相等,战斗中与迦尔塔维尔耶相等,战争中不可战胜、无边无际——那位法尔古那,我未见到。
3.143.21
संकर्षणं महावीर्यं त्वां च भीमापराजितम् ।
अनुयातः स्ववीर्येण वासुदेवं च शत्रुहा ॥ ३.१४३.२१ ॥
大力的桑迦尔沙那,你,不败的毗摩,以及以自身力量追随婆苏提婆的灭敌者——这些人我都未见到。
3.143.22
यस् बाहुबले तुल्यः प्रभावे च पुरंदरः ।
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः ॥ ३.१४३.२२ ॥
在臂力与威势上与补兰达罗(因陀罗)相等;速度如风,言语如月,愤怒如永恒的死神。
3.143.23
ते वयं तं नरव्याघ्रं सर्वेवीर दिदृक्षवः ।
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् ॥ ३.१४३.२३ ॥
我们众英雄都想见那人中之虎,大臂者啊,我们将进入乾陀摩陀那山。
3.143.24
विशाला बदरी यत्रनरनारायणाश्रमः ।
तं सदाऽध्युषितं यक्षैर्द्रक्ष्यामो गिरिसुत्तमम् ॥ ३.१४३.२४ ॥
广大的菩提林与那罗–那罗衍那的净修林所在之处,那座常为夜叉所居的最胜之山,我们将去见到。
3.143.25
कुबेरनलिनीं रम्यां राक्षसैरभिसेविताम् ।
पद्भिरेव गमिष्यामस्तप्यभाना महत्तपः ॥ ३.१४३.२५ ॥
我们将步行前往俱毗罗的美丽莲池,那里有罗刹常来,我们将在大苦行中焚烧前行。
3.143.26
नातप्ततपसा शक्यो गन्तुं देशो वृकोदर ।
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ ३.१४३.२६ ॥
未曾苦修者不能抵达那片土地,狼腹啊;残忍、贪婪、心不宁静者也不能,婆罗多之子啊。
3.143.27
तत्र सर्वेगमिष्यामो भीमार्जुपदैषिणः ।
सायुधा बद्धनिस्त्रिंशाः सार्धं विप्रैर्महाव्रतैः ॥ ३.१४३.२७ ॥
我们都将前往那里,寻找怖军与阿周那的足迹,携带兵器,佩戴利剑,与持大愿的婆罗门同行。
3.143.28
मक्षिकादंशमशकान्सिंहान्व्याघ्रान्सरीसृपान् ।
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति ॥ ३.१४३.२८ ॥
不自持的人,阿周那啊,会遇到苍蝇、虻和蚊子,狮子、老虎和爬行之物;自持者则不见它们。
3.143.29
ते वयं नियतात्मानः पर्वतं गन्धमादनम् ।
प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः ॥ ३.१४३.२९ ॥
我们心已调伏,饮食有度,渴望见到财增(阿周那),将进入乾陀摩陀那山。