Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.144

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.144.1

द्रष्टारः पर्वताः सर्वे नद्यः सपुरकाननाः ।
तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः ॥ ३.१४४.१ ॥

一切山岳,以及连同城镇与森林的河流,还有光辉的圣地渡口,都值得观看;人们以双手触摸圣水。

3.144.2

पर्वतं मन्दरं दिव्यमेष पन्थाः प्रयास्यति ।
समाहीता निरुद्विग्नाः सर्वे भवत पाण्डवाः ॥ ३.१४४.२ ॥

此路将通往神圣的曼达拉山。般度之子们啊,你们都要专注、无所畏惧。

3.144.3

अयं देवनिवासो वै गन्तव्यो वो भविष्यति ।
ऋषीणां चैव दिव्यानां निवासः पुण्यकर्मणां ॥ ३.१४४.३ ॥

这里是诸神的居所,你们将要前往此地;这也是行善功的神圣仙人们的居所。

3.144.4

एषा शिवजला पुण्या याति सौम्य महानदी ।
बदरीप्रभवा राजन्देवर्षिगणसेविता ॥ ३.१४४.४ ॥

这条以吉祥之水流淌的神圣大河在流淌,温和的人啊。国王啊,它发源于巴达利,并受到众多神圣仙人的侍奉。

3.144.5

एषा वैहायसैर्नित्यं वालखिल्यैर्महात्मभिः ।
अर्चिता चोपयाता च गन्धर्वैश्च महात्मभिः ॥ ३.१४४.५ ॥

此河总是受到居于天空的伟大灵魂瓦拉基利亚们的供奉,也受到伟大灵魂的乾达婆们供奉并前来靠近。

3.144.6

अत्रसाम स्म गायन्ति सामगाः पुण्यनिःस्वनाः ।
मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा ॥ ३.१४४.६ ॥

此处的歌咏婆罗门以神圣之声咏唱娑摩颂;摩利芝、布罗诃、婆利古和安吉罗也在此咏唱。

3.144.7

अत्राह्निकं सुरश्रेष्ठो जपते समरुद्गणः ।
साध्याश्चैवाश्विनौ चैव परिधावन्ति तं तदा ॥ ३.१४४.७ ॥

此处,诸神之首与摩录多众一同日日诵念;此时,娑提耶与双马童绕着他奔跑。

3.144.8

चन्द्रमाः सह सूर्येण ज्योतीषि च ग्रहैः सह ।
अहोरात्रविभागेन नदीमेनामनुव्रजन् ॥ ३.१४४.८ ॥

月亮与太阳同行,明亮的星辰与行星同行,依昼夜之分沿着此河运行。

3.144.9

एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत् ।
गङ्गाद्वारे महाभाग येन लोकस्थितिर्भवेत् ॥ ३.१४४.९ ॥

此河之水由牛旗者(湿婆)顶在头上,在恒河门处,哦大福者,由此世界才得以安立。

3.144.10

एतां भगवतीं देवीं भवन्तः सर्व एव हि ।
प्रयतेनात्मना तात प्रतिगम्याभिवादत ॥ ३.१४४.१० ॥

你们诸位,亲爱的,去拜见这位尊贵的女神,以专注平静之心向她致敬。

3.144.11

तस्य तद्वचनं श्रुत्वा लोमशस्य महात्मनः ।
आकाशगङ्गां प्रयताः पाण्डवास्तेऽभ्यवादयन् ॥ ३.१४४.११ ॥

诸般尊者罗摩舍的那些话语被听闻后,守持自律的般度诸子向天河致敬。

3.144.12

अभिवाद्य च ते सर्वे पाण्डवा धर्मचारिणः ।
पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैः सह ॥ ३.१४४.१२ ॥

诸位遵行正法的般度诸子致敬之后,欢喜地与众仙人一同再次启程。

3.144.13

ततो दूरात्प्रकाशन्तं पाण्डुरं मेरुसंनिभम् ।
ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ॥ ३.१४४.१३ ॥

那些人中之杰从远处看见一物闪耀着淡白之光,如同须弥山,散布于四面八方。

3.144.14

तान्प्रष्टुकामान्विज्ञाय पाण्डवान्स तु लोमशः ।
उवाच वाक्यं वाक्यज्ञः शृणुध्वं पाण्डुनन्दनाः ॥ ३.१४४.१४ ॥

洛摩舍知道般度之子们想要询问,这位善言者便说道:“般度之子们,请听。”

3.144.15

एतद्विकीर्णं सुश्रीमत्कैलासशिखरोपमम् ।
यत्पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थितम् ॥ ३.१४४.१५ ॥

你所见的这一散布的、极其辉煌的事物,如同凯拉什山峰,像山一样矗立着,人中之杰啊。

3.144.16

एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः ।
पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् ॥ ३.१४४.१६ ॥

这些是大心的恶魔那罗迦的骨骸;依靠山岩而立,看起来像一座山。

3.144.17

पुरातनेन देवेन विष्णुना परमात्मना ।
रदैत्यो विनिहतस्तेन सुरराजहितैषिणा ॥ ३.१४४.१७ ॥

古老的神毗湿奴,至上我,愿为众神之王谋福,将罗达魔杀死。

3.144.18

दशवर्षसहस्राणि तपस्तप्यन्महामनाः ।
ऐनद्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ॥ ३.१४४.१८ ॥

那位大心者苦修一万年,凭借苦行与诵习的力量,祈求因陀罗的宝座。

3.144.19

तपोबलेन महता बाहुवेगबलेन च ।
नित्यमेव दुराधर्षो धर्षयन्स दितेः सुतः ॥ ३.१४४.१९ ॥

凭借其强大的苦行之力和双臂的威力与速度,提蒂之子始终不可战胜,并折磨诸神。

3.144.20

स तु तस्य बलं ज्ञात्वा धर्मे च चरितव्रतम् ।
भयाभिभूतः संविग्नः शक्र आसीत्तदाऽनघ ॥ ३.१४४.२० ॥

无罪者啊!得知他的力量及其在法中所持的誓愿,帝释天那时被恐惧所笼罩,心神不安。

3.144.21

तेन संचिन्तितो देवो मनसा विष्णुरव्ययः ।
सर्वत्रगः प्रभुः श्रीमानागतश्च स्थितो बभौ ॥ ३.१४४.२१ ॥

他心中所念的不朽之神毗湿奴,遍在的主宰、吉祥者,来到此处站立,光辉闪耀。

3.144.22

ऋषयश्चापि तं सर्वे तुष्टुवुश्च दिवौकसः ॥ ३.१४४.२२ ॥

所有仙人和天界居民也都赞颂了他。

3.144.23

तं दृष्ट्वा ज्वलमानश्रीर्भगवान्हव्यवाहनः ।
नष्टतेजाः समभवत्तस्य तेजोभिभर्त्सितः ॥ ३.१४४.२३ ॥

他见到那光辉熊熊的神,尊贵的哈婆耶婆诃那(火神)失去了光彩;被他的光辉所压制,火神变得黯淡无光。

3.144.24

तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम् ।
प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्।
प्राह वाक्यं ततस्तत्त्वं यतस्तस्य भयं भवेत् ॥ ३.१४४.२४ ॥

见到赐予恩惠的神,诸神之主毗湿奴,手持金刚杵的因陀罗合掌、俯身、致敬礼拜,然后说出了关于其恐惧由来的真实之语。

3.144.25

जानामि ते भयं शक्र दैत्येन्द्रान्नरकात्ततः ।
ऐन्द्रं रप्रार्थयते स्थानं तपःसिद्धेन कर्मणा ॥ ३.१४४.२५ ॥

啊,帝释天,我知道你对众阿修罗之主和那罗迦的恐惧。他凭借苦行成就的功业,渴求因陀罗的地位。

3.144.26

सोहमेनं तव प्रीत्या तपःसिद्धमपि ध्रुवम् ।
वियुनज्मि देहाद्देवेनद्र मुहूर्तं प्रतिपालय ॥ ३.१४४.२६ ॥

出于对你的眷爱,即使他已凭苦行成就,我必定使他脱离其身。啊,天神之主,请稍待片刻。

3.144.27

तस्य विष्णुर्महातेजाः पाणिना चेतनां हरत् ।
स पपात ततो भूमौ गिरिराज इवाहतः।
तस्यैतदस्थिसंघातं मायाविनिहतस्य वै ॥ ३.१४४.२७ ॥

光辉伟大的毗湿奴以手夺去了他的知觉。于是他如山王般被击中,倒在地上。这正是被幻术者杀死之人的骨堆。

3.144.28

इदं द्वितीयमपरं विष्णो कर्म प्रकाशते ॥ ३.१४४.२८ ॥

啊,毗湿奴,这第二件另外的功业显现出来了。

3.144.29

नष्टा वसुमती कृत्स्ना पाताले चैव मज्जिता ।
पुनरुद्धरिता तेन वाराहेणैकशृङ्गिणा ॥ ३.१४४.२९ ॥

整个大地毁灭并沉没于地下。那只独角野猪又将它重新托起。

3.144.30

मगवन्विस्तरेणेमां कथां कथय तत्त्वतः ॥ ३.१४४.३० ॥

尊者啊,请如实详细地讲述这个故事。

3.144.31

कथं तेन सुरेशेन नष्टा वसुमती तदा ।
योजनानां शतं ब्रह्मन्पुनरुद्धरिता तदा ॥ ३.१४४.३१ ॥

那时,众神之主如何毁坏了大地?婆罗门啊,大地又如何被重新提升了百由旬?

3.144.32

केन चैव प्रकारेण जगतो धरणी ध्रुवा ।
शिवा देवी महाभागा सर्वसस्यप्ररोहिणी।
कस्य चैव प्रभावाद्धि योजनानां शतं गता ॥ ३.१४४.३२ ॥

世界稳固的大地,那位吉祥而大福的女神,使一切庄稼生长者,以何种方式、凭借谁的威力而移动了百由旬?

3.144.33

श्रोतुं विस्तरशः सर्वं त्वं हि तस्य प्रतिश्रयः ॥ ३.१४४.३३ ॥

我想详细听闻这一切,因为你正是它的依归。

3.144.34

यत्तेऽहं परिपृष्टोऽस्मि कथामेतां युधिष्ठिर ।
तत्सर्वमखिलेनेह श्रूयतां मम भाषतः ॥ ३.१४४.३४ ॥

坚战啊,你向我询问的这个故事,现在请完整地听我所说。

3.144.35

पुरा कृतयुगे तात वर्तमाने भयंकरे ।
यमत्वं कारयामास आदिदेवः पुरातनः ॥ ३.१४४.३५ ॥

孩子啊,往昔在圆满时代,当那可怕的时期正在进行时,原初之神、古老者使阎摩之职得以履行。

3.144.36

यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः ।
न तत्र म्रियते कश्चिज्जायते वा तथाऽच्युत ॥ ३.१४४.३६ ॥

那位智慧的神中之神行使阎摩之职的时候,那里无人死去,也无人出生,阿周那啊(不退者啊)。

3.144.37

वर्धन्ते पक्षिसङ्घाश्च तथा पशुगवेडकम् ।
गवाश्वं च मृगाश्चैव सर्वे ते पिशिताशनाः ॥ ३.१४४.३७ ॥

鸟群、牲畜、牛、羊、牛与马、鹿——它们都是食肉者——日益增多。

3.144.38

तथा पुरुषशार्दूल मानुपाश्च परंतप ।
सहस्रशो ह्ययुतशो वर्धन्ते सलिलं यथा ॥ ३.१४४.३८ ॥

同样,人中之虎啊,焚敌者啊,人类也成千上万、成万上亿地增长,如同水流。

3.144.39

एतस्मिन्संकुले तात वर्तमाने भयंकरे ।
अतिभाराद्वसुमती योजनानां शतं गता ॥ ३.१४४.३९ ॥

亲爱的,在这可怕的拥挤之中,大地因过重而下沉了一百由旬。

3.144.40

सा वै व्यथितसर्वाङ्गी भारेणाक्रान्तचेतना ।
नारायणं वरं देवं प्रपन्ना शरणं गता ॥ ३.१४४.४० ॥

她全身痛苦,神识被重负压倒,便皈依于至上之神那罗延。

3.144.41

भगवंस्त्वत्प्रसादाद्धि तिष्ठेयं सुचिरं त्विह ।
भारेणास्मि समाक्रान्ता न शक्नोस्मि स्म वर्तितुम् ॥ ३.१४४.४१ ॥

尊贵的主啊,蒙你恩典,我本可长久留存于此,但被这重负压垮,已无法支撑。

3.144.42

ममेमं भगवन्भारं व्यपनेतुं त्वमर्हसि ।
शरणागताऽस्मि ते देव प्रसादं कुरु मे विभो ॥ ३.१४४.४२ ॥

尊贵的主啊,你理应除去我身上的这重负。神啊,我已皈依于你;遍在者啊,请对我施恩。

3.144.43

तस्यास्तद्वचनं श्रुत्वा भगवानक्षरः प्रभुः ।
प्रोवाच वचनं हृष्टः श्राव्यारसमीरितम् ॥ ३.१४४.४३ ॥

不朽的大能世尊听了她的话,欣然说出悦耳的话语。

3.144.44

न ते महि भयं कार्यं भारार्ते वसुधारिणि ।
अयमेवं तथा कुर्मि यथा लध्वी भविष्यसि ॥ ३.१४४.४४ ॥

你不必恐惧,背负重负的承载大地者啊;我会这样做,使你变得轻松。

3.144.45

स तां विसर्जयित्वा तु वसुधां शैलकुण्डलाम् ।
ततो वराहः संवृत्त एकशृङ्गो महाद्युतिः ॥ ३.१४४.४५ ॥

他送走她后,离开了以山为耳环的大地,那位大光明的野猪随即化为独角。

3.144.46

रक्ताभ्यां नयनाभ्यां तु भयमुत्पादयन्निव ।
धूमं च ज्वलयँल्लक्ष्म्या तत्र देशे व्यवर्धत ॥ ३.१४४.४६ ॥

他双目赤红,仿佛令人生畏,以光辉点燃烟雾,在那地方不断长大。

3.144.47

स गृहीत्वा वसुमतीं शृङ्गेणैकेन भास्वता ।
योजनानां शतं वीर समुद्धरति सोऽक्षरः ॥ ३.१४४.४७ ॥

英雄啊,那不朽者以一根闪亮的獠牙托起大地,将其举起一百由旬。

3.144.48

तस्यां चोद्धार्यमाणायां संक्षोभः समजायत ।
देवाः संक्षुभिताः सर्वे ऋषयश्च तपोधनाः ॥ ३.१४४.४८ ॥

当她被举起时,骚动产生了:诸神全都惊动,那些以苦行为财富的仙人也都惊动了。

3.144.49

हाहाभूतमभूत्सर्वं त्रिदिवं व्योम भूस्तथा ।
न पर्यवस्थितः कश्चिद्देवो वा मानुषोपि वा ॥ ३.१४४.४९ ॥

天界、虚空与大地皆陷于惊呼之中,无论神或人,都无法保持镇定。

3.144.50

ततो ब्रह्माणमासीनं ज्वलमानमिव श्रिया ।
देवाः सर्षिगणाश्चैव उपतस्थुरनेकशः ॥ ३.१४४.५० ॥

于是诸天与群仙,成群结队地来到端坐、光辉熠熠的梵天面前。

3.144.51

उपसर्प्य च देवेशं ब्रह्माणं लोकसाक्षिकम् ।
भूत्वा प्राञ्जलयः सर्वे वाक्यमुच्चारयंस्तदा ॥ ३.१४४.५१ ॥

众人走近诸神之主、世界的见证者梵天,合掌而立,于是说出了这些话。

3.144.52

लोकाः संक्षुभिताः सर्वे व्याकुलं च चराचरम् ।
समुद्राणां च संक्षोभस्त्रिदशेश प्रकाशते ॥ ३.१४४.५२ ॥

诸界皆动荡,动静之物皆惶乱;三十神之主啊,连大海也明显地波涛汹涌。

3.144.53

सैषा वसुमती कृत्स्ना योजनानां शतं गता ।
किमेतत्किंप्रभावेण येनेदं रव्याकुलं जगत्। ॥ ३.१४४.५३ ॥

这整个大地已延展百由旬。这是什么?以何种力量,这世界被喧嚣搅得惶乱不安?

3.144.54

आख्यातु नो भवाञ्शीघ्रं विसंज्ञाः स्मेह सर्वशः ।
असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित्क्वचित्।
श्रूयतां यत्कृते त्वेष संक्षोभो जायतेऽमराः ॥ ३.१४४.५४ ॥

请您速速告诉我们,我们在此都惶惑不安。阿修罗对你们绝无惧怕之处。请听:这骚动是因何而起,诸位不死者啊!

3.144.55

योसौ सर्वत्रगः श्रीमानक्षरात्मा व्यवस्थितः ।
तस्य प्रभावात्संक्षोभस्त्रिदिवस्य प्रकाशते ॥ ३.१४४.५५ ॥

正是凭借那遍在、尊荣、安住于不灭自性之中者的威力,三界才显现出这种动荡。

3.144.56

यैषा वसुमती कृत्स्ना योजनानां शतं गता ।
समुद्धृता पुनस्तेन विष्णुना परमात्मना ॥ ३.१४४.५६ ॥

这整个大地曾沉没百由旬,如今被至上我毗湿奴再次托起。

3.144.57

तस्यामुद्धार्यमाणायां संक्षोभः समजायत ।
एवं भवन्तो जानन्तु च्छिद्यतां संशयश्च वः ॥ ३.१४४.५७ ॥

在她被托起时,动荡产生了。你们应当这样知晓,愿你们的疑惑被斩断。

3.144.58

क्व तद्भूतं वसुमतीं समुद्धरति हृष्टवत् ।
तं देशं भगवन्ब्रूहि तत्र यास्यामहे वयम् ॥ ३.१४४.५८ ॥

那位欢喜地托起大地的存在在哪里?尊贵者啊,请告诉我们那个地方,我们将前往那里。

3.144.59

हन्त गच्छत भद्रं वो नन्दने पशय्त स्थितम् ।
एषोत्र भगवाञ्श्रीमान्मुपर्णः संप्रकाशते ॥ ३.१४४.५९ ॥

去吧,愿你们吉祥。看那位立于难陀园中的存在。这里,尊荣的薄伽梵金翅鸟正在光耀。

3.144.60

वारादेणैव रूपेण भगवाँल्लोकभावनः ।
कालानल इवाभाति पृथिवीतलमुद्धरन् ॥ ३.१४४.६० ॥

以野猪之形,那护持世界的薄伽梵如时间之火般光耀,托起大地的表面。

3.144.61

एतस्योरसि सुव्यक्तं श्रीवत्समभिराजते ।
पश्यध्वं विबुधाः सर्वे भूतमेतदनामयम् ॥ ३.१४४.६१ ॥

他的胸前清楚地显现着室利吠磋的标记。诸天神啊,你们都看,此存在没有任何损伤。

3.144.62

ततो दृष्ट्वा महात्मानं श्रुत्वा चामन्त्र्य चामराः ।
पितामहं पुरस्कृत्य जग्मुर्देवा यथागतम् ॥ ३.१४४.६२ ॥

随后,诸神见到这位伟大者并听了他的话,告辞之后,以祖父为前导,循着来时的路返回了。

3.144.63

श्रुत्वा तु तां कथां सर्वे पाण्डवा जनमेजय ।
लोमशादेशितेनाशु यथा जग्मुः प्रहृष्टवत् ॥ ३.१४४.६३ ॥

胜者之王(Janamejaya)啊,听了那段故事后,众般度子依照罗摩舍的指示,怀着喜悦之心迅速启程了。