Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.145

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.145.1

ते शूरा सज्जधन्वानस्तूणवन्तः समार्गणाः ।
बद्धगोधाङ्गुलित्राणाः खङ्गवन्तोऽमितौजसः ॥ ३.१४५.१ ॥

那些英雄,弓已上弦,带着箭袋和箭矢,手指上缚着蜥蜴皮制的护指,佩带剑,具有无量的威力。

3.145.2

परिगृह्य द्विजश्रेष्ठाञ्ज्येष्ठाः सर्वधनुष्मताम् ।
पञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् ॥ ३.१४५.२ ॥

大王啊,带着婆罗门中的最优者,那些所有弓手中的长者与般遮罗女一同前往香醉山。

3.145.3

सरांसि सरितश्चैव पर्वतांश्च वनानि च ।
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि ॥ ३.१४५.३ ॥

他们在山顶看到了湖泊、河流、山峦、森林以及浓荫密布的树木。

3.145.4

नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ।
आत्मन्यात्मानमाधाय वीरा मूलफलाशिनः ॥ ३.१४५.४ ॥

他们来到四季有花有果、为诸天神与仙人群所常往的地方;这些英雄将自我安放于自我之中,以根与果为食。

3.145.5

चेरुरुच्चावचाकारान्देशान्विषमसंकटान् ।
पश्यन्तो मृगजातानि बहूनि विविधानि च ॥ ३.१४५.५ ॥

他们在高低不平、险峻艰难的地方行走,看见许多种类的鹿群。

3.145.6

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् ।
विविशुस्ते महात्मानः किन्नराचरितं गिरिम् ॥ ३.१४५.६ ॥

那些大德进入了那座山,那里满是仙人、成就者与诸天神,为乾闼婆与阿普萨拉斯所喜爱,紧那罗常常往来。

3.145.7

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् ।
चणअडवातं महद्वर्षं प्रादुरासीद्विशांपते ॥ ३.१४५.७ ॥

当英雄们进入乾陀摩陀那山时,猛烈的狂风和大雨骤然而起,人主啊。

3.145.8

ततो रेणुः समुद्भूतः सपत्रबहुलो महान् ।
पृथिवीं चान्तरिक्षं च द्यां चैव सहसाऽवृणोत् ॥ ३.१४५.८ ॥

于是一片夹杂着树叶的巨大尘雾骤然升起,遮蔽了大地、虚空和天界。

3.145.9

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना ।
न चापि शेकुस्तत्कर्तुमन्योन्यस्याभिभाषणम् ॥ ३.१४५.९ ॥

虚空被尘雾遮蔽,什么也看不见;他们甚至无法彼此交谈。

3.145.10

न चापश्यंस्ततोऽन्योन्यं तमसाऽऽवृतचक्षुषः ।
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ॥ ३.१४५.१० ॥

他们双眼被黑暗遮蔽,彼此看不见,婆罗多啊,狂风夹着石屑把他们卷走。

3.145.11

द्रुमाणां वातरुग्णआनां पततां भूतलेऽनिशम् ।
अन्येषां च महीजानां शब्दः समभवन्महान् ॥ ३.१४५.११ ॥

被狂风折断的树木以及其他生于大地之物不停地倒落在地,发出巨大的声响。

3.145.12

द्यौः स्वित्पतति किं भूमिर्दीर्यते पर्वतोनु किम् ।
इति ते मेनिरे सर्वेपवनेन विमोहिताः ॥ ३.१४५.१२ ॥

“是天在坠落,还是大地在裂开,还是山崩了?”他们都被狂风迷惑,这样想着。

3.145.13

ते पथाऽनन्तरांन्वृक्षान्वल्मीकान्विषमाणि च ।
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे ॥ ३.१४५.१३ ॥

他们惊恐地沿着道路,用手摸索着走过附近的树木、蚁丘和崎岖之地,躲避风暴。

3.145.14

ततः कार्मुकमादाय भीमसेनो महाबलः ।
कृष्णामादाय संगम्य तस्थावाश्रित्य पादपम् ॥ ३.१४५.१४ ॥

于是大力的婆罗那迦(Bhīmasena)拿起弓,与黑公主(Kṛṣṇā)会合,倚着一棵树站立。

3.145.15

धर्मराजश्च धौम्यश् निलिल्याते महावने ।
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते ॥ ३.१४५.१५ ॥

法王与达乌米亚隐入大森林;萨哈德瓦手持祭火器皿,隐藏在山上。

3.145.16

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः ।
वृक्षानासाद्य संत्रस्तास्तत्रतत्र निलिल्यिरे ॥ ३.१४५.१६ ॥

那库拉、其他婆罗门和大苦行者洛摩舍惊恐地来到树边,各处隐藏起来。

3.145.17

मन्दीभूते तु पवने तस्मिन्रजसि शाम्यति ।
महद्भिर्जलधारौर्घर्वर्षमभ्याजगाम ह ॥ ३.१४५.१७ ॥

风势渐缓,尘土平息,随即大雨倾盆而至,水流湍急。

3.145.18

भृशं चटचटाशब्दो वज्राणां क्षिप्यतामिव ।
ततस्ताश्चञ्चलाभासश्चेरुरभ्रेषु विद्युतः ॥ ३.१४५.१८ ॥

霹雳般的噼啪声大作,仿佛有金刚杵被投掷;随后闪烁的电光在云中穿行。

3.145.19

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः ।
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ॥ ३.१४५.१९ ॥

于是夹杂着石块的水流从四面八方覆盖一切,被疾风驱动,在那里不停地倾泻而下。

3.145.20

तत्र सागरगा ह्यापः कीर्यमाणाः समन्ततः ।
प्रादुरासन्सकलुषाः फेनवत्यो विशांपते ॥ ३.१४५.२० ॥

那里,流向大海的水四散飞溅,显得浑浊并布满泡沫,人民之主啊。

3.145.21

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् ।
परिसमस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् ॥ ३.१४५.२१ ॥

它们挟带大量的水,被泡沫和气泡淹没,伴随巨大的轰鸣漫溢而出,连根拔起树木。

3.145.22

तस्मिन्नुपरते शब्देबाते च समतां गते ।
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ॥ ३.१४५.२२ ॥

那声响停止,风也平息,水退去,太阳升起时,低洼之地显露出来。

3.145.23

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत ।
प्रतस्थिरे पुनर्वीराः पर्वतं गन्धमादनम् ॥ ३.१४५.२३ ॥

他们都慢慢走出并聚集在一起,婆罗多的后裔啊;然后那些英雄再次出发前往乾陀摩陀那山。