Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.146

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.146.1

ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु ।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ ३.१४६.१ ॥

当伟大的般度五子刚刚启程时,不习惯步行的德罗波蒂坐了下来。

3.146.2

श्रान्ता दुःखपरीता च वातवर्षेण तेन च ।
सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी ॥ ३.१४६.२ ॥

疲惫而被悲伤所笼罩的苦行般的般遮罗公主,因那风雨和自身的娇弱而昏厥过去。

3.146.3

सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा ।
रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ ३.१४६.३ ॥

她浑身颤抖,黑眼睛因昏迷而恍惚,用双臂抱住了自己圆润匀称的大腿。

3.146.4

आलम्बमाना सहितावूरू गजकरोपमौ ।
रपपात सहसा भूमौ वेपन्ती कदली यथा ॥ ३.१४६.४ ॥

她抓着那两条如象鼻般的大腿,颤抖着突然倒在地上,如同香蕉树倒下一般。

3.146.5

तां पतन्तीं वरारोहां भज्यमानां लतामिव ।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ ३.१४६.५ ॥

勇猛的那clear(那古拉)奔上前去,扶住了那位腰肢纤美、正如折断的藤蔓般倒下的女子。

3.146.6

राजन्पाञ्चालराजस्य सुतेयमसितक्षणा ।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥ ३.१४६.६ ॥

大王啊,这位般遮罗王之女,黑眼睛的她,疲惫不堪,已倒在地上。婆罗多啊,请看看她。

3.146.7

अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी ।
आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ ३.१४६.७ ॥

她本不应受苦,却遭遇了大苦,步履轻柔的人啊。大王,请安慰这位因劳累而憔悴的女子。

3.146.8

राजा तु वचनात्तस्य भृशं दुःखसमन्वितः ।
भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ ३.१४६.८ ॥

国王听了他的话,心中充满极大的悲痛,毗摩与萨诃提婆也立即疾步赶来。

3.146.9

तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम् ।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥ ३.१४६.९ ॥

贡蒂之子、德性高尚者看到她面色苍白、身形憔悴,便将她抱入怀中,痛苦地哀叹起来。

3.146.10

कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता ।
भूमौ निषतिता शेते सुखार्हा वरवर्णिनी ॥ ३.१४६.१० ॥

她本应在守卫森严的宫室中,躺在铺设精美的床上,理应享有幸福,这位容貌出众的女子怎会倒卧在地上?

3.146.11

सुकुमारौ कथं पादौ मुखं च कमलप्रभम् ।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ ३.१४६.११ ॥

她那双柔嫩的脚和如莲花般明艳的面容,今日因我之故竟已变得黯淡,她本是值得最好的人。

3.146.12

किमिदं द्यूतकामेन मया कृतमबुद्धिना ।
आदाय कृष्णां चरता वने मृगगणाकुले ॥ ३.१४६.१२ ॥

我这愚昧之人、贪恋赌博,究竟做了什么?在鹿群遍布的森林里,带着黑公主四处游荡。

3.146.13

सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन् ।
इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा ॥ ३.१४६.१३ ॥

吉祥的女子啊,你将得到班达瓦为夫,必得安乐——你的父亲德鲁帕达王如此将你许配,长眼的女子啊。

3.146.14

तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता ।
शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ ३.१४६.१४ ॥

这一切都无法获得。她因劳苦与悲伤而憔悴,倒卧在地上,都是因我这罪人的所作所为。

3.146.15

तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे ।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥ ३.१४६.१५ ॥

正当法王坚战如此哀叹时,德奥米耶等所有优秀的婆罗门都来到了那里。

3.146.16

ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् ।
राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ ३.१४६.१६ ॥

他们安慰他,以祝福来敬重他,诵念驱除罗刹的咒语,并举行了仪式。

3.146.17

पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः ।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ ३.१४६.१७ ॥

当大仙们为求平安而诵念咒语时,般度之子们用冰凉的手一次又一次地触摸她,

3.146.18

सेव्यमाना च शीतेन जलमिश्रेण वायुना ।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ ३.१४६.१८ ॥

般遮罗公主被混有水汽的凉风吹拂,得到安慰,渐渐恢复了知觉。

3.146.19

परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे ।
पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनम् ॥ ३.१४६.१९ ॥

班度诸子扶起悲伤的黑公主,让她躺在鹿皮褥上休息;苏醒过来的这位苦行女得以歇息。

3.146.20

तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ ३.१४६.२० ॥

孪生兄弟用长满老茧的双手,轻轻揉搓她那足底泛红、带有吉祥相的双足。

3.146.21

पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः ।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ ३.१४६.२१ ॥

法王坚战也充分安慰了她,随后这位库鲁之最对怖军说了这番话。

3.146.22

बहवः पर्वता मीम विषमा हिमदुर्गमाः ।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ ३.१४६.२२ ॥

怖军啊,这里有许多崎岖的山峦,积雪使其难以通行。大臂者啊,黑公主将如何在其中行走呢?

3.146.23

त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ ।
स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः ॥ ३.१४६.२३ ॥

国王啊,你、公主和孪生兄弟,人中之牛啊,我自己会背你们前行。王中之王啊,不要让心陷入悲伤。

3.146.24

अथवा यो मया जातो विहगो मद्बलोपमः ।
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ॥ ३.१४६.२४ ॥

或者,无垢者啊,让我所生、力量与我相当的那只“鸟”——迦托迦奇,遵从你的话,把我们所有人都背负起来。