Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.147

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.147.1

धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः ।
भक्तोऽस्मानौरसः पुत्रो नेतुमर्हति मातरम् ॥ ३.१४७.१ ॥

这位精通法(dharma)的、强大而勇猛的罗刹之王中的最优者,是我们忠实的、亲生的儿子,他立刻就能带母亲离开。

3.147.2

तव भीम सुतेनाहं नीतो भीमपराक्रम ।
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥ ३.१४७.२ ॥

勇猛无比的婆罗陀(Bhīma)啊,我由你的儿子带领,愿与般遮罗公主(Pāñcālī)一同安然无恙地前往香醉山(Gandhamādana)。

3.147.3

भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् ।
चिन्तयामास बलवान्महाबलपराक्रमम् ॥ ३.१४७.३ ॥

婆罗陀那(Bhīmasena)领会了兄长的话,便想起了大力勇猛的鞬陀迦磨(Ghaṭotkaca)。

3.147.4

घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा ।
कृताञ्जलिरुषातिष्ठदभिवाद्याथ पाण्डवान्।
ब्राह्मणांश्च महाबाहुः स च तैरमिनन्दितः ॥ ३.१४७.४ ॥

具有正义之心的鞬陀迦磨(Ghaṭotkaca),一旦父亲想起他,便合掌站立;他向般度诸子和婆罗门行礼,这位大臂者受到了他们的赞许。

3.147.5

उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ ३.१४७.५ ॥

这位真正勇猛的人,对父亲婆罗陀那说道。

3.147.6

स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः ।
आज्ञापय महाबाहो सर्वं कर्ताऽस्म्यसंशयम् ॥ ३.१४७.६ ॥

您想起了我,我急切地前来侍奉。大臂者啊,请您下令;我毫无疑问将做到一切。

3.147.7

तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे ।
चिन्ताया समनप्राप्तमित्युवाच वृकोदरः ॥ ३.१४७.७ ॥

毗摩善那闻言,拥抱了罗刹;为忧虑所困,狼腹如是说道。

3.147.8

हैडिम्बेय परिश्रान्ता तव माताऽपराजिता ।
त्वं कच कामगमस्तात बलवान्वह तां खग ॥ ३.१४७.८ ॥

希狄母之子啊,你的母亲那位不败者已经疲惫。孩子,你能随意前行,又有力量;空中行者,请背负她。

3.147.9

स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा ।
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥ ३.१४७.९ ॥

把她放在你的肩上,愿你平安;从我们中间穿越空中而行;步伐缓慢,以免伤害她。

3.147.10

धर्मराजं च धौम्यं च कृष्णां च यमजौ तथा ।
एकोप्यहमलं वोढुं किमुताद्य सहायवान् ॥ ३.१४७.१० ॥

即便独自一人,我也能背负法王、陶摩、克利须那和双生子;何况今日有助手相伴!

3.147.11

अन्ये च शतशः शूरा विहङ्गाः कामरूपिणः ।
सर्वान्वो ब्राह्मणैः सार्धं वक्ष्यन्ति सहिताऽनघ।
मन्दंमन्दं गमिष्यामि वहन्द्रुपदनन्दिनीम् ॥ ३.१४७.११ ॥

其他数百名勇士,能随意变化形态的鸟类般的生灵,将与婆罗门一同背负你们所有人,无罪者啊;我将缓缓前行,背负德鲁波达之女。

3.147.12

एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः ।
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥ ३.१४७.१२ ॥

说罢,乔托特伽恰便背起了克利须那;那位英雄行于般度诸子之中,其他人也背起了般度的儿子们。

3.147.13

लोमशः सिद्धमार्गेण जगामानुपमद्युतिः ।
स्वेनैव स प्रभावेण द्वीतीय इव भास्करः ॥ ३.१४७.१३ ॥

无与伦比光辉的洛摩莎沿着悉陀之道前行,凭自身威力光耀如第二个太阳。

3.147.14

ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः ।
नियोगाद्राक्षसेनद्रस्य जग्मुर्भीमपराक्रमाः ॥ ३.१४७.१४ ॥

罗刹们也将所有婆罗门抬起,依罗刹王之命,那些威猛异常的罗刹便出发了。

3.147.15

एवं सुरमणीयानि वनान्युपवनानि च ।
आलोकयन्तस्ते जग्मुर्विशालां बदरीमनु ॥ ३.१४७.१५ ॥

他们这样一边观望如诸天园林般美丽的森林与园圃,一边向毗舍罗·菩提林进发。

3.147.16

ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाजवैः ।
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥ ३.१४७.१६ ॥

这些英雄被那些迅捷如风的罗刹背负着,迅速前行,仿佛那漫长的路程变得短暂。

3.147.17

देशान्म्लेच्छजनाकीर्णान्नानारत्नाकरायुतान् ।
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥ ३.१४७.१७ ॥

他们看到了充满蛮夷之民、盛产众多宝石矿藏的国度,以及布满各种金属的山麓。

3.147.18

विद्याघरमाकीर्णआन्युतान्वानरकिन्नरैः ।
तथा किंपुरुषैश्चैव गन्धर्वैश्चसमन्ततः ॥ ३.१४७.१८ ॥

他们看到四面八方到处都是持明者、猿猴、紧那罗、紧那罗人与乾闼婆的地方。

3.147.19

मयूरैश्चभरैश्चैव हरिणै रुरुभिस्तथा ।
वराहैर्गवयैश्चैव महिषैश्च समावृतान् ॥ ३.१४७.१९ ॥

四面环绕着孔雀、水鹿、鹿、黄鹿、野猪、野牛和水牛。

3.147.20

नदीजालसमाकीर्णान्नानापक्षियुतान्बहून् ।
नानाविधमृगैर्जुष्टांश्चारणैश्चोपशोभितान्।
समदैश्च्यशि विहगैः उपैरन्वितांस्तथा ॥ ३.१४७.२० ॥

河流交织,群鸟繁多,各种野兽聚居,乾闼婆歌者来往其间,装饰着狂喜的鸟和……

3.147.21

तेऽवतीर्य बहून्देशानुत्तरांश्च कुरूनपि ।
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥ ३.१४७.२१ ॥

他们经过许多地区和北俱卢,看见了山中最殊胜的凯拉萨山,那里充满各种奇观。

3.147.22

तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् ।
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥ ३.१४७.२२ ॥

在它附近,他们看见了那罗与那罗延的净修林,林中有常开花结果的天上树木。

3.147.23

ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् ।
स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥ ३.१४७.२३ ॥

他们又看见那棵棗树(badarī),树干圆润,令人心悦,光滑,树荫浓密,极其华美。

3.147.24

पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् ।
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥ ३.१४७.२४ ॥

它以光滑、浓密、柔软的叶子装饰,吉祥,枝干宽广,伸展开来,极其光彩夺目。

3.147.25

फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् ।
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्।
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥ ३.१४७.२५ ॥

此处充满神圣而极其甜美的果实,常流蜜汁,为众多大仙人所栖,常有欢喜陶醉的各种鸟群聚集。

3.147.26

अदंशमशके देशे बहुमूलफलोदके ।
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते ॥ ३.१४७.२६ ॥

那里没有牛虻与蚊虫,盛产根茎、果实与清水,遍布蓝色的草地,为天神与乾达婆所常往。

3.147.27

सुभूमिभागविशदे स्वभावविदिते शुभे ।
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥ ३.१४७.२७ ॥

在那片吉祥之地,平坦明净,以其本性而闻名,触感如雪般柔软,荆棘已被除去。

3.147.28

तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः ।
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥ ३.१४७.२८ ॥

到达那里后,诸位大德与那些婆罗门中的雄牛一同,缓缓从罗刹的肩上下来。

3.147.29

ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् ।
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥ ३.१४७.२९ ॥

于是,大王啊,般遮武士们与那些再生者中的上等人一同,看见了那座由那罗与那罗延所常住的圣洁净修处。

3.147.30

तमसा रहितं पुण्यमनामृष्टं रवेः करैः ।
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥ ३.१४७.३० ॥

那圣洁的净修处没有黑暗,不受日光照射,远离饥渴寒热之苦,能够消除忧愁。

3.147.31

महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम् ।
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥ ३.१४७.३१ ॥

大王啊,此修行处挤满了大仙人的群体,充满梵的光辉;被逐出法的人难以进入。

3.147.32

बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम् ।
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥ ३.१४७.३२ ॥

以祭供与火供礼敬,神圣,洒扫整洁且涂抹香油,四面以神圣的花供装点而光辉闪耀。

3.147.33

विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः ।
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥ ३.१४७.३३ ॥

充满宽阔的火坛、勺与器皿,吉祥,以大水瓶和坚固的器具装饰。

3.147.34

शरण्यं सर्वभूतानां ब्रह्मघोपनिनादितम् ।
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्।
श्रिया युतमनिर्देश्यं देववर्योपशोभितम् ॥ ३.१४७.३४ ॥

是一切众生的依归,回响着梵的诵声,神圣,可以投奔,能消除疲劳的修行处;充满光辉,难以言表,由诸神中最上者装饰。

3.147.35

फलमूलाशनैर्दान्तैश्चारुकृष्णाजिनाम्बरैः ।
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥ ३.१४७.३५ ॥

以果实与根茎为食,克制自己,身穿精美的黑鹿皮衣,与太阳和火相等,以苦行净化了自身。

3.147.36

महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः ।
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥ ३.१४७.३६ ॥

为大仙人、致力于解脱的苦行者、诸根已制之人所常至,他们已与梵合一,极为有福,是宣说梵者。

3.147.37

सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः ।
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥ ३.१४७.३७ ॥

大光明、自制而清净的智慧者法子坚战与兄弟们一同走向那些仙人。

3.147.38

दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् ।
अभ्यगच्छन्त सुप्रीता दिव्या देवमहर्षयः। ॥ ३.१४७.३८ ॥

那些具有神圣智慧的天神大仙见到坚战到来,极为欢喜地迎向他。

3.147.39

प्रीतास्ते तस्य सत्कारं विधिना पावकापमाः ।
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥ ३.१४७.३९ ॥

那些如火般的仙人欢喜地依礼为他致敬,并献上清净的水、花、根与果。

3.147.40

स तैः प्रीत्याऽथ सत्कारमुपनीतं महर्षिभिः ।
प्रयतः प्रतिगृह्याथ धर्मराजो युधिष्ठिरः ॥ ३.१४७.४० ॥

大仙们以爱意奉上的敬礼,法王坚战恭敬地接受了。

3.147.41

तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् ।
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥ ३.१४७.४१ ॥

那圣地如因陀罗的宫殿,充满神圣香气,令人心悦,如天界一般,般度之子与黑公主一同欢喜地进入。

3.147.42

रविवेश शोभया युक्तं भ्रातृभिश्च सहानघ ।
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहार्चितः ॥ ३.१४७.४२ ॥

无罪者啊,他与兄弟们一同进入那光彩夺目之地,并受到精通吠陀与吠檀多支分的婆罗门礼敬。

3.147.43

तत्रापश्यत्स धर्मात्मा देवदेवर्पिपूजितम् ।
नरनारायणस्थानं भागीरथ्योपशोभितम् ॥ ३.१४७.४३ ॥

那位义魂在那里看见了那罗与那罗延的居所,为诸天与神仙所供奉,被婆吉罗提河装点。

3.147.44

तस्मिन्मधृस्रवफलां ब्रह्मर्षिगणभाविनीम् ।
वदरीं तामुपाश्रित्य पाण्डवो भ्रातृभिः सह ॥ ३.१४७.४४ ॥

在那里,般度之子与众兄弟依止那片果实滴蜜、为梵仙群所常至的棘树林住下。

3.147.45

मुदा युक्ता महात्मानो रेमिरे तत्र ते तदा ।
आलोकयन्तो मैनाकं नानाद्विजगणायुतम्।
हिरण्यशिखरं चैव मध्ये विन्दुसरः शिवम् ॥ ३.१४७.४५ ॥

那些大德满怀喜悦,在那里欢乐。他们观望着布满众多鸟群的摩纳迦山、金色的峰顶,以及中间吉祥的宾度湖。

3.147.46

भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् ।
मणिप्रवालप्रस्तारां पादपैरुषशोभिताम् ॥ ३.१४७.४६ ॥

婆吉罗提河,有美好的圣渡口,水冷而清澈,吉祥,遍布宝石与珊瑚,被树木装点。

3.147.47

दिव्यपुष्पसमाकीर्णां मनःप्रीतिविवर्धनीम् ।
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥ ३.१४७.४७ ॥

般度诸子观看那片遍布天花、增益心中喜悦的地方,在那里游乐。

3.147.48

तस्मिन्देवर्षिचरिते देशे परमदुर्गमे ।
भागीरथीपुण्यजलेतर्पयांचक्रिरे पितॄन्।
देवानृषींश्च कौन्तेयाः परमं शौचमास्थिताः ॥ ३.१४७.४८ ॥

在那个为诸天与仙人所常至、极难抵达的地方,在婆吉罗提河的圣水中,贡蒂之子保持至高的清净,为祖先、诸天与仙人行献水之祭。

3.147.49

तत्र ते तर्पयन्तश्च जपन्तश्च कुरूद्वहाः ।
ब्राह्मणैः सहिता वीरा ह्यवसन्पुरुपर्षभाः ॥ ३.१४७.४९ ॥

诸英雄,俱库鲁之最,人中之牛,与婆罗门共住其地,行奠水与诵咒。

3.147.50

कृष्णायास्तत्रपशय्न्तः क्रीडितान्यमरप्रभाः ।
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ ३.१४७.५० ॥

诸般尊胜的般度子,犹如诸神般光耀,人中之虎,在彼处观看克里希纳(德罗波蒂)的奇妙嬉戏而欢喜。