Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.148

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.148.1

तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः ।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ॥ ३.१४८.१ ॥

那里,那些人中之虎遵守至高的清净,因想见財主(阿周那)而住了六夜。

3.148.2

तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ।
मनोज्ञे काननवरे सर्व भूतमनोरमे ॥ ३.१४८.२ ॥

般度之子们在那里游览欢乐,居于那片可爱的殊胜森林中,那森林令一切众生欢喜。

3.148.3

पादपैः पुष्पविकचैः फलभारावनामितैः ।
शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः।
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ ३.१४८.३ ॥

那座可爱的山上,开满鲜花的树木因果实累累而低垂,雄杜鹃群聚其间,茂密的树木叶片光滑,树荫清凉,美丽迷人,山景因此而光彩夺目。

3.148.4

सरांसि च विचित्राणि प्रसन्नसलिलानि च ।
कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः।
पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः ॥ ३.१४८.४ ॥

那里有奇妙的湖泊,清澈的湖水,四处闪耀着莲花与青莲;般度之子观赏这些美丽景象,在那里欢喜游乐。

3.148.5

पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः ।
ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान् ॥ ३.१४८.५ ॥

那里吹来一阵散发纯净香气、触感宜人的风,使所有般度之子与黑天,以及殊胜的再生者们都感到欢喜。

3.148.6

ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया ।
सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥ ३.१४८.६ ॥

此时,从东北方随意飘来的风,偶然带来一朵如太阳般光辉的千瓣神圣莲花。

3.148.7

तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम् ।
अनिलेनाहृतंभूमौ पतितं जलजं शुचि ॥ ३.१४८.७ ॥

德罗波蒂看见那朵散发着神圣芬芳、令人心醉的洁净水生莲花,被风吹落在地上。

3.148.8

तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम् ।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ ३.१४८.८ ॥

大王啊,那位吉祥的女子得到了那朵吉祥无比的妙香莲花,非常欢喜,对毗摩森说道。

3.148.9

पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम् ।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥ ३.१४८.९ ॥

毗摩啊,看这朵神圣、极其美丽、无与伦比的花,具有芬芳与形态,是我心中的喜悦。

3.148.10

इदं च धर्मराजाय प्रदास्यामि परंतप ।
गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ।
हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ ३.१४८.१० ॥

我要把这朵花献给法王。摧敌者啊,人中雄牛啊,再取许多其他的花——为了我的心愿,为了哈里,再回到迦摩耶迦静修林。

3.148.11

यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर ।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ ३.१४८.११ ॥

如果我为你所爱,帕尔塔啊,请取来许多这些花。我想把它们再带回迦摩耶迦静修林。

3.148.12

एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता ।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥ ३.१४८.१२ ॥

说完这番话,无瑕的德罗波蒂拿起那朵花,随即前往法王那里。

3.148.13

अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः ।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥ ३.१४८.१३ ॥

知晓了正妃的心愿,欲使所爱之人欢喜的人中雄牛、大力的毗摩出发了。

3.148.14

वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम् ।
आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥ ३.१४८.१४ ॥

面朝风吹来的方向,欲将那朵花及其他花带回,他迅速前行。

3.148.15

रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान् ।
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः।
ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥ ३.१४८.१५ ॥

手持金背之弓,箭如毒蛇,怒如狮子,又如发情的象,众生都看见了这位持大箭与弓的英雄。

3.148.16

न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३.१४८.१६ ॥

疲倦、怯懦、恐惧与慌乱,从不触及这位风神摩多利湿婆之子、普利塔之子。

3.148.17

द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः ।
व्यपेतभयसमोहः शैलमभ्यपतद्बली ॥ ३.१४८.१७ ॥

为求德罗波蒂之欢心,倚仗双臂之力,无惧无惑,这位大力者扑向山峰。

3.148.18

स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम् ।
गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥ ३.१४८.१८ ॥

这位诛灭敌人者,在那座被树木、藤蔓与灌丛覆盖、有蓝石台地、为紧那罗所行之地的吉祥山上漫游。

3.148.19

नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः ।
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ ३.१४८.१९ ॥

披着繁多色彩,矿石、树木、走兽与飞鸟使其斑斓绚丽,满饰各种装饰,如大地高举的手臂。

3.148.20

सर्वर्तुरमणीयेषु गन्धमादनसानुषु ।
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥ ३.१४८.२० ॥

在四季皆宜的乾陀摩陀那山坡上,目光凝注,心中反复思量自己的意图。

3.148.21

पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च ।
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ ३.१४८.२१ ॥

在雄杜鹃的啼鸣与蜜蜂飞舞之处,耳、心、目俱被牵住,那勇力无量者前行而去。

3.148.22

आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम् ।
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥ ३.१४८.२२ ॥

嗅着四季花朵散发的浓烈芬芳,这位大光辉者在林中昂然前行,如发情的大象一般奔放。

3.148.23

वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना ।
पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ ३.१४८.२३ ॥

被乾陀摩陀那山那极为清净、带着多种花香的风所吹拂,凉爽如父亲的抚触。

3.148.24

ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ॥ ३.१४८.२४ ॥

父亲为他驱散疲劳,他全身的汗毛因喜悦而竖立。

3.148.25

स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम् ।
विलोकयामास तदा पुष्पहेतोररिंदमः ॥ ३.१४८.२५ ॥

那时,征服敌人者望着那座被夜叉、乾闼婆、天神与梵仙群众所侍奉的山,为了寻找花朵。

3.148.26

विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः ।
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ ३.१४८.२६ ॥

布满参差的峰顶,仿佛涂抹着指状的突起,明亮的矿脉纹理,呈现金色、黛色与银色。

3.148.27

सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः ।
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ ३.१४८.२७ ॥

仿佛展开双翼起舞,云雾附着在两侧,又仿佛被坠落的瀑布之水装饰着珍珠项链。

3.148.28

अभिरामदरीकुञ्जनिर्झरोदककन्दरम् ।
अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥ ३.१४८.२८ ॥

以美丽的洞穴、林丛、溪流和充满水的深谷而令人愉悦,回响着阿普萨拉斯脚环的叮当声,那里优美的孔雀在舞蹈。

3.148.29

दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम् ।
स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ ३.१४८.२९ ॥

岩石表面被守护方位的象牙尖磨得光滑,仿佛松落的衣裳随着从河流中涌出的水流滑落。

3.148.30

सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः ।
भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥ ३.१४८.३० ॥

被吃着草料的鹿群好奇地注视着——它们安详地在附近走动,不知恐惧。

3.148.31

चालयानः स्ववेगेन लताजालान्यनेकशः ।
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ ३.१४८.३१ ॥

以自身的速度屡次摇动藤蔓交织,嬉戏前行,光辉的昆提之子、风神之子走去。

3.148.32

प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः ।
प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥ ३.१४८.३२ ॥

渴望成全爱人心愿的,美目的青年,身材高大,金色光华,有狮子般健壮的身躯。

3.148.33

मत्तवारणविक्रन्तो मत्तवारणवेगवान् ।
मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ ३.१४८.३३ ॥

如发狂之象般勇猛,如发狂之象般迅捷,如发狂之象般红目,是群象中的雄象。

3.148.34

प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः ।
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ ३.१४८.३४ ॥

那些坐在爱人身旁、动作如风般迅捷而优美的夜叉与乾闼婆女子——隐形的她们——注视着他。

3.148.35

नवावतारं रूपस् विक्रीडन्निव पाण्डवः ।
चचार रमणीयेषु गन्धमादनसानुषु ॥ ३.१४८.३५ ॥

仿佛以新降之身嬉戏,般度之子漫游于乾陀摩陀那山那可爱的山坡之间。

3.148.36

संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून् ।
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ ३.१४८.३६ ॥

回想难陀王子杜尔陀那所加的种种苦难,决心为居住林中的德罗波蒂带来喜悦。

3.148.37

सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते ।
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥ ३.१४८.३७ ॥

他思忖道:若般度子(阿周那)与我耽搁太久,为了那些花,尊贵的坚战将如何行事?

3.148.38

स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च ।
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ ३.१४८.३८ ॥

因为爱护,又因不信任大力者(怖军),人中最优者坚战必定不会放走无种与偕天。

3.148.39

कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन् ।
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ ३.१४८.३९ ॥

他想道:“如何能迅速得到那些花?”人中之虎便出发了,疾如鸟王。

3.148.40

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥ ३.१४८.४० ॥

心与目光专注于盛开的山坡,以德罗波蒂的话作为路上的干粮,怖军更加迅速地前行。

3.148.41

कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु ।
त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ ३.१४८.४१ ॥

以双足震动大地,如天际雷鸣,惊骇象群,疾如风的狼腹(怖军)前行。

3.148.42

सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः ।
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ ३.१४८.४२ ॥

践踏狮子、虎与鹿,大力者拔起大树,以胸膛撞击,强悍的怖军前行。

3.148.43

लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः ।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ ३.१४८.४३ ॥

般度之子以大力拖拽藤蔓与攀缘植物,一次又一次向上攀行,宛如一头欲登山巅的大象。

3.148.44

जलावलम्बोऽतिभृशं सविद्युदिव तोयदः ।
व्यनदत्स महानादं भीमसेनो महाबलः ॥ ३.१४८.४४ ॥

以极大的力量攀附于藤蔓之上,犹如带着闪电的乌云,大力的比玛塞那发出了巨大的吼声。

3.148.45

तेन शब्देन महता भीमस्य प्रतिबोधिताः ।
गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥ ३.१४८.४५ ॥

被比玛那巨大的声响惊醒,老虎们完全离开了洞穴,林中的生灵也都躲藏起来。

3.148.46

समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः ।
ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम्।
व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥ ३.१४८.४६ ॥

受惊的鸟儿飞上天空,鹿群奔逃;熊松开了树木,狮子离开了山洞。大狮子伸展身体,林中游荡的水牛也是如此。

3.148.47

तेन वित्रासिता नागाः करेणुपरिवारिताः ।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् ॥ ३.१४८.४७ ॥

大象被他惊吓,在母象的环绕下,完全离开了那片森林,前往另一片大森林。

3.148.48

वराहमृगसङ्घाश्च महिषाश्च वनेचराः ।
व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥ ३.१४८.४८ ॥

野猪与鹿群、水牛与林中生灵,以及虎群与豺群,都与野牛(gavaya)一同发出了吼叫。

3.148.49

रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः ।
शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः ॥ ३.१४८.४९ ॥

拉塔刚、萨瓦、达提优哈、天鹅、迦兰达婆等水鸟,鹦鹉、鸽子和鹤因惊恐失去知觉,向四方逃散。

3.148.50

तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः ।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन् ॥ ३.१४८.५० ॥

同样,其他被母象的箭矢所困扰而骄狂的大象,以及愤怒的狮子和老虎,都向毗摩森那扑来。

3.148.51

शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः ।
व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान् ॥ ३.१४८.५१ ॥

心志因恐惧而慌乱,一边排泄粪便和尿液,一边张开大口,发出极其可怖的吼叫。

3.148.52

ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः ।
गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः।
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ ३.१४८.५२ ॥

于是风神之子愤怒之下,凭借自己双臂的力量,用一头大象击杀其他大象,用一头狮子击杀另一头狮子,又以掌击打杀死其余的野兽;这位强大的般度之子就这样做着。

3.148.53

ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः ।
भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥ ३.१४८.५३ ॥

那些狮子、老虎和熊被毗摩杀害,因恐惧而在毗摩身上排泄粪便和尿液,流淌下来。

3.148.54

प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ ३.१४८.५४ ॥

于是他推开它们,这位大力而光辉的般度之子迅速进入森林,以自己的吼声充满四方。

3.148.55

अथापश्यन्महाबाहुर्गनधमादनसानुषु ।
सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम् ॥ ३.१४८.५५ ॥

于是大臂者在乾陀摩陀那的山坡上看见一片极为美丽的芭蕉林,绵延数由旬。

3.148.56

तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः ।
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ ३.१४८.५६ ॥

大力者迅速冲向那里,要搅乱那片树林,就像一头流淌着液汁、折断各种树木的大象。

3.148.57

उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान् ।
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः।
विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥ ३.१४८.५७ ॥

薄那(Bhīma)是勇士中最优秀者,他拔起高如许多棕榈树的芭蕉干,四面猛力抛掷,如同骄傲的人狮,大放光彩,将一切碾碎。

3.148.58

ततः संन्यपतंस्तत्रसुबहूनि महान्ति च ।
रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥ ३.१४८.५८ ॥

于是那里许多大群的鲁如鹿与象群、水牛和水生动物纷纷奔逃。

3.148.59

प्रविवेश ततः क्षिप्रं तानपास्य महाबलः ।
वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः ॥ ३.१४८.५९ ॥

于是般度之子、光荣的大力者,把它们推开,迅速进入树林,以吼声充满四方。

3.148.60

तेन शब्देन चैवाथ भीमसेनरवेण च ।
वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः ॥ ३.१४८.६० ॥

因那声响和怖那斯那(Bhīmasena)的吼声,那些已进入林中深处的鹿与鸟也都惊恐起来。

3.148.61

तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम् ।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ ३.१४८.६१ ॥

当鹿与鸟群中掀起那阵骚动时,翅膀被水打湿的鸟儿成千上万地飞起。

3.148.62

तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः ।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ ३.१४८.६२ ॥

婆罗多族的雄牛看到那些水鸟群,便跟随它们,看见一个极为广阔而可爱的湖泊。

3.148.63

काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः ।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥ ३.१४८.६३ ॥

微风中颤动的金色芭蕉丛使这片平静的湖泊仿佛从这岸到那岸被扇动着。

3.148.64

तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम् ।
महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ ३.१४८.६४ ॥

于是他迅速走入那片盛开着莲花与睡莲的湖中,这位强者中的强者如同一头狂放的大象般嬉戏。

3.148.65

विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः ।
क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः ॥ ३.१४८.६५ ॥

在那片可爱的湖中嬉戏之后,光辉无量的怖军搅动着湖水,如发情的象般走了出来。

3.148.66

ततो जगाहे वेगेन तद्वनं बहुपादपम् ।
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः।
आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ॥ ३.१४८.६६ ॥

随后他飞速冲入那片树木繁茂的森林;般度之子用尽全部气力吹响海螺,而力大的怖军拍打自己的手臂,使四方回响。

3.148.67

तस्य शङ्खस्य शब्दन भीमसेनरवेण च ।
बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः ॥ ३.१४८.६७ ॥

那海螺的声音、毗摩森那的吼声以及他双臂的猛烈响声,使山中的洞穴仿佛都在轰鸣。

3.148.68

तं वज्रनिष्पेषसममास्फोटितमहारवम् ।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ ३.१४८.६८ ॥

听到那如雷霆撞击般的巨大拍击声,山洞中熟睡的狮子发出了巨大的吼声。

3.148.69

सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ ३.१४८.६९ ॥

婆罗多之子啊,被狮子吼声惊恐的大象也发出了巨大的鸣叫,整座山都被这声音充满。

3.148.70

तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः ।
भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥ ३.१४८.७० ॥

听到那声音,正在沉睡的猴中之王哈努曼认出了他的兄弟毗摩森那。

3.148.71

दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात् ।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥ ३.१४८.७१ ॥

为了毗摩,那位在天空中飞行的猴子挡住了道路,心想:“不要让任何人从这条路走过。”

3.148.72

आस्त एकायने मार्गे कदलीषण्डमण्डिते ।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥ ३.१४८.७२ ॥

在那条被芭蕉林装点的唯一道路上,他坐下来挡住去路,以保护他的兄弟毗摩。

3.148.73

माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः ।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः ॥ ३.१४८.७३ ॥

“这里,般度之子不会遭受诅咒或侮辱”——如此思量,那位站在芭蕉林中间的猴子(想道)。

3.148.74

प्राजृम्भत महाकायो हनूमान्नाम वानरः ।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥ ३.१४८.७४ ॥

于是身躯庞大的猴子哈努曼伸展身体打了哈欠;那时,他站在芭蕉林中间,陷入了睡眠的掌控。

3.148.75

तेन शब्देन महता व्यबुध्यत महाकपिः ।
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्।
आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥ ३.१४८.७५ ॥

那巨大的声响惊醒了这只大猴;它一边打着哈欠,身躯庞大高耸如因陀罗的旗帜,一边拍打着摇动的尾巴,发出如因陀罗霹雳般的声响。

3.148.76

तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः ।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥ ३.१४८.७६ ॥

随着他尾巴的声响,山岳从其美丽洞穴的口中,如牛吼般咆哮,四面八方发出仿佛打嗝一般的轰鸣。

3.148.77

लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः ।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥ ३.१४८.७७ ॥

因尾巴拍打的声音,那座大山震动起来,山峰摇晃旋转,四面八方都崩裂破碎了。

3.148.78

स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् ।
अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥ ३.१४८.७८ ॥

他尾巴的那声响,如同发情大象的嘶鸣,隐匿于色彩斑斓的山坡之间,四处游荡。

3.148.79

स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः ।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ ३.१४८.७९ ॥

毗摩先那听到那声音,喜悦得汗毛竖起,在芭蕉林中寻找声音的来源。

3.148.80

कदलीवनमध्यस्थमथ पीने शिलातले ।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥ ३.१४८.८० ॥

那大臂者在芭蕉林中央,于一块宽阔的岩石上,看见了猴王。

3.148.81

विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम् ।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम् ॥ ३.१४८.८१ ॥

他的样子如闪电般难以直视,闪亮如电光般黄赤,吼声如雷电般震响,动作如电光般迅捷不定。

3.148.82

बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम् ।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ ३.१४८.८२ ॥

双臂呈卍字形交叠,颈项粗圆,身躯以双肩为主,腰与臀纤细。

3.148.83

किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च ।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ ३.१४८.८३ ॥

头颅微微昂起,长毛竖立,高高扬起的尾巴如旗帜般光彩照人。

3.148.84

ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम् ।
अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥ ३.१४८.८४ ॥

他看见那面孔:嘴唇短,口中舌呈铜色,耳朵通红,眉毛不停跳动,如同放射光芒的月亮。

3.148.85

वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम् ।
केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥ ३.१४८.८५ ॥

口中所含的白齿装饰其间,与鬃毛簇相混,如同无忧树的一簇。

3.148.86

हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् ।
दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्।
निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥ ३.१४८.८६ ॥

立于金色的芭蕉之间,光辉极盛,身体闪耀如燃烧的火焰,无所畏惧地以蜜黄色的眼睛凝视。

3.148.87

तं वानरवरं धीमानतिकायं महाबलम् ।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम् ॥ ३.१४८.८७ ॥

那位猴中之最,聪慧,身躯巨大,力量强盛,挡住天堂之路,如喜马拉雅山般屹立。

3.148.88

दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने ।
अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥ ३.१४८.८८ ॥

在那大森林中见他孤身一人,大臂的怖畏勇士婆罗多的比摩迅速上前。

3.148.89

सिंहनादं चकारोग्रं वज्राशनिसमं बली ।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥ ३.१४८.८९ ॥

强大的比摩发出可怖的狮吼,如同金刚与闪电;比摩的那声音使鹿兽与飞鸟惊恐。

3.148.90

हनूमांश्च महासत्व ईषदुन्मील्य लोचने ।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ ३.१४८.९० ॥

大力的哈努曼微微睁开眼睛看见了他,随后以轻蔑的目光,用蜜黄色的眼睛望去。

3.148.91

ततः पवनजः श्रीमानन्तिकस्थं महौजसम् ।
स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥ ३.१४८.९१ ॥

于是风之子、光辉的哈奴曼走近站在旁边的那位大力者,微笑着说了这些话。

3.148.92

किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ।
ननु नाम त्वया कार्या दया भूतेषु जानता ॥ ३.१४८.९२ ॥

"我安睡正乐,你为何以痛苦将我唤醒?你既然知道,就该对众生怀有慈悲。"

3.148.93

वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः ।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ॥ ३.१४८.९३ ॥

"我们不懂法,因为我们已投生为畜类;而具足智慧的人却对众生慈悲。"

3.148.94

क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ।
धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥ ३.१४८.९४ ॥

"像你这样的智者,怎会沉溺于残酷之事——那些玷污身、语、意、毁灭法的行为?"

3.148.95

न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया ।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥ ३.१४८.९५ ॥

"你不懂法,也未曾侍奉长者;因为见识浅薄,自幼便残害鹿群。"

3.148.96

ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः ।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ ३.१४८.९६ ॥

"请告诉我,你是谁?为何来到这片森林?你既无人类之性,也远离众人。"

3.148.97

क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ ।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥ ३.१४८.९७ ॥

人中之雄牛啊,请告诉我,你今天要去哪里。再往前,此山不可通行,攀登极为艰难。

3.148.98

विना सिद्धगतिं वीर गतिरत्र न विद्यते ।
देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा ॥ ३.१४८.९८ ॥

英雄啊,除了成就者之路,此处再无他路。这是通往天界的道路,人类永远无法通行。

3.148.99

कारुण्यात्त्वामहं वीर वारयामि निबोध मे ।
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ ३.१४८.९९ ॥

英雄啊,我出于怜悯阻止你,请听我说。再往前你是不能去的。振作起来,主公。

3.148.100

स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ ।
इमान्यमृतकल्पानि मूलानि च फलानि च ॥ ३.१४८.१०० ॥

人中之雄牛啊,今日你在此处处处受欢迎。这些根与果实如同甘露。

3.148.101

भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम् ।
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥ ३.१४८.१०१ ॥

吃了这些便回去吧,莫要徒然招致死亡。人中之最啊,若你接受我有益的忠告,