摩诃婆罗多 · 章 3.149
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.149.1
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः ।
भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः ॥ ३.१४९.१ ॥
无量勇力的英雄怖军闻听这位智慧的猴王之言,随即说道。
3.149.2
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः ।
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति ॥ ३.१४९.२ ॥
你是谁?你为何化作猴子之身?我是刹帝利,仅次于婆罗门的种姓,特此相问。
3.149.3
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः ।
पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ ३.१४९.३ ॥
我是月族的俱卢族人,在贡蒂腹中怀胎而生;我是般度之子,风神之子,名为怖军。
3.149.4
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् ।
हनुमान्वायुतनयो वायुपुत्रमभाषत ॥ ३.१४९.४ ॥
哈奴曼微笑接受怖军之言,这位风神之子对风神之子说道。
3.149.5
वानरोऽहं न ते मार्गं प्रदास्यामि यथोप्सितम् ।
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ ३.१४९.५ ॥
我是一只猴子,不会给你你所想要的道路。好好走吧,回去吧;你不要遭遇毁灭。
3.149.6
वैशसं वाऽस्तु यद्वान्यन्न त्वां रपृच्चामि वानर ।
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम् ॥ ३.१४९.६ ॥
无论是毁灭还是其他什么,哦猴子,我并不向你索求什么。让开道路,起来吧;不要因我而遭受痛苦。
3.149.7
नास्ति शक्तिर्ममोत्थातुं जरया क्लेशितो ह्यहम् ।
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ ३.१४९.७ ॥
我无力起身,已被衰老所困。若你必须前行,便跨越我而去吧。
3.149.8
निर्गुणः परमात्मा तु देहं ते व्याप्य तिष्ठते ।
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ ३.१४९.८ ॥
无德的至上自我遍布你的身体而安住其中。对于那唯有以智慧与辨识才能认识的他,我既不轻慢,也不跨越。
3.149.9
यद्यागमैर्न विद्यां च तमहं भूतभावनम् ।
क्रमेयं त्वां गिरिं चैव हनीमानिव सागरम् ॥ ३.१४९.९ ॥
若我不能以经典与智慧认识那使众生存续者,我便会跨越你和这座山,如同哈奴曼跨越大海一般。
3.149.10
क एष हनुमान्नाम सागरो येन लङ्घितः ।
पृच्चामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ॥ ३.१४९.१० ॥
这位名叫哈奴曼的是谁,是谁跨越了大海?人中至尊啊,我问你;若可以,请告诉我。
3.149.11
भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः ।
रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः ॥ ३.१४९.११ ॥
我的兄长,因德行而受赞颂,具足智慧、勇气与力量,在《罗摩衍那》中极为著名,是那位光辉的猴中至尊。
3.149.12
रामपत्नीकृते येन शतयोजनविस्तृतः ।
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ ३.१४९.१२ ॥
为了罗摩的妻子,那位跳跃者之主一步跨越了宽达百由旬的大海。
3.149.13
स मे भ्राता महावीर्यस्तुल्योऽहं तस् तेजसा ।
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ ३.१४९.१३ ॥
我的兄长大力勇猛,在光辉上与我相当。在力量、勇气与战斗中,我足以制服你。
3.149.14
इमं देशमनुप्राप्तः कारणेनास्मि केनचित् ।
उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम्।
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ॥ ३.१४९.१४ ॥
我因某种缘故来到此地。起来,给我让路;今日请看我的勇武。若你不听从我的命令,我便将你送往阎摩之境。
3.149.15
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम् ।
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ ३.१४९.१५ ॥
哈奴曼见他因力量而狂妄、因臂力而自负,心中暗笑,便对他说了这番话。
3.149.16
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ ।
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ ३.१४९.१६ ॥
请发慈悲,无瑕者啊;我因年老,无力起身。请出于怜悯,把这条尾巴移开,然后离去。
3.149.17
एवमुक्ते हनुमता हीनवीर्यपराक्रमम् ।
मनसाऽचिनतयद्भीमः स्वबाहुबलदर्पितः ॥ ३.१४९.१७ ॥
哈奴曼如此说后,比摩以自己臂力自豪,心中想到他已丧失勇力与威武。
3.149.18
पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम् ।
सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् ॥ ३.१४९.१८ ॥
我以力量抓住他的尾巴,今日便在此将这失去勇力与威武的猴子送往死神之界。
3.149.19
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना ।
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥ ३.१४९.१९ ॥
于是毗摩带着轻蔑而微笑,用左手抓住了它,却连大猴的尾巴也无法移动。
3.149.20
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् ।
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ ३.१४९.२० ॥
他再次用双臂将它高高举起,如同因陀罗的金刚杵,但即使用双臂,大力的毗摩也无法举起它。
3.149.21
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रकुटीमुखः ।
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुंशशाक तम् ॥ ३.१४९.२१ ॥
他挑起眉毛,瞪圆眼睛,皱紧眉头,脸色紧绷,毗摩全身汗湿,终究无法将它举起。
3.149.22
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणे ततः ।
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः ॥ ३.१४९.२२ ॥
尽管他竭力尝试,光荣的毗摩仍未能举起那尾巴,他低着头、满面羞愧地站在大猴身旁。
3.149.23
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् ।
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ ३.१४९.२३ ॥
昆提之子躬身合掌,说道:「请息怒吧,猴中之虎;请原谅我的粗言。」
3.149.24
सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः ।
पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत् ॥ ३.१४९.२४ ॥
「你是悉陀、天神、乾闼婆,还是夜叉?我问你,请告诉我,你这化作猿猴之形的是谁?」
3.149.25
न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम ।
शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ ॥ ३.१४९.२५ ॥
啊,大臂者,若此事非秘密,且我可以听闻,我便如弟子般向你请教;啊,无罪者,我已来到你的面前。
3.149.26
यत्ते मम परिज्ञाने कौतूहलमरिंदम ।
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥ ३.१४९.२६ ॥
啊,降伏敌人者,你对我的知识有何好奇,啊,般度之子的喜悦,请完整地听下去。
3.149.27
अहं केसरिणः क्षेत्रे वायुना जगदायुषा ।
जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ ३.१४९.२७ ॥
啊,莲花眼者,我是由世界之命风神伐由在克萨林之田中所生;我名叫哈努曼,是一只猴子。
3.149.28
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।
सर्ववानरराजानौ सर्ववानरयूथपाः ॥ ३.१४९.२८ ॥
太阳之子须羯哩婆与因陀罗之子婆梨,二者皆为一切猴王,以及一切猴群的首领。
3.149.29
उपतस्थुर्महावीर्या मम चामित्रकर्शन ।
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ ३.१४९.२९ ॥
啊,摧敌者,大勇的猴子们侍奉于我;我与须羯哩婆之间生起了友情,如同风与火之相亲。
3.149.30
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ।
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ ३.१४९.३० ॥
此后,因另一原因他被兄长所欺,须羯哩婆便与我在黑山(Ṛśyamūka)上长久同住。
3.149.31
अथ दाशरथिर्वीरो रामो नाम महाबलः ।
विष्णुर्मानुषरूपेण चचार वसुधातलम् ॥ ३.१४९.३१ ॥
那时,十车王之子英雄罗摩,大力者,以人形化身的毗湿奴,行走于大地之上。
3.149.32
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः ।
सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः ॥ ३.१४९.३२ ॥
他为了满足父亲的心愿,与妻子和弟弟同行,手持弓箭,为射手中的最优者,入住于檀陀迦森林。
3.149.33
तस्य भार्या जनस्थानाच्छलेनापहृता बलात् ।
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना ॥ ३.१४९.३३ ॥
他的妻子在罗刹之王、强大而心术不正的罗波那的诡计与暴力之下,被从罗舍那处掳走。
3.149.34
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा ।
वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ ॥ ३.१४९.३४ ॥
那时,罗刹摩利遮化作一只饰以黄金与宝石的鹿,欺骗了人中之虎,啊,无罪者。