Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.15.1

वासुदेव महाबाहो विस्तरेण महामते ।
सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः ॥ ३.१५.१ ॥

婆苏提婆啊,大臂者,大智者,请详细讲述沙布哈之死;听你讲述,我仍不满足。

3.15.2

हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप ।
उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम् ॥ ३.१५.२ ॥

国王啊,婆罗多族最优秀者,大臂者,沙尔瓦听说我杀了舒罗多斯罗婆斯,便来到了德瓦拉卡城。

3.15.3

अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन ।
साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः ॥ ३.१५.३ ॥

般度之子啊,心极邪恶的沙尔瓦从四面包围了那座城;他又将自己的空中之城排列成阵,便驻扎在那里。

3.15.4

तत्रस्थोऽथ महीपालो योधयामास तां पुरीम् ।
अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥ ३.१५.४ ॥

于是那位站在那里的国王以全军进攻那座城,战斗便在那里展开了。

3.15.5

पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥ ३.१५.५ ॥

这座城四面布置完备,有旗帜与门楼,有圆盘投掷机与弩机,也有各种器械与挖掘工具。

3.15.6

सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा ।
सचक्रग्रहिणी चैव सोल्कालातावपोथिका ॥ ३.१५.६ ॥

有尖刺的障碍与街门,有哨楼、高塔与门楼,有持盘之器械,也有火把、火炬与撞锤。

3.15.7

सोष्टिका भरतश्रेष्ठ सभेरीपणवानका ।
सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला ॥ ३.१५.७ ॥

婆罗多之最啊,有骆驼、鼓、铃鼓和大鼓;大王啊,有长矛和象钩,有百杀器和犁。

3.15.8

सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा ।
लोहचर्मवती चापि साग्निः सगुडशृङ्गिका।
शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ ॥ ३.१५.८ ॥

带着 bhuśuṇḍi 投石器、石块和 guḍa,持械,并带有斧头;带着铁盾,带着火,带着 guḍaśṛṅgikā;婆罗多中的公牛啊,依照典籍所载之法,装备精良。

3.15.9

रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ।
पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे ॥ ३.१५.९ ॥

有各式各样的许多战车,有 Gada、Sāmba、Uddhava 等人;库鲁中的猛虎啊,有能够抵御的勇士。

3.15.10

अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ।
मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता।
उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः ॥ ३.१५.१० ॥

它由出身显赫、在战场上已显示勇力的英雄们,由中军和守卫们很好地守护着;同样,也由高举的队伍和悬挂旗帜的马匹守护着。

3.15.11

आघोषितं च नगरे न पातव्या सुरेति वै ।
प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥ ३.१५.११ ॥

城中宣告说不可饮酒,由守卫防备松懈的乌格拉塞纳、乌达瓦等人宣布。

3.15.12

प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः ।
इति कृत्वाऽप्रमत्तास्ते सर्वेवृष्ण्यन्धकाः स्थिताः ॥ ३.१५.१२ ॥

沙尔瓦王会攻击疏忽者;如此想着,所有的韦利史尼与安陀迦都保持警觉站立。

3.15.13

आनर्ताश्च तथा सर्वे नटनर्तकगायकाः ।
बहिर्निर्वासिताः सर्वे रक्षद्भिर्वित्तसंचयम् ॥ ३.१५.१३ ॥

所有阿难陀人,以及所有演员、舞者和歌手,都被守护积累财富的人驱逐到城外。

3.15.14

संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः ।
परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥ ३.१५.१४ ॥

俱卢的后裔啊!所有桥梁都被拆毁,船只被禁止使用,护城河也被密密地插满了尖桩。

3.15.15

उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः ।
समन्तात्क्रोशमात्रं च कारिता विषमा च भूः।
संक्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः ॥ ३.१५.१५ ॥

俱卢中的最优者啊!水井和水车亦然;四周一克罗舍之地都被弄得崎岖不平。所有桥梁都被拆毁,城墙被重新修筑。

3.15.16

प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम् ।
प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ ॥ ३.१५.१६ ॥

它天然是一座难以攻破的堡垒,天然守卫森严,天然装备着兵器;而且在那时尤其如此,无罪者啊。

3.15.17

सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम् ।
तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥ ३.१५.१७ ॥

那座城市防守严密、隐蔽周全,装备了一切兵器;婆罗多之最啊,它如同因陀罗的宫殿。

3.15.18

न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते ।
वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥ ३.१५.१८ ॥

国王啊!那时,在苏跋之战期间,在毗湿尼与安陀迦的城中,没有印信的人不得出城,没有印信的人也不得入城。

3.15.19

अनुरध्यासु सर्वासु चत्वरेषु च कौरव ।
बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥ ३.१५.१९ ॥

俱卢之王啊,诸王之主,在所有地方及十字路口,都有象马众多的军队。

3.15.20

दत्तवेतनभक्तं च दत्तायुधपरिच्छदम् ।
कृतोपधानं च तदा बलमासीद्विशांपते ॥ ३.१५.२० ॥

百姓之主啊,当时那支军队得到了薪饷和给养,获得了武器和装备,其忠诚也已得到保障。

3.15.21

न कृप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी ।
नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥ ३.१५.२१ ॥

那支军队中,没有人是勉强领取薪饷的,也没有人是薪饷被拖欠的;没有人是仅靠恩惠供养的,也没有人是勇力未经显示的。

3.15.22

एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः ।
आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥ ३.१५.२२ ॥

如此,大王啊,莲花眼者啊,多多的施礼使德瓦拉卡井然有序,并由国王阿胡卡(乌格拉塞纳)妥善守护。