摩诃婆罗多 · 章 3.150
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.150.1
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ ३.१५०.१ ॥
罗怙之后失去妻子,与兄弟一同寻找她,在山峰上看见了猴中之雄牛须羯里婆。
3.150.2
तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥ ३.१५०.२ ॥
因此与伟大的罗怙之后结为友谊。他杀死了婆林,使须羯里婆重新在王国中就位。
3.150.3
स राज्यं प्राप्य सुग्रीवः सीतायाः परिमार्गणे ।
वानरान्प्रेषयामास शतशोऽथ सहस्रशः ॥ ३.१५०.३ ॥
须羯里婆得到王国后,派出成百上千的猴子去寻找悉多。
3.150.4
ततो वानरकोटीभिः सहितोऽहं नरर्षभ ।
सीतां मार्गन्महाबाहो प्रस्थितो दक्षिणां दिशम् ॥ ३.१५०.४ ॥
那时,人中之雄啊,我与千万只猴子同行,寻找悉多,向南方出发,大臂者啊。
3.150.5
ततः प्रवृत्तिः सीताया गृध्रेण सुमहात्मना ।
संपातिना समाख्याता रावणस्य निवेशने ॥ ३.१५०.५ ॥
于是那位极其伟大的秃鹫桑帕蒂在罗波那的住所中讲述了悉多的消息。
3.150.6
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।
शतयोजनविस्तारमर्णवं सहसा प्लुतः ॥ ३.१५०.६ ॥
于是,为了完成行事毫不费力的罗摩的使命,我猛然跃过了宽百由旬的大海。
3.150.7
अहं स्ववीर्यादुत्तीर्य सागरं मकरालयम् ।
सुतां जनकराजस्य सीतां सुररसुतोपमाम् ॥ ३.१५०.७ ॥
我凭自己的勇力渡过了摩竭鱼所居的大海,见到了如天女一般的遮那迦王之女悉多。
3.150.8
दृष्टवान्भरतश्रेष्ठ रावणस्य निवेशने ।
समेत्य तामहं देवीं वैदेहीं राघवप्रियाम् ॥ ३.१५०.८ ॥
婆罗多族中最优秀的人啊!在罗波那的宫中,我见到了那位女神毗提诃,罗揭婆所爱的人,并与她相会。
3.150.9
दग्ध्वा लङ्कामशेषेण सादृप्राकारतोरणाम् ।
प्रत्यागतश्चास्य पुनर्नाम तत्रप्रकाश्य वै ॥ ३.१५०.९ ॥
我将楞伽城连同其高傲的城墙与城门全部焚毁,然后返回,并在那里再次向他报出了我的名字。
3.150.10
मद्वाक्यं चावधार्याशु रामो राजीवलोचनः ।
अबद्धपूर्वमन्यैश्च बद्ध्वा सेतुं महोदधौ।
वृतो वानरकोटीभिः समुत्तीर्णो महार्णवम् ॥ ३.१५०.१० ॥
罗摩闻我之言,眼如莲花,迅速在大海之上架起一座前人从未架设过的桥梁,被千万只猴子簇拥着,渡过了大海。
3.150.11
ततो ररामेण वीर्येण हत्वा तान्सर्वराक्षसान् ।
रणे तु राक्षसगणं रावणं लोकरावणम् ॥ ३.१५०.११ ॥
此后罗摩凭其勇力,在战场上杀死了所有那些罗刹、罗刹大军,以及使世界哭泣的罗波那。
3.150.12
निशाचरेनद्रं हत्वा तु सभ्रातृसुतबान्धवम् ।
राज्येऽभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम् ॥ ३.१५०.१२ ॥
罗摩杀死了夜行者之主及其兄弟、子侄与亲族,随后在楞伽王国为罗刹之主毗婆那举行了灌顶即位礼。
3.150.13
धार्मिकं भक्तिमन्तं च भक्तानुगतवत्सलः ।
प्रत्याहृत्य ततः सीतां नष्टां वेदश्रुतिं यथा ॥ ३.१५०.१३ ॥
那位正法而虔敬、慈爱追随其信徒的人,将失去的悉多带回,犹如找回失落的吠陀天启。
3.150.14
तयैव सहितः साध्व्या पत्न्या रामो महायशाः ।
गत्वा ततोऽतित्वरितः स्वां पुरीं रघुनन्दनः।
अध्यावसत्ततोऽयोध्यामयोध्यां द्विषतां प्रभुः ॥ ३.१५०.१४ ॥
与那位贤德的妻子同行,大名鼎鼎的罗怙之喜罗摩急速回到自己的城市。随后,这位主宰住在阿约提亚,那是敌人无法征服的城市。
3.150.15
ततः प्रतिष्ठितो राज्ये रामो नृपतिसत्तमः ।
वरं मया याचितोऽसौ रामो राजीवलोचनः ॥ ३.१५०.१५ ॥
罗摩——众王中最优秀者——在王国中确立之后,我向那位莲花眼的罗摩请求了一个恩赐。
3.150.16
यावद्रामकथेयं ते भवेल्लोकेषु शत्रुहन् ।
तावज्जीवेयमित्येवं तथाऽस्त्विति च सोब्रवीत् ॥ ३.१५०.१६ ॥
"灭敌者啊,只要你的罗摩故事在世间流传,我便愿长存。" 我如此请求,他说:"就这样吧。"
3.150.17
सीताप्रसादाच्च सदा मामिहस्थमरिंदम ।
उपतिष्ठन्ति दिव्या हि भोगा भीम यथेप्सिताः ॥ ३.१५०.१७ ॥
蒙悉多之恩,灭敌者啊,住在此地的我,总有天界的享乐随我所愿而至,婆罗婆啊。
3.150.18
दशवर्षसहस्राणि दशवर्षशतानि च ।
राज्यं कारितवान्रामस्ततः स्वभवनं गतः ॥ ३.१५०.१८ ॥
罗摩使王国统治了一万年又一千年;然后他回到了自己的居所。
3.150.19
तदिहाप्सरसस्तात गन्धर्वाश्च सदाऽनघ ।
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥ ३.१५०.१९ ॥
亲爱的,这里的无垢天女与乾闼婆总是歌颂那位英雄的事迹,使我欢喜。
3.150.20
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥ ३.१५०.२० ॥
此路凡人不可通行,库鲁之喜。因此我为你阻断了这条诸神所行之路。
3.150.21
त्वामनेन पथा यान्तं यक्षो वा राक्षसोपि वा ।
धर्षयेद्वा शपेद्वाऽपि मा कश्चिदिति भारत ॥ ३.१५०.२१ ॥
婆罗多之子啊,愿你行走此路时,不被任何夜叉或罗刹侵扰或诅咒。
3.150.22
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः ।
यदर्थमागतश्चासि अत एव सरश्च तत् ॥ ३.१५०.२२ ॥
此乃诸神的神圣之路,凡人不至此处。你为何而来,那湖也因此而在此。