Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.152

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.152.1

पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन ।
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना ॥ ३.१५२.१ ॥

若我值得您的恩惠,我绝不会在未见您原本的形貌之前离去;请以您自己的力量显现自身。

3.152.2

एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः ।
तद्रूपं दर्शयामास यद्वै सागरलङ्घने ॥ ३.१५२.२ ॥

婆罗多的毗摩如此相求,猴群中的跳跃者微笑着显现了他跃过大海时所化的那一形相。

3.152.3

भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः ।
तद्रूपं यत्पुरा तस्य बभूवोदधिलङ्घने ॥ ३.१५२.३ ॥

他想让兄长欢喜,便将身体化得极其庞大;那正是他往昔跃过大海时所有的形相。

3.152.4

देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः ।
सद्रुमं कदलीषण्डं छादयन्नमितद्युतिः ॥ ३.१५२.४ ॥

于是他的身体在长宽两方面都极度增大,连同树木覆盖了整片芭蕉林,光辉无量。

3.152.5

गिरिश्चोच्छ्रयमाक्रम्य तस्थौ तत्र च वानरः ।
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः ॥ ३.१५२.५ ॥

那猴子登上山峰之巅,立于其上;他高高竖起的庞大身躯,宛如第二座山。

3.152.6

ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः ।
दीर्घं लाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ॥ ३.१५२.६ ॥

他双目赤如铜色,獠牙锐利,皱眉怒目;这猴子挥动长尾,充塞四方而立。

3.152.7

तद्रूपं महदालक्ष्यभ्रातुः कौरवनन्दनः ।
विसिष्मिये तदा भीमो जहृषे च पुनः पुनः ॥ ३.१५२.७ ॥

见到哥哥的伟大形象,俱卢族的欢喜者毗摩于是惊叹,并一再欢喜。

3.152.8

तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् ।
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् ॥ ३.१५२.८ ॥

毗摩见他光辉如日,如金山,如燃烧的天空,便闭上了眼睛。

3.152.9

आबभाषे च हनुमान्भीमसेनं स्मयन्निव ।
एतावदिह शक्तस्त्वं द्रुष्टुं रूपं ममानघ ॥ ३.१५२.९ ॥

哈奴曼微笑着对毗摩森那说:“无罪者啊,在这里你只能看到我的这般形象。”

3.152.10

वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् ।
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ॥ ३.१५२.१० ॥

从此处起,我还会长大,直到我心中所愿。毗摩啊,我的形体在敌人之中,以其威力极度增长。

3.152.11

तदद्भुतं महारौद्रं विन्ध्यपर्वतसन्निभम् ।
दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः ॥ ३.१५२.११ ॥

见到哈奴曼那如同频阇耶山般奇妙而极其可怖的身躯,风之子大为慌乱。

3.152.12

प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः ।
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ॥ ३.१५२.१२ ॥

于是毗摩喜得体毛竖立,合掌,心不畏缩,回答站立在前的哈奴曼。

3.152.13

दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो ।
संहरस्व महावीर्य स्वयमात्मानमात्मना ॥ ३.१५२.१३ ॥

威力无边者啊,我已看见你这庞大身躯的尺度。大勇者啊,请以你自身的力量收敛你自己吧。

3.152.14

न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् ।
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् ॥ ३.१५२.१४ ॥

我无法直视你,你如同升起的太阳,不可测量,不可战胜,如同摩那迦山。

3.152.15

विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै ।
यद्रामस्त्वयि पार्श्वश्थे स्वयं रावणमभ्यगात् ॥ ३.१५२.१५ ॥

啊英雄,我今天心中实在惊讶:你就在他身旁,罗摩却亲自去对抗罗波那。

3.152.16

त्वमेव शक्तस्तां लङ्कां सयोधां सहरावणाम् ।
स्वबाहुबलमाश्रित् विनाशयितुमञ्जसा ॥ ३.१५२.१६ ॥

凭借你自己手臂的力量,你一人就能轻易毁灭那座楞伽城,连同它的战士与罗波那。

3.152.17

न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते ।
न चैव तव पर्याप्तो रावयणः सगणो युधि ॥ ३.१५२.१७ ॥

风之子啊,对你而言没有什么是无法获得的。而且在战斗中,罗波那和他的部众都不足与你匹敌。

3.152.18

एवमुक्तस्तु भीमेन हनूमान्प्लवगोत्तमः ।
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा ॥ ३.१५२.१८ ॥

被婆湿摩如此说后,猴中之最的哈努曼便以温和而深沉的声音回答。

3.152.19

एवमेतन्महाबाहो यथा वदसि भारत ।
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ॥ ३.१५२.१९ ॥

正如你所说,大臂的婆罗多啊。婆罗多,那个最卑劣的罗刹不足以与我相匹敌。

3.152.20

मया तु निहते तस्मिन्रावणे लोककण्टके ।
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः। ॥ ३.१५२.२० ॥

若我杀了那罗波那,这世界的荆棘,罗怙之子的名声便会消失,因此此事被搁置了。诸神正是借着吠陀行仪所规定的祭祀而得以维系。

3.152.21

तेन वीरेण तं हत्वा सगणं राक्षसाधमम् ।
आनीता स्वपुरं सीता कीर्तिश्च स्थापिता नृषु ॥ ३.१५२.२१ ॥

那位英雄杀死了那最卑劣的罗刹及其部众,把悉多带回了自己的城邦,并在世人之中确立了自己的名声。

3.152.22

तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः ।
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः ॥ ३.१५२.२२ ॥

故此,大智者啊,致力于兄长所爱之利益的人,去吧。这条为风所护的道路,安全而平稳。

3.152.23

एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते ।
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ॥ ३.१५२.२३ ॥

大呼卢族中最优秀的人,这条路将带你到娑康提迦林。在那里你会看到财神(俱毗罗)的园林,由夜叉与罗刹守护。

3.152.24

न च ते तरसा कार्यः कुसुमापचयः स्वयम् ।
दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ ३.१५२.२४ ॥

你也不可以强行亲手采摘花朵,因为属于诸神之物,尤其是人,应当敬重。

3.152.25

बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ ।
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ॥ ३.१५२.२५ ॥

婆罗多之牛啊,以供品、祭祀、礼敬与咒语,诸神因虔敬而确实欢喜,婆罗多啊。

3.152.26

मा तात साहसं कार्षीः स्वधर्मं परिपालय ।
स्वधर्मस्थापनं धर्मं बुध्यस्वागमयस्व च ॥ ३.१५२.२६ ॥

亲爱的,不要鲁莽行事;守护你自己的法。要懂得确立自己的法即是法,并且等待时机。

3.152.27

न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च ।
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि ॥ ३.१५२.२७ ॥

若不知法,又不侍奉长者,即使是与布利诃斯帕蒂相等的人也无法了解法。

3.152.28

अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः ।
स विज्ञेयो विभागेन यत्रमुह्यन्त्यबुद्धयः ॥ ३.१५२.२८ ॥

凡称非法为法、称法为非法之处,应以细致的辨别去认知;愚昧之人正是在那里迷惑。

3.152.29

आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः ।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥ ३.१५२.२९ ॥

法源于正行;由法而生吠陀;由吠陀而生祭祀;由祭祀而诸神得以确立。

3.152.30

बृहस्पत्युशनःप्रोक्तैर्नयैर्धार्यन्ति मानवाः ॥ ३.१५२.३० ॥

人类依靠布利诃斯帕蒂与乌尚那所传授的政治原则而得以维持。

3.152.31

बल्याकरवणिज्याभिः कृष्यर्थैर्योनिपोषणैः ।
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ॥ ३.१५२.३१ ॥

以赋税、矿业、贸易、农耕与畜牧,通过生计(vārtā)维持一切;二生族以这些本分行之。

3.152.32

त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् ।
ताभिः सम्यक्प्रवृत्ताभिर्लोकयात्रा विधीयते ॥ ३.१५२.३२ ॥

三明(吠陀)、生计(vārtā)与刑政之学——这三种学问属于知者;若善加奉行,世间之行便得以规范。

3.152.33

सा चेद्धर्मकृता न स्यात्रयीधर्ममृते भुवि ।
दण्डनीतिमृतेचापि निर्मर्यादमिदं भवेत् ॥ ३.१५२.३३ ॥

若此秩序不依于法,且世间既无三明之法,亦无刑政之学,则此世将失去分寸、无所约束。

3.152.34

वार्ताधर्मे ह्यवर्तिन्यो विनश्येयुरिमाः प्रजाः ।
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः ॥ ३.१५२.३४ ॥

若不遵行生计之法,这些臣民必将灭亡;唯有三者善加奉行,臣民方能兴旺。

3.152.35

द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णकः ।
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः ॥ ३.१५२.३५ ॥

二生族的不朽之法只有一种,属于同一种姓;祭祀、诵习、布施这三者,被称为共通之事。

3.152.36

याजनाध्यापने चोभे ब्राह्मणानां परिग्रहः ।
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् ॥ ३.१५२.३६ ॥

婆罗门之事:为人主持祭祀与教授,并受施舍;刹帝利之事:护佑众生;吠舍之法:养育。

3.152.37

शुश्रूषा च द्विजातीनां शूद्राणआं धर्म उच्यते ।
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिताः ॥ ३.१५२.३७ ॥

侍奉再生者,据说是首陀罗的本分;他们不行乞、不行火祭、不持誓戒,同样也是住在师长身边。

3.152.38

क्षत्रधर्मोऽत्रकौन्तेय तव धर्मोऽत्र रक्षणम् ।
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः ॥ ३.१५२.३८ ॥

孔提之子啊,此处武士之法便是你的法,此处守护便是你的职责。谦逊并克制诸根,承担你自己的本分吧。

3.152.39

वृद्धैः संमन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः ।
आस्थितः शास्तिदण्डेन व्यसनी परिभूयते ॥ ३.१५२.३९ ॥

君王与长者、善人及博学智者商议之后,依靠刑罚之杖而立,便不会被击败;而沉溺恶习者则被击败。

3.152.40

निग्रहानुग्रहैः सम्यग्यदा नेता प्रवर्तते ।
तदा भवन्ति लोकस्य मर्यादाः सुव्यवस्थिताः ॥ ३.१५२.४० ॥

当君主以惩罚与恩惠恰当地施政时,世界的秩序便得以良好地确立。

3.152.41

तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च ।
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा ॥ ३.१५२.४१ ॥

因此,对于国土、城堡以及敌友的军队,应当时常通过间谍了解其所处的形势、增长与衰落。

3.152.42

राज्ञामुपायश्चारश्च बुद्धिमन्त्रपराक्रमाः ।
निग्रहप्रग्रहौ चैव दाक्ष्यं वै कार्यसाधकम् ॥ ३.१५२.४२ ॥

对于君王而言,谋略与间谍、智慧、谋划与勇力、收束与推进,以及真正的才干,正是成就事业的手段。

3.152.43

साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।
साधनीयानि कार्याणि समासव्यासयोगतः ॥ ३.१५२.४३ ॥

以和解、赠予、离间、惩罚与置之不理,并依简略与详尽之道妥善施行,事务便当成办。

3.152.44

मन्त्रमूला नयाः सर्वेचाराश्च भरतर्षभ ।
सुमन्त्रितनयैः सद्भिस्तद्विधैः सह मन्त्रयेत् ॥ ३.१५२.४४ ॥

婆罗多之雄啊,一切策略与密探皆以谋议为根本;应与善于谋划的贤士及同类人共同商议。

3.152.45

स्त्रिया मूढेन बालेन लुब्धेन लघुनाऽपि वा ।
न मन्त्रयीत गुह्यानि येषु चास्पनदलक्षणम् ॥ ३.१५२.४५ ॥

不可与妇人、愚人、孩童、贪婪或轻浮之人商议秘事,尤其是有需隐瞒之征兆的事情。

3.152.46

मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् ।
स्निग्धैश्च नीतिविन्यासैर्मूर्खान्सर्वत्र वर्जयेत् ॥ ३.१५२.४६ ॥

应与智者商议,令有能力者执行事务,任用慈爱且善于安排政策之人;愚人则处处避开。

3.152.47

धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् ।
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु ॥ ३.१५२.४७ ॥

应以正直之人主持法务,以智者主持财务;以阴柔之人管理妇人之事,以残酷之人执行残酷之事。

3.152.48

स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा ।
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् ॥ ३.१५२.४८ ॥

由所当为与所不当为而生的智慧,须于行事中从亲近与外人处察知;敌人的强弱亦当知晓。

3.152.49

बुद्ध्या स्वप्रतिपन्नेषु कुर्यात्साधुष्वनुग्रहम् ।
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् ॥ ३.१५२.४९ ॥

君王应以明智,对循守本分的善人施以恩惠,对不守规矩、无所约束的人施以惩戒。

3.152.50

निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते ।
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ॥ ३.१५२.५० ॥

君王若能在惩戒与奖励两方面都行得其宜,那么世间的秩序便得以稳固确立。

3.152.51

एष तेऽभिहितः पार्थ घोरो धर्मो दुरन्वयः ।
तं स्वधर्मविभागेन विनयस्थोऽनुपालय ॥ ३.१५२.५१ ॥

阿周那啊,这严峻而难以践行的法已向你宣说。你应安住于谦逊,依照各自本分的区分来守护它。

3.152.52

तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् ।
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् ॥ ३.१५२.५२ ॥

婆罗门以苦行、法、克制与祭祀而升天;吠舍则以布施与待客之法而得善趣。

3.152.53

द्विजशुश्रूषया शूद्रा लभन्ते गतिमुत्तमाम् ।
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः ॥ ३.१५२.५३ ॥

奉事再生族者,首陀罗得到至高的归宿;刹帝利亦因在世间行使惩戒与守护,而同样升入天界。

3.152.54

सम्यक्प्रणीतदण्डा हि कामद्वेपविवर्जिताः ।
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकतां ॥ ३.१५२.५४ ॥

善于行使惩罚、离于贪爱与憎恶、无所贪求且无愤怒者,得到善人的世界。