Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.153

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.153.1

ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् ।
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ ३.१५३.१ ॥

随后,这只猴子收敛了它随意增大的巨大身形,再次用双臂拥抱了毗摩森。

3.153.2

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत ।
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ ३.१५३.२ ॥

婆罗多之后啊,毗摩被那位兄长迅速拥抱后,疲劳便消失了,一切都变得吉祥。

3.153.3

बलं चातिबलो मेने न मेऽस्ति सदृशो महान् ।
ततः पुनरथोवाच पर्यश्रुनयनो हरिः ॥ ३.१५३.३ ॥

大力者心想自己的力量:‘没有一个伟大者能与我相比。’随后,那只猴子眼中含泪,再次开口说话。

3.153.4

भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा ।
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे ॥ ३.१५३.४ ॥

他怀着亲情称呼毗摩,哽咽着说:‘英雄啊,回你的住处去吧。在另一段叙述中,你要记得我。’

3.153.5

इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित् ।
धनदस्यालयाच्चापि विसृष्टानां महाबल ॥ ३.१५३.५ ॥

库鲁之最啊,你在此地时,不要向任何人透露我的身份。大力者啊,从财神(毗沙门)的居所所派遣来的人,也遵循此规。

3.153.6

एष काल इहायातुं देवगन्धर्वयोषिताम् ।
ममापि सफलं च क्षुः स्मारितश्चास्मि राघवम् ॥ ३.१५३.६ ॥

这正是诸天与乾闼婆之女前来此处的时节。我的使命也已有成果,并使我想起了罗伽婆(罗摩)。

3.153.7

रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम् ।
सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ॥ ३.१५३.७ ॥

名为罗摩的毗湿奴,世界心灵的喜悦,悉多莲花面容的太阳,驱散十首者黑暗的太阳。

3.153.8

मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह ।
तदस्मद्दर्शनं वीर कौन्तेयामाघमस्तु ते ॥ ३.१५३.८ ॥

毗摩啊,披上人身与你同行,去见我们吧,英雄;愿你平安无恙,贡蒂之子。

3.153.9

भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत ।
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ॥ ३.१५३.९ ॥

婆罗多啊,以兄弟之情为念,请求一个恩赐。若我前往名为婆罗那婆的城市,将那些卑劣之人……

3.153.10

धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् ।
शिलया नगरं वा तन्मर्दितव्यं मया यदि ॥ ३.१५३.१० ॥

持国之子应当被杀,只要我如此行动;或者那座城市应当被石头碾碎,若我……

3.153.11

बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम् ।
यावदेतत्करोम्यद्यकामं तव महाबल ॥ ३.१५३.११ ॥

今日我将缚住难敌,带到你面前;今日我为你满足心愿,大力者啊。

3.153.12

भीमसेनस्तु तद्वाक्यं श्रुत्वा तस् महात्मनः ।
प्रत्युवाच हनून्तं प्रहृष्टेनान्तरात्मना ॥ ३.१५३.१२ ॥

然而毗摩森那听了那位大德的话,心中欢喜,便回答哈奴曼。

3.153.13

कृतमेव त्वया सर्वं मम वानरपुङ्गव ।
स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीदमे ॥ ३.१५३.१३ ॥

猴中之王啊,你已为我做了一切。大臂者啊,愿你安好;我希望你心情愉悦。

3.153.14

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् ।
तवैव तेजसा सर्वान्विजेष्यामो वयं परान् ॥ ३.१५३.१४ ॥

大力者啊,有你这样的保护者,般度之子们都有了依靠。凭借你的光辉,我们将战胜所有敌人。

3.153.15

एवमुक्तस्तु हनुमान्भीमसेनमभाषत ।
भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव ॥ ३.१५३.१५ ॥

如此被称呼后,哈努曼对婆罗摩斯那说:出于兄弟之情与友爱,我必定会做你所喜爱的事。

3.153.16

चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम् ।
यदा सिंहरवं वीर करिष्यसि महाबल ॥ ३.१५३.१६ ॥

英雄啊,大力者啊,当你冲入敌军——那里长矛密布——并发出狮子般的吼声时——

3.153.17

तदाहं बृंहयिष्यामि स्वरवेण रवं तव ।
यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे ॥ ३.१५३.१७ ॥

那时我将以自己的吼声放大你的吼声,闻者的敌人将在战场上丧失生命。

3.153.18

विजयस्य ध्वजस्थश्च नादान्मोक्ष्पामि दारुणान् ।
शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ ॥ ३.१५३.१८ ॥

我将立于胜利的旗帜之上,发出可夺取敌人性命的恐怖吼声,借此你便能轻易地将他们杀死。

3.153.19

एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम् ।
मार्गमाख्याय भीमाय तत्रैवान्तरधीयत ॥ ३.१५३.१९ ॥

说完这些,般度之子的喜悦者哈努曼为坚战之弟怖军指明道路,随即便在那里消失了。

3.153.20

गते तस्मिन्हरिवरे भीमोपि बलिनांवरः ।
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ ३.१५३.२० ॥

那位最优秀的猴子离去后,最强者之中的最优者般度之子怖军也沿着那条路,在广阔的乾陀摩陀那山中漫游。

3.153.21

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि ।
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ ३.१५३.२१ ॥

他追念那位的形貌与大地上无与伦比的光辉,又想起十车王之子的伟大与威力,便继续前行。

3.153.22

स तानि रमणीयानि वनान्युपवनानि च ।
विलोलयामास तदा सौगन्धिकवनेप्सया ॥ ३.१५३.२२ ॥

他渴望得到那片妙香花林,便在那些可爱的林木与园林中四处搜寻。

3.153.23

फुल्लपद्मविचित्राणि सरांसि सरितस्तथा ।
नानाकुसुमचित्राणि पुष्पितानि वनानि च ॥ ३.१५३.२३ ॥

盛开的莲花点缀得五彩斑斓的湖泊与河流,还有开满各色繁花、绚丽多彩的林木。

3.153.24

मत्तवारणयुथानि पङ्कक्लिन्नानि भारत ।
वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ ३.१५३.२४ ॥

婆罗多啊,他那时看见一群群发狂的象群,满身泥泞,宛如降雨的云团。

3.153.25

हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम् ।
सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ ॥ ३.१५३.२५ ॥

他在路上看见森林里满是目光灵动的鹿与母鹿,它们口中衔着嫩草,这位光辉的人便疾步前行。

3.153.26

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् ।
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ ३.१५३.२६ ॥

毗摩先那无所畏惧,凭借勇武,踏入了水牛、野猪和老虎栖息的那座山。

3.153.27

कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः ।
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ ३.१५३.२७ ॥

仿佛在森林里被树木恳求一般,那些枝条因花朵而低垂,铜红色的嫩芽柔软,在风中颤动。

3.153.28

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः ।
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ ३.१५३.२८ ॥

沿路穿过莲池,莲花如合掌,醉蜂围绕其间,岸边与林园皆令人喜爱。

3.153.29

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु ।
द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः ॥ ३.१५३.२९ ॥

心思与目光牢牢系在山间盛开的山峰上,以德劳帕蒂的话语为旅途资粮,毗摩以其可怖的勇武前行。

3.153.30

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने ।
काञ्चनैर्विलैः पद्मैर्ददर्श विपुलां नदीम् ॥ ३.१५३.३० ॥

此后日色西斜,在鹿群散布的森林中,他看见一条宽阔的河流,河中有金色的莲花与莲茎。

3.153.31

हंसकारण्डवयुतां चक्रवाकोपशोभिताम् ।
रचितामिव तस्याद्रेर्भालां विमलपङ्कजाम् ॥ ३.१५३.३१ ॥

那条河流淌着天鹅与迦兰达瓦鸭,装点着赤麻鸭,生着纯净的莲花,仿佛被安置在那座山的额头上。

3.153.32

तस्यां नद्यां महासत्वः सौगन्धिकवनं महत् ।
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ ३.१५३.३२ ॥

在那河中,这位大勇者看见一大片芬芳的莲林,令人欢喜,光彩如初升的太阳。

3.153.33

तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः ।
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥ ३.१५३.३३ ॥

看见此景,心愿得偿的般度之子,便在心中前往那因林中流放而受苦的爱人身边。