摩诃婆罗多 · 章 3.157
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.157.1
तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः ।
आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान् ॥ ३.१५७.१ ॥
法王坚战居住于彼处,召集了聚集的兄弟和婆罗门,于是说道。
3.157.2
दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च ।
मनसो ह्लादनीयानि वनानि च पृथक्पृथक् ॥ ३.१५७.२ ॥
我们分别见过圣洁吉祥的渡口,以及令心欢喜的森林。
3.157.3
देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः ।
यथाक्रममशेषेण द्विजैः संपूजितानि च ॥ ३.१५७.३ ॥
往昔诸神与大德仙人曾经游历,婆罗门也依次完整地供奉礼敬。
3.157.4
ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम् ।
राजर्षीणां च चरितं कथाश्च विविधाः शुभाः ॥ ३.१५७.४ ॥
诸仙往昔的行止、苦行与法的修持,王仙的事迹,以及种种吉祥的故事。
3.157.5
शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च ।
अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः ॥ ३.१५७.५ ॥
在吉祥的修行处到处听取故事,他们与婆罗门一起,特别举行了灌顶净浴。
3.157.6
अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः ।
यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः ॥ ३.१५७.६ ॥
你们总以鲜花和清水供奉诸神,并以所得的根茎果实使祖先得到满足。
3.157.7
पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च ।
उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः ॥ ३.१५७.७ ॥
在山岳、一切可爱的湖泊以及极其神圣的海洋中,为大德之人所沐浴洁净。
3.157.8
इला सरस्वती सिन्धुर्यमुना नर्मदा तथा ।
नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः ॥ ३.१५७.८ ॥
伊拉、萨拉斯瓦蒂、信度、亚穆纳和那尔玛达,以及众多可爱的圣渡口,与再生者一同被洁净。
3.157.9
गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः ।
हिमवान्पर्वतश्चैव नानाद्विजगणायुतः ॥ ३.१५७.९ ॥
越过恒河门后,有许多吉祥的山脉,还有雪山,充满了众多再生者的群体。
3.157.10
विशाला बदरी दृष्टा नरनारायणाश्रमः ।
दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता ॥ ३.१५७.१० ॥
看见了毗舍罗和巴达利,看见了那罗与那罗衍那的修行处,也看见了被成就者、天神和仙人所礼拜的神圣莲池。
3.157.11
यथाक्रमविशेषेण सर्वाण्यायतनानि च ।
दर्शितानि द्विजेनद्रेण लोमशेन महात्मना ॥ ३.१५७.११ ॥
依次且特别地,大德的罗摩莎向他展示了一切圣所,他是再生者中的首位。
3.157.12
इमं वैश्रवणावासं दुर्गमं गन्धमादनम् ।
कथं भीम गमिष्यामो मतिरत्र विधीयताम् ॥ ३.१५७.१२ ॥
这是毗沙罗婆那(俱毗罗)的居所,难以到达的乾陀摩陀那山。婆罗多后裔啊,我们该如何前往?请在此决定。
3.157.13
एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी ।
न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः ॥ ३.१५७.१३ ॥
当王中之王如此说时,一个无形的声音说道:“乾陀摩陀那山难以到达,不可前往。”
3.157.14
अननैव पथा राजन्प्रतिगच्छ यथागतम् ।
नरनारायणस्थानं बदरीत्यभिविश्रुतम् ॥ ३.१५७.१४ ॥
国王啊,请沿着你来时的路返回。那纳罗与纳罗衍那的住所,以“菩提树”之名闻名。
3.157.15
तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम् ।
बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः ॥ ३.१५७.१५ ॥
因此,贡提之子啊,你将前往伐沙波伐那那可爱的修道院,那里有悉陀与遮罗那常来,花果繁盛。
3.157.16
अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः ।
ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च ॥ ३.१५७.१६ ॥
普利塔之子啊,越过那里后,你应住在阿尔什提舍那的修道院;然后,贡提之子啊,你将看见财神(俱毗罗)的居所。
3.157.17
एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः ।
भनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै ॥ ३.१५७.१७ ॥
此时,一阵吉祥的清风吹起,带着天界的香气,清凉而令人心悦;果然,天降花雨。
3.157.18
तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत ।
ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः ॥ ३.१५७.१८ ॥
听到从天空传来的那神圣之声,惊奇随之而生——尤其是在仙人、婆罗门和诸王之中。
3.157.19
श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत ।
न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव ॥ ३.१५७.१९ ॥
婆罗门仙人达乌摩听到这一大奇事后说道:"般度之子啊,不可再往前去,我们回去吧。"
3.157.20
ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः ।
प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ॥ ३.१५७.२० ॥
于是国王坚战怀着惊异睁大双眼,再次返回那座那罗与那罗延的修行林。
3.157.21
भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः ।
पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा ॥ ३.१५७.२१ ॥
那时,他被怖军等所有兄弟、般遮罗公主以及婆罗门们环绕,在那里非常安乐地居住。