Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.158

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.158.1

ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् ।
पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ॥ ३.१५८.१ ॥

那时,般度之子们充满信任地与婆罗门一同住在山王之上,期盼着阿周那(Pārtha)的到来,

3.158.2

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च ।
रहितान्मीमसेनेन कदाचित्तान्यदृच्छया।
जहार धर्मराजं वै यमौ कृष्णां च राक्षसः ॥ ३.१५८.२ ॥

那些罗刹以及婆罗多之子(Bhīmasena之子)也离去之后,一次,在无Bhīmasena陪伴时,那罗刹偶然劫走了法王、双生子和克利须那(德劳帕蒂)。

3.158.3

ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः ।
जहार चित्रं भीमश्च गतो राक्षसकण्टकः।
वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ ॥ ३.१५८.३ ॥

婆罗门啊,那罗刹是如何劫走法王、双生子和克利须那的?荆棘般令罗刹畏惧的Bhīma已经离去,这真是奇怪。婆罗门中最优秀者,无罪者啊,请把这事清楚地告诉我。

3.158.4

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः ।
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा ।
परीप्समानः पार्थानां कलापांश्च धनूंषि च ॥ ३.१५८.४ ॥

一位精通咒语、通晓一切兵器的婆罗门,一边这样说着,一边每天侍奉般度之子,想要获得Pārtha们的箭袋与弓。

3.158.5

अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति ।
दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः ॥ ३.१५८.५ ॥

那个心术邪恶、居心不良的人,寻找劫持德劳帕蒂的机会,名叫遮陀苏罗(Jaṭāsura)。

3.158.6

पोषणं तस् राजेनद्र चक्रे पाण्डवनन्दनः ।
बुबुधे न च तं पापं भस्मच्छन्नमिवानलम् ॥ ३.१५८.६ ॥

君王之主啊,般度之子养育了他,却没有察觉那个邪恶之人,就像灰烬覆盖下的火。

3.158.7

स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे ।
घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः ॥ ३.१५८.७ ॥

降伏敌人者啊,当比玛塞那外出狩猎时,他看见迦陀迦之与其随从四散奔逃。

3.158.8

लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान् ।
स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान् ॥ ३.१५८.८ ॥

他看见以洛摩莎为首的那些专注的大仙人,以苦行为财富,外出沐浴和采花。

3.158.9

रूपमन्यत्समास्थाय विकृतं भैरवं महत् ।
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च।
प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् ॥ ३.१५८.९ ॥

那极其邪恶的人变作另一种丑陋而可怖的形体,取了所有兵器,抓住德罗巴蒂,又擒住三位般度子,便出发了。

3.158.10

विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः ।
आक्रन्दद्भीमसेन वै येन यातो महाबलः ॥ ३.१५८.१० ॥

他挥舞考希迦剑冲上前,从敌人手中解救了他们,高呼:“比玛塞那啊!”,朝着那位大力者离去的方向。

3.158.11

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः ।
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे ॥ ३.१५८.११ ॥

当他被带走时,法王坚战对他说:“愚人啊!你的法正在衰减,而你却不加审视。”

3.158.12

येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये ।
धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः ॥ ३.१५८.१२ ॥

人类中在某处的其他人,以及投生为畜类的众生,都注视着法;尤其是罗刹们。

3.158.13

धर्मस्यराक्षसा मूलं धर्मं ते विदुरुत्तमम् ।
एतत्परीक्ष्यसर्वं त्वं समीपे स्थातुमर्हसि ॥ ३.१५८.१३ ॥

罗刹知道法的根本,他们视法为至上。你应当审察这一切,并亲近于法。

3.158.14

देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस ।
गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा ॥ ३.१५८.१४ ॥

罗刹啊,诸天、仙人、成就者和祖先亦然;乾闼婆、蛇、罗刹、鸟类和兽类也是如此。

3.158.15

तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः ।
मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि ॥ ३.१५८.१५ ॥

即使是投生为畜类的众生,甚至蝼蚁,也依靠人类而生存;因此你也得以生存。

3.158.16

समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति ।
इमं च लोकं शोचन्तमनुशोचन्ति देवताः।
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि ॥ ३.१५८.१६ ॥

你们的世界因那个世界的兴盛而兴盛;诸神为这悲伤的世界而悲伤;当他们依照仪轨以供奉和祭品受到尊崇时,便会增长。

3.158.17

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस ।
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् ॥ ३.१५८.१७ ॥

罗刹啊,我们是国家的守护者和保卫者。国家若无守护,何来繁荣,何来安乐?

3.158.18

न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि ।
अनुरप्यपचारश्च नास्त्यस्माकं नराशन ॥ ३.१५८.१८ ॥

噬人者啊,无辜之王绝不可被罗刹轻慢;而我们这边连丝毫过错都没有。

3.158.19

विघसाशान्यथाशक्त्या कुर्महे देवतादिषु ।
गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा ॥ ३.१५८.१९ ॥

我们食残余之物,依照自身能力供奉诸神等;并且始终依循典范,尊敬师长与婆罗门。

3.158.20

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।
येषां चान्नानि भुञ्जीत यत्रच स्यात्प्रतिश्रयः ॥ ३.१५८.२० ॥

对于朋友和信任我们的人,那些我们食其食物、在其处得庇护之人,绝不可背叛。

3.158.21

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः ।
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि ॥ ३.१५८.२१ ॥

你在我们的住处受到尊敬,安乐居住,吃过我们的食物。愚昧之人啊,你怎能想要夺走我们?

3.158.22

एवमेव वृथाचारो वृथा वृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाऽद्य नमविष्यसि ॥ ३.१५८.२२ ॥

你行为虚妄,徒然年老,见识虚空;你应得一场虚妄的死亡,今日你将徒然低头。

3.158.23

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः ।
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर ॥ ३.१५८.२३ ॥

若你心怀恶念,抛弃了一切法义,那就交出我们的武器,以战斗带走德罗波蒂。

3.158.24

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि ।
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं ॥ ३.१५८.२४ ॥

若你不明此理而行此事,你在世间将只得非法与恶名。

3.158.25

एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् ।
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया ॥ ३.१५८.२५ ॥

罗刹啊,今日你抓住这个人间女子,将毒药充分搅拌,从瓮中饮下了它。

3.158.26

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत ।
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् ॥ ३.१५८.२६ ॥

于是坚战因负重而沉重;心神为重担所压,他不再像先前那样迅捷。

3.158.27

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः ।
मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता ॥ ३.१५८.२७ ॥

于是坚战对德罗波蒂与那库拉说:"不要怕那愚昧的罗刹;我已夺去了他的行动之力。"

3.158.28

नातिदूरे महबाहुर्भविता पवनात्मजः ।
अस्मिन्मुहूर्ते संप्राप्ते नभविष्यति राक्षसः ॥ ३.१५८.२८ ॥

大臂的风之子(怖军)不会远去;此刻到来之时,那罗刹将不复存在。

3.158.29

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् ।
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् ॥ ३.१५८.२९ ॥

然而,萨诃提婆见那心智迷惑的罗刹,大王啊,便对贡蒂之子坚战说了这番话。

3.158.30

राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् ।
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा ॥ ३.१५८.३० ॥

大王啊,刹帝利还有比这更崇高的职责吗?在战场上面对敌人,或舍弃生命,或战胜敌人。

3.158.31

एष वास्मान्वयं वैनं युध्यमानाः परंतप ।
सूदयेम महाबाहो देशः कालो ह्ययं नृप ॥ ३.१५८.३१ ॥

征服敌人者啊,大臂者啊!让他杀我们,或者我们在战斗中杀他。大王啊,此地正是,此时正是。

3.158.32

क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम ।
जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥ ३.१५८.३२ ॥

真正勇猛的人啊!刹帝利之职责的时刻已经到来。无论胜利还是被杀,我们都配获得善趣。

3.158.33

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि ।
नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत ॥ ३.१५८.३३ ॥

婆罗多的后裔啊!若今日太阳落下,而罗刹仍然活着,我将再也不说:“我是刹帝利。”

3.158.34

भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः ।
हत्वा रवा मां नयस्वैनां हतो वा स्वप्स्यसीह वै ॥ ३.१५८.३४ ॥

喂,罗刹,站住!我是般度之子萨哈提婆。杀了我再把她带走,否则你将死在这里长眠。

3.158.35

तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया ।
प्रादृश्यत महाबाहुः सवज्र इव वासवः ॥ ३.१५८.३५ ॥

当玛德里之子这样说话时,大臂的毗摩森那偶然出现,犹如持金刚杵的因陀罗(婆娑伐)。

3.158.36

सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम् ।
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा ॥ ३.१५८.३६ ॥

那时,他看见了那里的兄弟们、光荣的德罗巴蒂,躺在地上的偕天,以及正在抛掷他们的罗刹。

3.158.37

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् ।
भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम् ॥ ३.१५८.३७ ॥

那罗刹迷失了道路,愚昧无知,心智被时间摧毁,被命运迷惑,四处游荡。

3.158.38

हृतान्संदृश्य तान्भ्रातृन्द्रौपदीं च महाबलः ।
क्रोधमाहारयद्भीमो राक्षसंचेदमब्रवीत् ॥ ३.१५८.३८ ॥

大力的婆罗奉见兄弟与德罗巴蒂被掳走,便生起愤怒,对罗刹说了这些话。

3.158.39

विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे ।
आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा ॥ ३.१५८.३९ ॥

往昔试验兵器时我便认出了你;但我对你并无敬意,因为当时我也没有杀死你。

3.158.40

ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् ।
प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्।
ब्रह्मरूपेण विहितं नैव हन्यामनागसम् ॥ ३.१५८.४० ॥

你隐藏在婆罗门的形态中,对我们说的并非不悦耳的话;你沉浸于所爱之事,也并未做不悦之事。我不会杀害以婆罗门之身出现、无罪的人。

3.158.41

राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत् ।
अपक्वस्य च कालेन वधस्तव न विद्यते ॥ ३.१५८.४१ ॥

明知是罗刹而杀之者,将堕入地狱;而你尚未因时机成熟,故无死亡之期。

3.158.42

नूनमद्यासि संपक्वो यथा ते मतिरीदृशी ।
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा।
सोपि कालं समासाद्य तथाऽद्य नभविष्यसि ॥ ३.१५८.४२ ॥

你now确实已成熟,你的心意便是如此。在劫持黑天之女时,那行奇迹的时间已赋予此;它到了它的时候,今日也将不再。

3.158.43

बडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः ।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि ॥ ३.१५८.४३ ॥

这钓钩你已吞下,悬于时间之线,如水中缝口的鱼。今日你将如何离去?

3.158.44

यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते ।
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः ॥ ३.१५८.४४ ॥

你所出发前往的那片土地,你的心早已先去的那里,你将不会到达;你将走上Baka与Hiḍimba的道路。

3.158.45

एवमुक्तस्तु भीमेन राक्षसः कालचोदितः ।
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः ॥ ३.१५८.४५ ॥

毗摩如此说,被时间驱使的罗刹恐惧,舍弃了他们所有人,前来准备迎战。

3.158.46

अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः ।
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् ॥ ३.१५८.४६ ॥

他又因愤怒而嘴唇颤抖,对毗摩说:'作恶者,我的方向并未迷惑;我的延误是因为你。'

3.158.47

श्रुता मे राक्षसा ये ये त्वया विनिहता रणे ।
तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम् ॥ ३.१५८.४७ ॥

我听说你在战场上杀死的那些罗刹;今天我将用你自己的兵器为他们行奠水之礼。

3.158.48

एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ ।
करालवदनः क्रोधात्कालसर्प इव श्वसन् ॥ ३.१५८.४८ ॥

如此说罢,那罗刹便来与毗摩交战,面目狰狞,因愤怒而嘶嘶作响,如同死亡之蛇。

3.158.49

एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन् ।
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः ॥ ३.१५८.४९ ॥

听罢此言,毗摩舔着嘴角,似因愤怒而笑,宛如时间的终结者、死神本人。

3.158.50

ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः ।
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् ॥ ३.१५८.५० ॥

高呼"站住,站住!",怒目赤红,唯欲施展双臂之力,毗摩便向罗刹扑去。

3.158.51

मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन् ।
अभिदुद्राव संरब्धो बलो वज्रधरं यथा ॥ ३.१५८.५१ ॥

屡屡张开大口,舔着嘴角,怒气填胸的力士毗摩如持金刚的因陀罗一般扑去。

3.158.52

भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः ।
राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत ॥ ३.१५८.५२ ॥

毗摩森那也稳住身形,准备摔跤搏斗;罗刹则充满自信,渴望徒手相搏。

3.158.53

वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे ।
माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम् ॥ ३.१५८.५३ ॥

大王啊,当二人之间那场极其惨烈的徒手搏斗进行之时,玛德丽的两个儿子极为愤怒,朝他们冲了过去。

3.158.54

न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः ।
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् ॥ ३.१५८.५४ ॥

鲲提之子狼腹(Vṛkodara)笑着制止了他们二人,说道:「我有能力战胜这个罗刹,你们看着吧。」

3.158.55

आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च ।
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् ॥ ३.१५८.५५ ॥

大王啊,我以自身、以兄弟、以法、以善行与祭祀起誓:我必将杀死那罗刹。

3.158.56

इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् ।
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ ॥ ३.१५८.५६ ॥

说完这番话,两位彼此争胜的英雄便以双臂交锋:罗刹与狼腹。

3.158.57

तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः ।
अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव ॥ ३.१५८.५७ ॥

愤怒的毗摩与罗刹之间爆发了激烈的冲突,犹如战场上帝释与商跋罗彼此不能容忍对方的侮辱而搏斗一般。

3.158.58

तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम् ।
आरुज्यारुज्यतौ वृक्षानन्योन्यमभिजघ्नतुः।
जीमूताविव धर्मान्ते विनदन्तौ महाबलौ ॥ ३.१५८.५८ ॥

两位英雄怒不可遏,相互扑向对方。他们折断树木,彼此打击——犹如雨季将尽时轰鸣的两朵雷云,二人皆具大力。

3.158.59

बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ ।
अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ ॥ ३.१५८.५९ ॥

两位最强者以大腿折断了巨树,彼此怒火中烧,各自都想置对方于死地。

3.158.60

तद्वृक्षयुद्धमभवनमहीरुहविनाशनम् ।
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः ॥ ३.१५८.६० ॥

猴中双獅、兄弟二人瓦利與須羯裡婆的那場樹木之戰,像先前一樣摧毀了大樹。

3.158.61

आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् ।
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः ॥ ३.१५८.६१ ॥

二者片刻间反复挥舞树木,彼此相击,咆哮着一次又一次地打击。

3.158.62

तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः ।
पुगीकृताश्च शतशः परस्परवधेप्सया ॥ ३.१५८.६२ ॥

当那片地方的树木全部被砍倒、堆成数百堆时,二者心怀彼此相杀之念。

3.158.63

ततः शिलाः समादाय मुहूर्तमिव भारत ।
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ ॥ ३.१५८.६३ ॥

于是,婆罗多啊,二位大力者仿佛片刻间拿起巨石,如同两座山王伴着大云一般交战。

3.158.64

शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम् ।
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ ॥ ३.१५८.६४ ॥

二位不肯相让的勇士以狰狞巨石相击,其速如雷电霹雳,猛烈无比。

3.158.65

अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ ।
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव ॥ ३.१५८.६५ ॥

于是二人各自夸耀自己的力量,再度扑上,以双臂互相抓住,拉扯如同两头象。

3.158.66

मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः ।
ततः कटकटाशब्दो बभूव शुमहात्मनोः ॥ ३.१५८.६६ ॥

他们以可怕的拳头互相扑去,那两位大德之人身上发出了咔嗒咔嗒的声响。

3.158.67

ततः संहृत्यमुष्टिं तु पञ्चशीर्षमिवोरगम् ।
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् ॥ ३.१५८.६७ ॥

于是毗摩收紧拳头,如同五头蛇一般,猛力击打罗刹的颈项。

3.158.68

ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् ।
सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत ॥ ३.१५८.६८ ॥

毗摩赛那见那罗刹被毗摩赛那之臂所击,疲惫不堪,摇摇欲坠,便向他逼近。

3.158.69

तत एनं महाबाहुर्बाहुभ्याममरोपमः ।
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले ॥ ३.१५८.६९ ॥

于是那臂膀强壮、如同天神的毗摩,以双臂用力将他举起,把他压碎在地上。

3.158.70

ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः ।
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः।
अरत्निना चाभिहत्य शिरः कायादपाहरत् ॥ ३.१५८.७० ॥

于是怒火中烧的般度之子以双臂猛力挤压他,将他全身骨节都碾成粉末;又以前臂击打,将他的头从身上扯下。

3.158.71

संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम् ।
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम्।
पपात रुधिरादिग्धं संदष्टदशनच्छदम् ॥ ३.१५८.७१ ॥

遮陀苏罗的头颅,唇齿紧咬,双眼翻白,被毗摩赛那之力抓住,沾满鲜血,如树上坠落的果实一般落下。

3.158.72

तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत् ।
स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः ॥ ३.१५८.७२ ॥

他杀死了那个罗刹,这位大弓手走到坚战面前,受到婆罗门中最尊者的赞颂,如同因陀罗受到摩禄多们的赞颂。