摩诃婆罗多 · 章 3.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.16.1
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा ।
प्रभूतनरनागेन बलेनोपविवेश ह ॥ ३.१६.१ ॥
众王之主啊,于是娑利婆(Sālva)——薄舍城之主——来到那里,率领众多人马与战象扎营驻守。
3.16.2
समे निविष्टां सा सेना प्रभूतसलिलाशये ।
चतुरङ्गबलोपेता साल्वराजाभिपालिता ॥ ३.१६.२ ॥
那支军队驻扎在水源丰沛的平坦之地,配备四军兵种,并由娑利婆王守护。
3.16.3
वर्जयित्वा श्मशानानि देवतायतनानि च ।
वल्मीकांश्चैव चैत्यांश्च संनिविष्टमभूद्बलम् ॥ ३.१६.३ ॥
避开火葬场、神庙、蚁丘与圣坛,军队已经扎营。
3.16.4
अनीकानां विभागेन पन्थानः सुकृतास्तथा ।
प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप ॥ ३.१६.४ ॥
国王啊,撒尔瓦营中依军队各部所设的道路修筑得很好,其中第一条与第九条尤其如此。
3.16.5
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।
रथनागाश्वकलिलं पदातिजनसंकुलम् ॥ ३.१६.५ ॥
那支军队配备各种兵器,精通一切兵器,车、象、马密布,步兵众多拥挤。
3.16.6
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम् ।
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् ॥ ३.१६.६ ॥
那支军队拥有精神饱满、身体强健的兵力,具备英雄的特征,旗帜与铠甲五彩缤纷,战车与弓也各式各样。
3.16.7
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।
अभिसारयामास तदा वेगैन पतगेन्द्रवत् ॥ ३.१६.७ ॥
库鲁之后啊,人中雄牛啊,他在德瓦拉卡部署好军队,随即以如金翅鸟般的速度令其前进。
3.16.8
तदापतन्तं संदृश्य बलं साल्वपतेस्तदा ।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ ३.१६.८ ॥
那时,看见萨尔瓦王的军队前来攻击,毗舒尼族的王子们出战并与之交战。
3.16.9
असहन्तोऽभियानं तत्साल्वराजस्य कौरव ।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च रमहारथः ॥ ३.१६.९ ॥
库鲁之后啊,无法忍受萨尔瓦王的那次进攻,遮如德舍那、三波,以及大战车手普拉杜姆纳也出战。
3.16.10
ते रथैर्दंशिताः सर्वेविचित्राभरणध्वजाः ।
संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः ॥ ३.१६.१० ॥
他们全都乘坐战车、披甲戴盔,饰有各式装饰和旗幡,与萨尔瓦王的众多上等勇士交战。
3.16.11
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे ।
यीधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम् ॥ ३.१६.११ ॥
萨姆巴拿起弓,在战斗中兴致高昂地与萨尔瓦的大臣兼统帅克谢玛杜尔提交战。
3.16.12
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।
मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक् ॥ ३.१६.१२ ॥
婆罗多族之最,遮婆缚蒂之子向他倾泻出一场箭雨,如同千眼神降雨一般。
3.16.13
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।
क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः ॥ ३.१६.१३ ॥
那位统帅承受了猛烈的箭雨;大王啊,克谢玛度尔提如喜马拉雅山一般屹立不动。
3.16.14
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम् ।
मुमोच मायाविहितं शरजालं महत्तरम् ॥ ३.१६.१४ ॥
于是,王中之王啊,克谢玛度尔提亲自向萨姆巴射出一张由幻术所化、更为巨大的箭网。
3.16.15
ततो मायामयं जालं माययैव विदार्यसः ।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ ३.१६.१५ ॥
于是萨姆巴以幻术本身撕破那张幻网,并以千支箭矢倾注于他的战车之上。
3.16.16
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः ।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ ३.१६.१६ ॥
于是那位统帅克谢玛度尔提被萨姆巴的箭射中,备受折磨,乘着快马逃走了。
3.16.17
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ ३.१६.१७ ॥
当沙尔瓦的那位统帅逃走后,名为韦伽瓦的强大檀那婆向我的儿子发起了攻击。
3.16.18
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ ३.१६.१८ ॥
然而,王中之王啊,维里希尼族的荣耀萨姆巴虽被围攻,却如英雄般屹立,承受着那迅猛者的冲击。
3.16.19
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।
चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः ॥ ३.१६.१९ ॥
俱盧之子啊!那位英雄 Sāmba 以真實的勇力,猛然揮動並擲出迅捷的鐵棒 Vegavatī。
3.16.20
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि ।
वातरुग्णं इव क्षुण्णो जीर्णमूलोवनस्पतिः ॥ ३.१६.२० ॥
大王啊!被它击中的迅捷者倒在地上,就像被风折断、根部朽坏的树木。
3.16.21
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे ।
प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ ३.१६.२१ ॥
当那英雄般的大阿修罗被鐵棒击碎倒下后,我的儿子闯入大军,展开了战斗。
3.16.22
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।
महारथः समाज्ञातो महाराज महाधनुः ॥ ३.१६.२२ ॥
大王啊!与 Cārudeṣṇa 交战的达那婆名为 Vivindhya,是著名的大战车武士,大弓手。
3.16.23
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।
वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत् ॥ ३.१६.२३ ॥
大王啊,于是 Cārudeṣṇa 与 Vivindhya 之间爆发了激烈的战斗,正如往昔 Vṛtra 与 Vāsava 之间的那场。
3.16.24
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः ।
विनदन्तौ महाराज सिंहाविव महाबलौ ॥ ३.१६.२४ ॥
二人彼此怒火中烧,以箭相互射击,大王啊,如同雄狮般咆哮,皆是大力者。
3.16.25
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥ ३.१६.२५ ॥
于是鲁克米尼之子以大神兵咒念一支光如火日、能毁灭敌人的箭,搭在弦上。
3.16.26
स विविन्ध्याय सक्रोधः समाहूय महारथः ।
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ ३.१६.२६ ॥
那位大车士怒气冲冲地召唤毗文底耶;大王啊,我的儿子向他投掷,他便失去生命倒下了。
3.16.27
विविन्ध्यं निहृतं दृष्ट्वा तां च विक्षोभितां चमूम् ।
कामगेन स सौभेन साल्वः पुनरुपागमत् ॥ ३.१६.२७ ॥
见毗文底耶已被杀,那支军队已经混乱,沙利婆便带着随意飞行的娑部再度返回。
3.16.28
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।
दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ ३.१६.२८ ॥
那时,大臂者啊,多婆罗迦居民的全部军队见到站在娑部上的沙利婆降落到地面,便陷入了混乱。
3.16.29
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम् ।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥ ३.१६.२९ ॥
于是,俱卢子孙啊,大王,普罗迪尤姆那出去安定了那支军队,并对阿那尔多人说了这些话。
3.16.30
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।
निवारयन्तं संग्रामे बलात्सौभं सराजकम् ॥ ३.१६.३० ॥
你们都站住,你们都看着我在战斗中,我以武力阻止娑部及其国王。
3.16.31
अयं सौभपतेः सेनामायसैर्भुजगैरिव ।
धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः ॥ ३.१६.३१ ॥
诸位耶达瓦人,看哪:今日我以从执弓之臂射出的箭,如铁蛇一般,摧毁娑婆王的军队。
3.16.32
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।
मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ ३.१६.३२ ॥
放宽心,不要害怕:娑婆王今日将亡。那心怀恶念的人,被我打倒,将与娑婆一同毁灭。
3.16.33
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन ।
धिष्टितं तद्बलं द्वारि युयुधे च यथासुखम् ॥ ३.१६.३३ ॥
般度之子啊,当普罗颠那欢喜地如此说时,驻守门口的那支军队便从容作战。