摩诃婆罗多 · 章 3.161
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.161.1
आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः ।
पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः ॥ ३.१६१.१ ॥
在阿尔施提舍那的隐修林中,我的先祖们,即般度的诸位高尚之子,个个都具有神圣的威力。
3.161.2
कियन्तं कालमवसन्पर्वते गन्धमादने ।
किंच चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः ॥ ३.१६१.२ ॥
他们在乾陀摩陀那山上住了多久?那些大勇士、力量与勇武超群的人们都做了什么?
3.161.3
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ ३.१६१.३ ॥
那些住在那里的世界英雄、高尚之人,所能食用的食物是什么?请告诉我,善人中的最优者。
3.161.4
विस्तरेण च मे शंस भीमसेनपराक्रमम् ।
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ ३.१६१.४ ॥
请详细地告诉我怀抓有大力的怖军在那座喜马拉雅山上所做的一切英勇之事。
3.161.5
न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम ।
धनदाध्युषिते नित्यं वसतस्तत्र पर्वते ॥ ३.१६१.५ ॥
啊,再生者中最优秀的人,在那座由财神(俱毗罗)长久居住的山上,他们常驻之时,与药叉再无战斗。
3.161.6
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च ।
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत् ॥ ३.१६१.६ ॥
他们是否与毗沙门(俱毗罗)相遇过?因为正如阿尔施提舍那所说,财神常来那里。
3.161.7
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन ।
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ ३.१६१.७ ॥
哦,苦行富有者,我想详细听闻此事;聆听他们的事迹,我仍不满足。
3.161.8
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।
शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ ३.१६१.८ ॥
聆听这对自身有益的教诲后,婆罗多的雄牛们始终依照这位光辉无比者的命令而行,一如既往。
3.161.9
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ ३.१६१.९ ॥
食用适合圣贤的美味果实,也吃由纯净之箭射杀的鹿肉。
3.161.10
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ ३.१६१.१० ॥
还有在喜马拉雅山脊上所得的各种纯净蜂蜜。就这样,婆罗多的雄牛般般度之子住在了那里。
3.161.11
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् ।
शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत ॥ ३.१६१.११ ॥
就这样,他们住在那里,第五年到了,他们聆听罗摩沙所说的种种言辞。
3.161.12
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः ।
राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो ॥ ३.१६१.१२ ॥
说了一句“需要之时我会到来”,哦主人,迦托迦已先与所有罗刹一同离去了。
3.161.13
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् ।
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥ ३.१६१.१३ ॥
当那些大德居住在阿尔施提舍那的修道院时,许多个月过去了,他们不断目睹一件极为奇妙的事情。
3.161.14
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः ।
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥ ३.१६१.१४ ॥
与在那里游历和欢乐的般度之子一起,那些大福的仙人和歌者也都感到喜悦。
3.161.15
आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः ।
ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः ॥ ३.१६१.१५ ॥
心地纯净、恪守誓愿的仙人前来拜见般度五子;婆罗多族的俊杰啊,他们与之进行了神圣的交谈。
3.161.16
ततः कतिपयाहस्सु महाह्रदनिवासिनम् ।
ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत् ॥ ३.१६१.१६ ॥
过了几天,金翅鸟(迦卢荼)突然抓住了住在大湖中的那条威势赫赫的大蛇。
3.161.17
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।
ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम् ॥ ३.१६१.१७ ॥
大山震动,大树倾倒;一切众生与般度五子都目睹了这奇异之事。
3.161.18
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः ।
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ ३.१६१.१८ ॥
接着,从那座最殊胜的山峰之巅,一阵风吹向般度五子,把他们所有芬芳吉祥的花环都卷走了。
3.161.19
तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।
ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी ॥ ३.१६१.१९ ॥
在那里,般度五子与朋友们以及光荣的德罗波蒂看见了五色的神圣花朵。
3.161.20
भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ ३.१६१.२० ॥
于是黑天女在适当的时候,对坐在山中僻静处、安然而坐的大臂者怖军说了这些话。
3.161.21
सुपर्णानिलवेगेन श्वसनेन महाबलात् ।
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ ३.१६१.२१ ॥
以金翅鸟与风之速度,被强劲的疾风吹散的五色花朵纷纷飘落,婆罗多族的雄牛啊。
3.161.22
दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च ।
मदयन्तीव गन्धेन मनो मे भरतर्षभ ॥ ३.१६१.२२ ॥
这些色彩神圣、本身神圣、并散发神圣香气的花朵,似乎以芬芳让我的心神迷醉,婆罗多族的雄牛啊。
3.161.23
येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च ।
नश्यतीव मनोदुःखं ममेदं शत्रुतापन ॥ ३.१६१.२३ ॥
仅仅看见它们、触碰它们,闻到它们的芬芳,我心中的忧苦似乎就消失了,灭敌者啊。
3.161.24
ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः ।
देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया ॥ ३.१६१.२४ ॥
若以这样神圣、带着神圣香气的吉祥花朵供养诸神,我愿与你结合。
3.161.25
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम् ।
गन्धसंस्थानसंपन्नं मम मानसवर्धनम् ॥ ३.१६१.२५ ॥
人中之虎啊,这朵莲花尤其吉祥,具有芬芳与美丽,增益我的心意。
3.161.26
प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति ॥ ३.१६१.२६ ॥
虽然在一切世界面前显现,却没有向我显现。
3.161.27
वासुदेवसहायेन वासुदेवप्रियेण च ।
खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना ॥ ३.१६१.२७ ॥
以婆苏提婆为助伴,为婆苏提婆所爱,信守誓言的你那位大德兄长,在卡雯达瓦林中。
3.161.28
गन्धर्वोरगरक्षांसि वासवश्च पराजितः ।
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं ॥ ३.१६१.२८ ॥
乾闼婆、龙蛇与罗刹被击败,因陀罗亦被打败;凶猛的幻术者被杀,并获得了甘狄拔弓。
3.161.29
तवापि सुमहत्तेजो महद्बाहुबलं च ते ।
अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम ॥ ३.१६१.२९ ॥
你的威光也极为宏大,你臂膀的力量亦然,难以承受,不可抵御,勇武可与帝释匹敌。
3.161.30
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ ३.१६१.३० ॥
愿所有罗刹被你臂膀之力的威势所惊骇,离开此山,逃往十方,婆罗多的怖军啊!
3.161.31
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।
व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ ३.१६१.३१ ॥
愿你的朋友们摆脱恐惧与迷惑,观看那座最高山峰的顶端,它吉祥而佩戴着奇妙的花环。
3.161.32
एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः ।
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥ ३.१६१.३२ ॥
婆罗多之子毗摩啊,我的心久已如此专注:我愿依靠你臂膀的力量,去看那山峰的顶端。
3.161.33
इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम् ।
आनीयमानं क्षिप्रं वै त्वया भरतसत्तम ॥ ३.१६१.३३ ॥
人中之虎、婆罗多中最优者啊,我愿你迅速为我取来这样一朵花,就在我眼前。
3.161.34
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः ।
नामृष्यत महाबाहुः प्रहारमिवसद्गजः ॥ ३.१६१.३४ ॥
于是,仿佛被德罗波蒂所击,那位臂力强大、焚烧敌人的英雄无法忍受,正如良象不能忍受鞭打。
3.161.35
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः ।
मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः ॥ ३.१६१.३५ ॥
显现出般度之子:步态如狮如牛,光辉而慷慨,金色光芒,意志坚定,强壮,骄傲而威猛。
3.161.36
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।
सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः ॥ ३.१६१.३६ ॥
红眼、宽肩,有如发狂之象的威勇,狮牙,牛肩,挺立如一株新生的娑罗树。
3.161.37
महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः ।
रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन् ॥ ३.१६१.३७ ॥
大士,全身俊美,颈如螺贝,下颌宏大,手握金背之弓、剑与箭袋。
3.161.38
सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः ।
व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ ३.१६१.३८ ॥
如狮子奋起,如发情之象,去除恐惧与迷乱的勇士冲向山峰。
3.161.39
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।
ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम् ॥ ३.१६१.३९ ॥
众生见那般若如狮子、如发情之象走来,持剑执弓的般度之子。
3.161.40
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः ।
व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ ३.१६१.४० ॥
增添德劳帕迪的喜悦,执起大棒,无惧无迷的般度子进入了山王之中。
3.161.41
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३.१६१.४१ ॥
疲倦、怯懦、颓丧与嫉妒,从不加于摩多利溯之子般若。
3.161.42
तदेकायनमासाद्य विषमं भीमदर्शनम् ।
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥ ३.१६१.४२ ॥
于是他抵达唯一的路径,那险峻而令人畏惧的所在,这位大力者攀上了高如数株棕榈的山峰。
3.161.43
स किन्नरमहानागमुनिगन्धर्वराक्षसान् ।
हर्षयन्पर्वतस्याग्रमारुरोह महाबलः ॥ ३.१६१.४३ ॥
他使紧那罗、大蛇、仙人、乾闼婆和罗刹欢喜,随即攀上了山峰之巅。
3.161.44
ततो वैश्रवणावासं ददर्श भरतर्षभः ।
काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम् ॥ ३.१६१.४४ ॥
于是婆罗多族的雄牛看到了毗沙门天的居所,那里以金色与水晶的宫殿装饰。
3.161.45
प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः ।
सर्वरत्नद्युतिमता सर्वोद्यानवता तथा ॥ ३.१६१.४५ ॥
它四周环绕着金色的城墙,闪耀着一切宝石的光辉,并拥有各式各样的园林。
3.161.46
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना ।
द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना ॥ ३.१६१.४६ ॥
它高耸如山,装饰着瞭望塔和城垛,因门楼、拱门、排列的装饰与旗幡而光彩熠熠。
3.161.47
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः ।
वायुना धूयमानाभिः पताकाभिरलंकृतम् ॥ ३.१६१.४७ ॥
四周满是翩翩起舞的美女,并以随风飘动的旌旗装饰。
3.161.48
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना ।
पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ॥ ३.१६१.४८ ॥
他以弯曲的手臂抵住弓梢,带着疲倦凝望财神的城池。
3.161.49
मोदयनसर्वभूतानि गन्धमादनसंभवः ।
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ३.१६१.४९ ॥
生于乾陀摩陀山、承载一切香气的风,令一切众生欢喜,在那里非常宜人地吹拂。
3.161.50
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः ॥ ३.१६१.५० ॥
那里有各色光彩的奇妙树木,承托着奇异的花簇,难以想象,极为华美。
3.161.51
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम् ।
राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः ॥ ३.१६१.५१ ॥
罗刹王的居所,被宝石网环绕,装饰着奇异的花环,映入了婆罗多族的雄牛眼中。
3.161.52
गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः ।
भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः ॥ ३.१६१.५२ ॥
手持权杖、宝剑与弓,已置生死于度外,大臂的毗摩森那稳立如山。
3.161.53
ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम् ।
ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत् ॥ ३.१६१.५३ ॥
随即吹响海螺,使弓弦铮鸣、掌声响起,令敌人毛骨悚然,并使一切众生迷惑。
3.161.54
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः ।
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ ३.१६१.५४ ॥
于是夜叉、罗刹与乾达婆,毛发竖立,朝着从般度之子身边传来的那声响奔去。
3.161.55
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः ।
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ ३.१६१.५५ ॥
棍棒、铁杵、刀剑、长矛、投枪与斧头,被夜叉与罗刹的手臂高举,闪闪发光。
3.161.56
ततः प्रववृते युद्धं तेषां तस्य च भारत ॥ ३.१६१.५६ ॥
于是,婆罗多啊,他们与他之间爆发了战斗。
3.161.57
तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान् ।
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ ३.१६१.५७ ॥
他们以大幻术投掷的长矛、投枪与斧头,婆罗多以速度更为可怖的婆罗箭将其斩断。
3.161.58
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम् ।
शरैर्विव्याध गात्राणइ राक्षसानां महाबलः ॥ ३.१६१.५८ ॥
那位大力者以箭射穿了罗刹的身体,无论是在空中的,还是立于地上呼啸的。
3.161.59
शोणितस्य ततः पेतुर्घनानामिव भारत ।
गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः।
स लोहितमहावष्टिमभ्यवर्षन्महाबलः ॥ ३.१६१.५९ ॥
于是,婆罗多啊,鲜血如云中降下的雨水般倾泻;罗刹的身体四面涌出血流。那位大力者降下了一场巨大的血雨。
3.161.60
गदापरिघपाणीनां रक्षसां कायसंभवा ।
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ ३.१६१.६० ॥
手持棍棒与铁杵的罗刹之身,流出的血流四面八方涌出。
3.161.61
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम् ।
विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च ॥ ३.१६१.६१ ॥
可见药叉与罗刹被毗摩的臂力所掷兵器斩断的尸身与头颅。
3.161.62
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ ३.१६१.६२ ॥
众生看见被罗刹所遮蔽、令人喜爱的般度之子,如同太阳被云团遮掩。
3.161.63
स रश्मिभिरिवादित्यः शरैररिनिपातिभिः ।
सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ ३.१६१.६३ ॥
那大臂、有力、真正勇武的英雄,以击倒敌人的箭矢打击所有人,如同太阳的光芒。
3.161.64
अभितर्जयमानाश्च रुवन्तश् महारवान् ।
सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ ३.१६१.६४ ॥
众罗刹大声咆哮、恫吓,看见了毗摩森那的铠甲。
3.161.65
ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः ।
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ ३.१६१.६५ ॥
他们全身受伤,被毗摩森那的恐惧所折磨,大兵器散落,发出可怕的痛苦哀号。
3.161.66
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान् ।
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ ३.१६१.६६ ॥
他们抛下棍棒、长矛、刀剑、投枪与战斧,被坚弓者惊吓,向南方逃去。
3.161.67
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ ३.१६१.६७ ॥
那里有一个名叫摩尼曼的罗刹,手持长矛与铁棒,胸膛宽阔,臂力强大,是毗沙罗婆那(俱毗罗)的朋友。
3.161.68
दर्शयन्स प्रतीकारं पौरुषं च महाबलः ।
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ ३.१६१.६८ ॥
这位大力者展示着抵抗与勇武,看到他们转身逃遁,仿佛含笑地说道:
3.161.69
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः ।
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ ३.१६१.६९ ॥
你们这么多人在战场上被一个凡人所败;到了毗沙罗婆那的居所,你们将如何向财神禀告?
3.161.70
एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः ।
शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम् ॥ ३.१६१.७० ॥
对他们all这样说完,这罗刹转身回来,手持长矛、三叉戟与铁棒,向般度之子冲去。
3.161.71
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत् ॥ ३.१६१.७१ ॥
见他如发情的象一般迅猛冲来,怖军以三支犊牙箭击中了他的侧身。
3.161.72
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम् ।
प्राहिणोद्भीमसेनाय परिगृह्य महाबलः ॥ ३.१६१.७२ ॥
摩尼曼也大怒,抓起一柄大铁棒,这大力者紧握住它,朝怖军掷去。
3.161.73
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।
शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः ॥ ३.१६१.७३ ॥
毗摩娑那以许多在磨石上磨快的箭,射击了那柄在空中如闪电般、极其可怖的大棍棒。
3.161.74
प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः ।
न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ ३.१६१.७४ ॥
箭一接近棍棒,全部被击回;它们被棍棒的冲力击中,无法承受其力量。
3.161.75
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् ।
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥ ३.१६१.७५ ॥
毗摩毗克罗摩察觉了棍棒战斗的走向,挫败了他的那一击。
3.161.76
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।
तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः ॥ ३.१६१.७६ ॥
于是就在那一刻,那聪明的罗刹投出一柄可怕的铁制枪矛,枪杆是金的。
3.161.77
सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम् ।
साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ ३.१६१.७७ ॥
那柄如火焰般、发出可怕吼声、极其凶猛的枪矛,刺穿了毗摩的右臂,突然坠落在地上。
3.161.78
सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः ।
गदां जग्राह कौन्तेयो गदायुद्धविशारदः ॥ ३.१६१.७८ ॥
尽管被枪矛重伤,这位大弓手、勇力无量、精通棍棒战斗的昆提之子,仍握起了他的棍棒。
3.161.80
प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ ३.१६१.८० ॥
他怒吼着,以巨大的力量将它掷向毗摩先那。
3.161.81
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित् ।
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ ३.१६१.८१ ॥
精通棍棒战术的他,用棒头击碎长矛,迅速向他扑去,如金翅鸟扑向毒蛇。
3.161.82
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम् ।
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ ३.१६१.८२ ॥
这位双臂有力的人跃入空中,突然挥动棍棒,在战阵前沿怒吼着将它掷出。
3.161.83
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा ।
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ ३.१६१.८३ ॥
如因陀罗投掷的雷电,以风速射出,击中罗刹后,像咒力之物一般坠落于地。
3.161.84
तं राक्षसं बीमबलं भीमसेनबलाहतम् ।
ददृशुः सर्वभूतानि सिंहेनेव गवांपतिम् ॥ ३.१६१.८४ ॥
一切众生都看见那位力量可怖的罗刹被毗摩先那的力量击倒,如同牛群之主被狮子所杀。
3.161.85
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः ।
भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति ॥ ३.१६१.८५ ॥
见他倒毙于地,残余的夜游者发出可怖的哀号,向东方逃去。