Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.162

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.162.1

श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम् ।
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥ ३.१६२.१ ॥

听到山洞被种种声音所回响,贡蒂之子阿闍多设咄,以及摩德利的两个儿子也(心神不安)。

3.162.2

धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा ।
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥ ३.१६२.२ ॥

达乌姆亚、黑天女(德劳帕蒂)、婆罗门和所有的朋友们,见不到毗摩先那,都心情沮丧。

3.162.3

द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः ।
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥ ३.१६२.३ ॥

将德劳帕蒂托付给阿尔什提舍那(达乌姆亚)之后,那些大战车武士、勇士们,手持武器,一同登上了山。

3.162.4

ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ।
ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ॥ ३.१६२.४ ॥

于是到达山顶,四处张望的那些大战车武士、大弓箭手,看到了制敌的毗摩先那。

3.162.5

स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेव पातितान् ॥ ३.१६२.५ ॥

他们看见被毗摩先那击倒的罗刹们:身躯庞大,失去生命却仍在抽搐,力量强大、勇猛非凡。

3.162.6

शुशुरतश्च महाकायान्गतसत्वांश्च राक्षसान् ।
महाबलान्महासत्वान्भीमसेनेन पातितान् ॥ ३.१६२.६ ॥

他们看见被毗摩先那击倒的罗刹们:身躯庞大,失去生命却在呻吟,力量强大、勇猛非凡。

3.162.7

ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् ।
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥ ३.१६२.७ ॥

于是,他们前行并拥抱了狼腹(Bhīma),普利塔之子们在那里坐下,已达到无上的境界。

3.162.8

तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत ।
लोकपालैर्महाभागैर्दिवं देववरैरिव ॥ ३.१६२.८ ॥

与这四位大弓箭手一同,山峰熠熠生辉,正如天界因大福的世界守护者和诸神中的殊胜者而光彩夺目。

3.162.9

कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् ।
भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः ॥ ३.१६२.९ ॥

见到俱毗罗的居所和被击倒的罗刹,坚战对坐着的兄弟说道。

3.162.10

साहसाद्यदिवा मोहाद्बीम पापमिदं कृतम् ।
नैतत्ते सदृशं वीर मुनेरिव मृषा वधाः ॥ ३.१६२.१० ॥

婆罗多之子(Bhīma)啊,这罪过或因鲁莽或因迷惑而犯下。英雄啊,这不适合你,正如虚假的杀戮不适合贤者一样。

3.162.11

राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥ ३.१६२.११ ॥

精通法者都知道,不应做国王所憎恶之事。婆罗多之子(Bhīmasena)啊,你所做的,连诸天神也憎恶。

3.162.12

अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥ ३.१६२.१२ ॥

若有人轻视利益与法,心志趋向于恶,啊,普利塔之子,他必定会获得恶业的果报。

3.162.13

साहसंवत भद्रं ते देवानामपि चाप्रियम् ।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ ३.१६२.१३ ॥

此等冒失之举,连诸神也不喜欢;愿你平安吉祥。若你想令我欢喜,便不要再这样做。

3.162.14

एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् ।
भीमसेनं महाबाहुमप्रधृष्यपराक्रमम् ॥ ३.१६२.१४ ॥

如此说完,那位心性正直的兄长对他那不动摇的兄弟、臂力强大、勇武不可抵挡的毗摩先那说道。

3.162.15

अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
विराम महातेजास्तमेवार्थं विचिन्तयन् ॥ ३.१६२.१५ ॥

贡蒂之子、大光明的坚战,通晓利益与目标的真实本性及其区分,便沉默下来,思索着这件事。

3.162.16

ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः ।
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥ ३.१६२.१६ ॥

于是,那些未被毗摩先那杀死的罗刹,一同向俱毗罗的居所而去。

3.162.17

ते जवेन महावेगाः प्राप्य वैश्रवणालयम् ।
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥ ३.१६२.१७ ॥

那些迅捷而强大的罗刹很快抵达毗沙门(俱毗罗)的居所,因惧怕毗摩先那而痛苦万分,发出可怕的哀号。

3.162.18

न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः ।
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥ ३.१६२.१८ ॥

大王啊!那些罗刹放下了兵器与武器,疲惫不堪,衣裳沾满血迹,头发散乱,向夜叉之主说道。

3.162.19

गदापरिघनिस्त्रिंसतोमरप्रासयोधिनः ।
राक्षसा निहताः सर्वे तव देवपुरःसराः ॥ ३.१६२.१९ ॥

所有以狼牙棒、铁杵、剑、矛和短戟作战、走在你的天神之前的罗刹,都已被杀。

3.162.20

प्रमृद्यतरसा शैलं मानुषेण धनेश्वर ।
एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः ॥ ३.१६२.२० ॥

财神啊,一人以力量碾碎山岳,在战斗中独自杀死了那些受愤怒驱使而来的众军。

3.162.21

प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप ।
शेरते निहता देव गतसत्वाः परासवः ॥ ३.१६२.२१ ॥

人主啊,罗刹之王与夜叉中的最勇者,都已被杀,失去生机,气息断绝,躺在地上,天神啊。

3.162.22

भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः ।
मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम् ॥ ३.१६२.२२ ॥

山已毁坏,我们也已被毁,你的朋友摩尼曼被一个人杀死了。请决定人所做之事之后应当怎样做。

3.162.23

स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः ।
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥ ३.१६२.२३ ॥

夜叉众之主听闻此言,大为愤怒,双目因怒而泛红,说道:“这是怎么回事?”

3.162.24

द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः ।
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥ ३.१६२.२४ ॥

财神、夜叉之主听闻怖军又一次犯下罪过,勃然大怒,说道:“让军队准备好。”

3.162.25

अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।
रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः ॥ ३.१६२.२५ ॥

于是他们套上那辆如乌云般浓密、如山峰般高耸的车,与乾闼婆及佩戴金鬘者同行。

3.162.26

तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः ।
तेजोबलगुणोपेता नानारत्नविभूषिताः।
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ॥ ३.१६२.२६ ॥

套在那辆车上的良马,具备一切美德,目光清澈,光彩与力量兼备,饰以种种宝石,闪耀夺目,仿佛将要疾驰渡过。

3.162.27

ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम् ।
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥ ३.१६२.२७ ॥

那些大夜叉见财神震怒,便以带来胜利的手势彼此鼓舞。

3.162.28

स तमास्थाय भगवान्राजराजो महारथम् ।
प्रययौ देवगनधर्वैः स्तूयमानो महाद्युतिः ॥ ३.१६२.२८ ॥

这位尊贵的王中之王登上那辆大车,光辉赫赫,受天神与乾闼婆赞颂,启程而去。

3.162.29

तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम् ।
अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः ॥ ३.१६२.२९ ॥

当这位大德的财神启程时,所有相貌可怖的夜叉都跟随在后。

3.162.30

रक्ताक्षा हेमसंकाशा महाकाया महाबलाः ।
सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः ॥ ३.१६२.३० ॥

夜叉们红眼金身,身躯庞大,力量强盛,全副武装,佩着宝剑,持有数百种兵器。

3.162.31

ते जवेन महावेगाः प्लवमाना विहायसा ।
गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम् ॥ ३.१६२.३१ ॥

他们速度极快,在空中飞跃,抵达乾陀摩陀那山,仿佛在牵引着天空。

3.162.32

तत्केसरिमहाजालं धनाधिपतिपालितम् ।
रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः ॥ ३.१६२.३२ ॥

财神所守护、被狮群密林环绕的美丽山峰,般度诸子抵达了那里。

3.162.33

कुबेरं च महात्मानं यक्षरक्षोगणावृतम् ।
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥ ३.१६२.३३ ॥

般度诸子看见被夜叉与罗刹群众环绕的大德俱毗罗,其形貌可爱,他们喜悦得汗毛竖起。

3.162.34

कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान् ।
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥ ३.१६२.३४ ॥

俱毗罗见般度之子,皆是大力的大车战士,手持弓与剑,于是心生欢喜。

3.162.35

सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः ।
देवकार्यं करिष्यन्ति हृदयेन तुतोष ह ॥ ३.१६२.३५ ॥

这些人中之虎,光辉与因陀罗相当,必将完成天神的使命,他心中因此欢喜。

3.162.36

ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः ।
तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः ॥ ३.१६२.३६ ॥

他们如鸟般疾速降落在山峰上,站在走在前面的财神面前。

3.162.37

ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत ।
समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः ॥ ३.१६२.३७ ॥

婆罗多啊,见他心怀喜悦地望着般度五子,夜叉与乾闼婆们便静静地站立着。

3.162.38

पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।
नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित् ॥ ३.१६२.३८ ॥

伟大的般度五子向施财之主俱毗罗致敬:那拉古罗、萨哈德瓦,以及通晓法的法子。

3.162.39

अपराद्धमिवात्मानं मन्यमाना महारथाः ।
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥ ३.१६२.३९ ॥

他们自觉有过,诸大车将都合掌站立,将财神团团围住。

3.162.40

शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा ।
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥ ३.१६२.४० ॥

财神坐上由毗首羯摩所造、备有卧榻与座位、饰以彩色边缘的华美普须波迦。

3.162.41

तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।
उपोपविविशुर्यक्षा राक्षसाश् सहस्रशः ॥ ३.१६२.४१ ॥

他端坐之时,身躯庞大、耳如锥形、迅捷异常的夜叉与罗刹成千上万地在他身旁坐下。

3.162.42

शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः ।
परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम् ॥ ३.१६२.४२ ॥

数百乾闼婆与阿普萨拉斯之群同样围绕着他侍立,如诸天侍奉百祭之主因陀罗一般。

3.162.43

काञ्जनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।
बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥ ३.१६२.४३ ॥

毗摩娑那头戴一串美丽的金花环,手持箭、剑和弓,望向财神俱毗罗。

3.162.44

न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।
आसीत्तस्यामवस्तायां कुबेरमपि पश्यतः ॥ ३.१६२.४४ ॥

虽被罗刹所伤,毗摩没有恐惧,也没有沮丧;即便在那种境况中,他仍望着俱毗罗。

3.162.45

आददानं शितान्बाणान्योद्धुकाममवस्थितम् ।
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥ ३.१६२.४५ ॥

见毗摩手持利箭,立于原地欲与之交战,那位以人为乘骑者(俱毗罗)便对法之子说道。

3.162.46

विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।
निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः ॥ ३.१६२.४६ ॥

般度之子啊,一切众生都知道你乐于利益众生。你可以无畏地与亲属一同住在山顶。

3.162.47

न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव ।
कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥ ३.१६२.४७ ॥

般度之子啊,你不应对毗摩娑那生气。这些人早已被时间所杀;你的弟弟只是其中的工具。

3.162.48

व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम् ।
दृष्टश्चापि सुरैः पूर्वंविनाशो यक्षरक्षसाम् ॥ ३.१६२.४८ ॥

此事所行之勇敢,不应在此感到羞愧;往昔诸天也曾目睹夜叉与罗刹的覆灭。

3.162.49

न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ ।
कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा ॥ ३.१६२.४९ ॥

婆罗多族的雄牛啊,我对怖军没有怒气,我很欢喜。从前,怖军的那一行为便已使我满足。

3.162.50

स एवमुक्त्वा राजानं भीमसेनमभाषत ।
नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥ ३.१६२.५० ॥

他如此说完,先对国王,后对怖军说道:“亲爱的孩子,俱卢中最优秀的,这不在我的心中。”

3.162.51

यदिदं साहसं भीम कृष्णार्थे कृतवानसि ।
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ॥ ३.१६२.५१ ॥

怖军啊,你为了黑公主而做的这一鲁莽之事,无视我和诸神,毁灭了夜叉与罗刹。

3.162.52

स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।
शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर ॥ ३.१६२.५२ ॥

依靠你自己臂膀的力量,我因此对你心生欢喜。狼腹啊,今天我从这可怕的诅咒中解脱了。

3.162.53

अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा ।
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम् ॥ ३.१६२.५३ ॥

从前,我因某次过失,被盛怒的大仙阿伽斯提亚诅咒。这无疑便是对它的赎罪。

3.162.54

दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन ।
न तवात्रापराधोस्ति कथंचिदपि पाण्डव ॥ ३.१६२.५४ ॥

般度之子的欢喜啊,我的苦难从前已被看见。般度之子啊,此事中你并无任何过失。

3.162.55

कथं शप्तोसि भगवन्नगस्त्येन महात्मना ।
श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम् ॥ ३.१६२.५५ ॥

尊者啊,伟大的阿伽斯提耶为何诅咒了您?天神啊,我想听听这诅咒的缘由。

3.162.56

इदं चाश्चर्यभूतं मे यत्क्रोधात्तस् धीमतः ।
तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥ ३.१६२.५६ ॥

令我惊奇的是,那位智者的愤怒之下,您与军队和随从竟未立刻被焚毁。

3.162.57

देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर ॥ ३.१६२.५७ ॥

人主啊,在俱舍婆提曾有一次诸神的集会。

3.162.58

वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ।
यक्षाणआं घोररूपाणां विविधायुधधारिणाम् ॥ ३.१६२.५८ ॥

我前往那里,被三百个大莲花之数的夜叉所围绕,他们形貌可怖,持各种兵器。

3.162.59

अध्वन्यहमथापश्यमगस्त्यमृपिसत्तमम् ।
उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम्।
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥ ३.१६२.५९ ॥

途中我见到了诸仙中最尊贵的阿伽斯提耶,他依止于阎牟那河岸,行持猛烈的苦行;那里聚集着许多鸟群,并以开花的树木为装饰。

3.162.60

तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम् ।
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥ ३.१६२.६० ॥

我见他举起双臂,面向太阳而立,是一团光焰,熊熊燃烧如点燃的火焰。

3.162.61

राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा ।
मौर्क्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव ॥ ३.१६२.६१ ॥

罗刹之主、光荣的摩尼曼是我的朋友。啊,国王,他因愚昧、无知、傲慢和迷惑而这样做。

3.162.62

न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ।
ततः क्रुद्धः स भगवानुवाचेदं तपोधनः ॥ ३.१६२.६२ ॥

他在空中飞行时向那位大仙的头上吐唾沫。于是那位以苦行为财富的尊者愤怒地说了这些话。

3.162.63

मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ।
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ॥ ३.१६२.६३ ॥

你的这位心术不正的朋友轻蔑我,在你眼前做出了这种侮辱,啊,财神。

3.162.64

त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते ।
तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे ॥ ३.१६२.६४ ॥

你也会因这些被杀的军队而受苦,啊,恶人;只有看见那个人,你才能从这罪中解脱。

3.162.65

सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् ।
न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥ ३.१६२.६५ ॥

你的这些军队,拥有子孙之力的,不会遭受可怕的诅咒。去吧,他会执行你的命令。

3.162.66

एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् ।
स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥ ३.१६२.६६ ॥

这个诅咒我早先从那位最优秀的仙人那里得到。啊,大王,它被你的兄弟怖军解除了。