摩诃婆罗多 · 章 3.163
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.163.1
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः ।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ ३.१६३.१ ॥
俱卢子嗣,坚毅、精巧、知晓地点与时机以及勇力——这便是世间秩序安排的五重法则。
3.163.2
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ ३.१६३.२ ॥
婆罗多之子啊,在圆满时代,人们坚毅而精巧,各守其职,且知晓勇武的规则。
3.163.3
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् ।
क्षत्रियः क्षत्रियश्रेष्ठ शास्ति वै पृथिवीमनु ॥ ३.१६३.३ ॥
刹帝利中的最优者啊,坚毅、知晓地点与时机、通晓一切法度规则的刹帝利,确实依此统治大地。
3.163.4
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु ।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥ ३.१६३.४ ॥
普利塔之子啊,人若在一切行事中如此行止,英雄啊,他便在世间获得声誉,死后也得善趣。
3.163.5
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ ३.१६३.५ ॥
帝释天(因陀罗)欲求地点与时机之利,显示勇力,与诸婆苏一同成为斩杀弗栗多者,获得天界之王权。
3.163.6
यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते ।
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते।
कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ॥ ३.१६३.६ ॥
然而,那仅凭鲁莽之激情而不顾深渊、心怀恶念、智慧邪僻、唯循恶行、不知行为之区分者,今生与死后都将毁灭。
3.163.7
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् ।
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ॥ ३.१६३.७ ॥
不知时机、极其愚钝、不辨别诸事之别、开始徒然行为的人,在此世和死后都会毁灭。
3.163.8
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् ।
सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः ॥ ३.१६३.८ ॥
凡从事冒险之事、诡诈、心怀恶念且贪求财富者,其结局必定是罪恶的。
3.163.9
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः ।
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ ३.१६३.९ ॥
此毗摩先那不知法,傲慢,心智幼稚,不能容忍侮辱,且无所畏惧。人中之雄,请约束他。
3.163.10
आर्ष्टिषेणस् राजर्षेः प्राप्य भूयस्त्वमाश्रमम् ।
तमिस्रां प्रथमां तत्र वीतशोकभयो वस ॥ ३.१६३.१० ॥
你再次到达王仙阿尔希舍那的修行处,在那里的第一幽暗中居住,摆脱忧愁与恐惧。
3.163.11
अलकां सह गन्धर्वैर्यक्षैश्च सह किन्नरैः ।
गमिष्यामि महाबाहो त्वं चापि बदरीं व्रज ॥ ३.१६३.११ ॥
我将与乾闼婆、夜叉和紧那罗一同前往阿罗迦;大臂者啊,你也去往菩提树园。
3.163.12
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।
रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः ॥ ३.१६३.१२ ॥
人主啊,愿我所派遣的山居诸神与最优秀的再生者一同守护你,大臂者啊。
3.163.13
साहसेषु च संतिष्ठंस्त्वया शैले वृकोदरः ।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतांवर ॥ ३.१६३.१३ ॥
大王啊,此人居住在山中,却沉迷于冒险之事;愿你这位持法者中最优秀的人好好约束他。
3.163.14
इतः परं च वो राजन्द्रक्ष्यन्ति वनगोचराः ।
उपश्थास्यन्ति वो राजन्रक्षिष्यन्ते च वः सदा ॥ ३.१६३.१४ ॥
大王啊,从今以后,林中的居民将会来见你,侍奉你,并且永远保护你。
3.163.15
तथैव चान्नपानानि स्वादूनि च बबूनि च ।
आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः ॥ ३.१६३.१५ ॥
同样,我的侍从们将常常为你们带来美味丰盛的饮食,人中的雄牛啊。
3.163.16
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः ।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥ ३.१६३.१६ ॥
正如胜者(阿周那)是因陀罗之子,狼腹(毗摩)是风神之子,亲爱的孩子,你也是由法神以神圣结合所生的亲生之子。
3.163.17
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ ३.१६३.१७ ॥
正如双马神的两个儿子(那古拉与萨诃提婆)是他们亲生的、具有自制力的儿子一样,啊,坚战,你们所有人在此也都应当受我的保护。
3.163.18
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित् ।
भीमसेनादवरजः पल्गुनः कुशली दिवि ॥ ३.१६३.१८ ॥
毗摩先那之弟、法则与财富之理的通晓者、精通一切法的规范的胜者(阿周那),在天界安好。
3.163.19
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः ।
जनमप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥ ३.१६३.१९ ॥
世间被认为属于天界的一切至高财富,亲爱的孩子,自出生起便都存在于阿周那(Dhanaṃjaya)身上。
3.163.20
द्रमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।
एतान्यपि महासत्वे स्थितान्यमिततेजसि ॥ ३.१६३.२० ॥
克己、布施、力量、智慧、知耻、坚定与至上的光辉——这些也都存在于那位具有无量光辉的大德之人身上。
3.163.21
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् ।
न पार्थस् मृषोक्तानि कथयन्ति नरा नृषु ॥ ३.१६३.२१ ॥
般度之子啊,胜利者阿周那不会因迷惑而做出可受谴责的行为;人们在人群中也不会说关于Pārtha的虚假之言。
3.163.22
स देवपितृगन्धर्वैः कुरूणआं कीर्तिवर्धनः ।
आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥ ३.१६३.२२ ॥
他被诸天神、祖灵与乾闼婆带走,作为增益俱卢家名声者,在因陀罗的宫殿中学习武器,啊,婆罗多的后裔。
3.163.23
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् ।
स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥ ३.१६३.२३ ॥
那位以正法使所有国王臣服的大光辉者舍antanu,是你父亲的祖父。
3.163.24
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ।
सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः ॥ ३.१६३.२४ ॥
Pārtha 因持甘提弓的 Pārtha 而在天界欢喜;那位大勇者则恰如家族的栋梁,完美地立于此处。
3.163.25
पितॄन्देवानृषीन्विप्रान्पूजयित्वा महायशाः ।
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ ३.१६३.२५ ॥
这位大名远扬者礼敬祖先、诸神、仙人与婆罗门后,向亚穆纳河方向举行了七场主要的大祭祀。
3.163.26
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः ।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ ३.१६३.२६ ॥
大王,你的曾祖父、至尊之王沙antanu,征服天界者,住在因陀罗的世界里,正在问候你的安好。
3.163.27
एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम् ।
पाण्डवाश्च ततस्तेन बभूवः संप्रहर्षिताः ॥ ३.१६३.२७ ॥
听到财神所说的这些话,般度五子因此而大为欢喜。
3.163.28
ततः शक्तिं गदां खङ्गं धनुश्च भरतर्षभः ।
प्राध्वंकृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ ३.१६३.२८ ॥
随后,婆罗多族之牛狼腹向财神致敬,并以矛、棍、剑与弓献上礼拜,然后向他顶礼。
3.163.29
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् ।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ ३.१६३.२९ ॥
于是施予庇护的财神对前来寻求庇护者说:你要成为敌人荣誉的毁灭者,成为朋友喜悦的增益者。
3.163.30
विभयस्ताप शैलाग्रे वसानः सह बन्धुभिः ।
सुपर्णपितृदेवानां सततं मानकृद्भव ॥ ३.१६३.३० ॥
炽热者啊,与亲族无所畏惧地居于山巅,常常尊敬金翅鸟、祖先与诸神吧。
3.163.31
ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम् ।
दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम् ॥ ३.१६३.३१ ॥
看正直之事,莫看邪曲;说真实之语,莫说虚妄。看长远之处,莫看短浅;看至上之道,莫看卑下。
3.163.32
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः ।
कामान्न परिहास्यन्ति यक्षा वोभरतर्षभाः ॥ ३.१६३.३२ ॥
居于你们自己美好的宫室之中,啊,折磨敌人者,夜叉们,婆罗多中的雄牛,你们的欲望不会缺失。
3.163.33
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः ।
साक्षान्मघवतोत्सृष्टः संप्राप्स्यति धनंजयः ॥ ३.१६३.३३ ॥
不久,胜眠者阿周那,精通兵器,人中之雄,由因陀罗亲自授予,将获得它。
3.163.34
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् ।
अस्तं गिरिमिवादित्यः प्रययौ गुह्यकाधिपः ॥ ३.१६३.३४ ॥
如此教导了行事高尚的坚战之后,罗刹主(俱毗罗)便离去了,如同太阳落入山后。
3.163.35
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ ३.१६३.३५ ॥
夜叉与罗刹乘着饰以各种宝石、随从众多的车辆,成千上万地跟随在他身后。
3.163.36
पक्षिणामिव कनिर्घोषः कुबेरसदनं प्रति ।
बभूव परमाश्वानामैरावतपथे यथा ॥ ३.१६३.३६ ॥
朝向俱毗罗的宫殿,传来如鸟鸣的声音,宛如在爱罗婆多之路上优良骏马的嘶鸣。
3.163.37
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।
प्रकर्षन्त इवाभ्राणि पिबन्त इवमारुतम् ॥ ३.१६३.३७ ॥
财神的马迅速飞入天空,仿佛拖曳着云彩,吞饮着风。
3.163.38
ततस्तानि शरीराणि गतसत्वानि रक्षसाम् ।
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ ३.१६३.३८ ॥
于是,依财神之命,那些失去生命的罗刹之躯从山巅被拖拽下来。
3.163.39
तेषां हि शापकालः स कृतोऽगस्त्येन धीमता ।
समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा ॥ ३.१६३.३९ ॥
因为智慧的阿伽斯提耶曾为他们定下诅咒的期限;他们在战中被杀,诅咒便在那时终止。
3.163.40
पाण्डवाश्महात्मानस्तेषु वेश्मसु तां क्षपाम् ।
सुखमूषुर्गतोद्वेगाः पूजिताः सह राक्षसैः ॥ ३.१६३.४० ॥
大德的般度五子在那些住所中安然度过了那一夜,心无忧虑,与罗刹一同受到敬待。