摩诃婆罗多 · 章 3.164
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.164.1
ततः सूर्योदये धौम्यः पाञ्चालीसहितांस्च तान् ।
आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत ॥ ३.१६४.१ ॥
随后日出时,达乌摩与阿尔什提舍那一同走向般度五子,以及般遮罗公主。
3.164.2
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ ३.१६४.२ ॥
他们向阿尔什提舍那和达乌摩的脚致敬,然后合掌,众人都礼敬了那些婆罗门。
3.164.3
आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ ।
धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः।
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ ३.१६४.३ ॥
婆罗多族的雄牛啊,他像对待儿子一样拥抱阿尔什提舍那,以手触摸法王的手,那位大苦行的仙人望着东方,说了这些话。
3.164.4
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति ।
शैलराजो महाराज मन्दरोऽभिविराजयन्।
इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति ॥ ३.१६४.४ ॥
环绕大地直至海洋边际,群山之王曼陀罗光辉耸立,伟大的君王啊;般度之子啊,它守护着属于因陀罗和毗沙罗婆那的那个方位。
3.164.5
पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम् ।
एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च।
ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः ॥ ३.१६४.५ ॥
孩子啊,这片由山脉、林缘和树林装点的地方,所有通晓各种法的智者仙人都称之为大因陀罗和毗沙罗婆那王之地。
3.164.6
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ ३.१६४.६ ॥
因此众生礼拜升起的太阳,知法的仙人、悉陀、萨陀耶与诸天亦然。
3.164.7
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः ।
प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ ३.१६४.७ ॥
知法之王阎摩,乃一切有情之主;为此亡灵之所归,他安居于南方。
3.164.8
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् ।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ ३.१६४.८ ॥
此名为调伏的圣地,极为奇妙可观;这是死亡之王的居所,充满无上的光辉。
3.164.9
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति ।
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ ३.१६४.९ ॥
大王啊,太阳到达此处,依凭真实之力而安立;智者称此为日没之山,群山之王。
3.164.10
एवं पर्वतराजानं समुद्रं च महोदधिम् ।
अवसन्वरुणो राजा भूतानि परिरक्षति ॥ ३.१६४.१० ॥
如此,婆楼那王住于群山之王与大海之中,守护一切众生。
3.164.11
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् ।
महामेरुर्महाभाग शिवो ब्रह्मविदांगतिः ॥ ३.१६४.११ ॥
照耀北方,名闻遐迩的大须弥山屹立;大福德者啊,这是湿婆与梵知者的归宿。
3.164.12
यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते ।
प्रजापतिः सृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥ ३.१६४.१२ ॥
梵天之座与众生之我所居之处,生主创造一切动者与来者,常驻于彼。
3.164.13
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् ।
तेषामपि महामेरुः शिवं स्थानमनामयम् ॥ ३.१६४.१३ ॥
即便是被称为梵天心生之子、以达刹为第七者,大须弥山也是吉祥无患之处。
3.164.14
अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च ।
सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा ॥ ३.१६४.१४ ॥
他们就在此处安立,又从此处重新升起——吾儿,以婆什斯陀为首的七位天仙。
3.164.15
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ ३.१६४.१५ ॥
看那须弥山最高峰上无垢之处,祖父与自足的诸神同居其中。
3.164.16
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।
अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ ३.१६४.१६ ॥
被称为一切众生之本性的本性、常住、无始无终的天神、主宰、至上那罗延。
3.164.17
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।
देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम् ॥ ३.१६४.१७ ॥
从梵天之座,他的至上之处放光;诸神亦以努力得见,那处全是光明而吉祥。
3.164.18
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ ३.१६४.१८ ॥
那处光辉胜过日与火的居所,属于伟大的毗湿奴。大王啊,凭他自身的光明,即使天神与阿修罗也难以仰视。
3.164.19
प्राच्यां नारायणस्थानं मेरावतिविराजते ॥ ३.१६४.१९ ॥
东方,在须弥山上,闪耀着那罗延的居所。
3.164.20
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः ।
भासयन्सर्वभूतानि सुश्रियाऽभिविराजते ॥ ३.१६४.२० ॥
亲爱的,在那里,众生之主、一切本性之源、自生者,照亮一切众生,以殊胜的光辉显耀。
3.164.21
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः ।
प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम् ॥ ३.१६४.२१ ॥
亲爱的,在这里,即使梵仙也不能到达,更何况大仙;这一归宿只有灵魂已净化的苦行者才能获得。
3.164.22
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव ।
स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते ॥ ३.१६४.२२ ॥
般度之子啊,到达那里后,一切光明之物都不再照耀;那里,自光的、不可思议之本性的主宰,光辉至极地显耀。
3.164.23
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् ।
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः।
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ॥ ३.१६४.२३ ॥
苦行者以虔信前往那罗延、哈里之处:具足至上苦行,以善业得净化,йога成就的大士,远离黑暗与迷惑。
3.164.24
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ।
स्वयंभुवं महात्मानं देवदेवं सनातनम् ॥ ३.१६४.२४ ॥
婆罗多啊,到了那里的人不再返回此世,而是归于自生的、大我的、神中之神、永恒者。
3.164.25
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम् ।
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ ३.१६४.२५ ॥
大心的坚战啊,此处是恒定、不灭、不变的;它永远属于主,仅凭一次礼拜便可到达。
3.164.26
एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम् ।
प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन ॥ ३.१६४.२६ ॥
库鲁之喜啊,日复一日,日与月坚定地绕此须弥山行右旋。
3.164.27
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः ।
परियान्ति महाराज गिरिराजं प्रदक्षिणम् ॥ ३.१६४.२७ ॥
无垢的大王啊,一切光明之体也从四面环绕山王行右旋,无有遗漏。
3.164.28
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि ।
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ ३.१६४.२८ ॥
吸引一切光明之体于己,无暗之业的薄伽梵日神,也绕此山行右旋。
3.164.29
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः ।
उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु ॥ ३.१६४.२९ ॥
日落之后越过黄昏,日轮在季节交接之处多方向北方而行。
3.164.30
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव ।
प्राङ्युखः सविता देवः सर्वभूतहिते रतः ॥ ३.१६४.३० ॥
般度之子啊,他绕过须弥山后又继续前行。乐于众生福祉的天神萨维特里面向东方前进。
3.164.31
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु ।
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ ३.१६४.३१ ॥
他善于在季节交接处以多种方式划分时间而前行;同样,尊贵的月神随二十八宿而行。
3.164.32
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः ।
सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु।
भासयन्सर्वभूतानि पुनर्गच्छति सागरम् ॥ ३.१६४.३२ ॥
如此,越过大须弥山后,不知疲倦的月神也在季节交接处以多种方式划分时间,照耀一切众生,然后再度向大海而去。
3.164.33
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत् ।
मार्गमेतमसंबाधमादित्यः परिवर्तते ॥ ३.१६४.३३ ॥
同样,驱散黑暗的天神以光芒照耀世界,太阳沿着这条无阻的道路运行。
3.164.34
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम् ।
ततः सर्वाणि भूतानि कालं शिशिरमृच्छति ॥ ३.१६४.३४ ॥
他欲使寒季生起,便走向南方;然后一切众生都迎来寒冷的季节。
3.164.35
स्थावराणां च भूतानां जङ्गमानां च तेजसा ।
तेजांसि समुपादत्ते निवृत्तः स विभावसुः ॥ ३.१६४.३५ ॥
他以不动与能动众生之力,收取其中的热能;回转之后,那位光明者(太阳)便如此行事。
3.164.36
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् ।
प्राणिभिः सततं स्वप्नोह्यभीक्ष्णं च निपेव्यते ॥ ३.१६४.३६ ॥
于是汗水、疲倦、昏沉与倦怠侵袭世人;众生也不断地、反复地沉溺于睡眠。
3.164.37
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान् ।
पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः ॥ ३.१६४.३७ ॥
如此,光耀者掩蔽那不可言说的路径,又再次降下雨季;世尊照亮众生。
3.164.38
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् ।
वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते ॥ ३.१६४.३८ ॥
以雨、风与热的和悦之力滋养静止与运动之物,极具光辉者再次回返。
3.164.39
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः ।
प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ ३.१६४.३९ ॥
如此,阿周那啊,这位萨维特里不知疲倦地行于时轮之中,牵引一切众生,周行不息。
3.164.40
संतता गतिरेतस्य नैष तिष्ठति पाण्डव ।
आदायैव तु भूतानां तेजो विसृजते पुनः ॥ ३.१६४.४० ॥
他的运行是连续不断的;般度之子啊,他从不停止。夺取众生的光热之后,他又将其释放出去。
3.164.41
विभजन्सर्वभूतानामायुः कर्म च भारत ।
अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः ॥ ३.१६४.४१ ॥
婆罗多啊,这位无所不在的主为一切众生分配寿命与业报,恒常地创造昼夜、时分与刹那。