Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.168

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.168.1

यथागतं गते शक्रे भ्रातृभिः सह संगतः ।
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ॥ ३.१६८.१ ॥

因陀罗依来时之路离去后,毗跋苏(阿周那)与兄弟们及黑公主相会,恭敬地礼敬法王(坚战)。

3.168.2

अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम् ।
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥ ३.१६८.२ ॥

他吻着那位向他行礼的般度之子的头,欣喜万分,以喜悦哽咽的声音对阿周那说道。

3.168.3

कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव ।
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ ३.१६८.३ ॥

阿周那啊,你在天上这段时间过得如何?你是如何获得武器的,又如何使天神之王喜悦的?

3.168.4

सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव ।
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ ३.१६८.४ ॥

般度之子啊,你是否已妥善获得了武器?天神之主是否欢喜,楼陀罗是否赐予了你武器?

3.168.5

यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत् ।
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ॥ ३.१६८.५ ॥

你如何见到了释迦(因陀罗)或持弓的吉祥者(湿婆),如何获得了武器,又如何礼拜和取悦了他们。

3.168.6

यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम ।
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ॥ ३.१६८.६ ॥

降敌者啊,吉祥的百祭(因陀罗)对你说:“你为我做了喜悦之事。”你为他做了什么喜悦之事?

3.168.7

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ॥ ३.१६८.७ ॥

光耀者啊,我想详细听听大天神与众神之王是如何感到满意的,无罪者啊。

3.168.8

यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम ।
एतदाख्याहि मे सर्वमखिलेन धनंजय ॥ ३.१६८.८ ॥

请把执金刚的因陀罗所施的恩惠,完整地告诉我,降伏敌人者啊,财胜啊。

3.168.9

शृणु हन्त महाराज विधिना येन दृष्टवान् ।
शतक्रतुमहं देवं भगवन्तं च शंकरम् ॥ ३.१६८.९ ॥

大王啊,请听我是如何依法得见百祭的因陀罗神和世尊湿婆的。

3.168.10

विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ ३.१६८.१० ॥

大王啊,降伏敌人者啊,我学完了你所传授的那门学问,并受你的指示,便动身前往森林修苦行。

3.168.11

भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः ।
एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ॥ ३.१६८.११ ॥

随后我来到婆利古顶,从迦密耶迦开始修苦行,住了一夜,在路上看见一位婆罗门。

3.168.12

स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे ।
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ॥ ३.१६८.१२ ॥

他问我:孔提之子啊,你要往哪里去?请告诉我。于是,俱卢之喜啊,我把一切都如实告诉了他。

3.168.13

स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ ३.१६८.१३ ॥

那婆罗门听了我的实言,王中之最,他敬重了我;大王,他对我心生欢喜。

3.168.14

ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत ।
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम् ॥ ३.१६८.१४ ॥

于是他欢喜地对我说:「婆罗多,去修苦行吧;你成为苦行者,不久便会见到诸天之主。」

3.168.15

ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।
तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ ३.१६८.१५ ॥

于是我依他的话登上那寒冷的雪山,大王,一个月间以根与果为食,修行苦行。

3.168.16

द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ ३.१६८.१६ ॥

第二个月我也只饮水度过;然后在第三个月,般度之子啊,我绝食而住。

3.168.17

ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ ३.१६८.१७ ॥

第四个月我举臂站立;然而我的生命气息并未衰减,这竟如同奇迹一般。

3.168.18

पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते ।
वराहसंस्थितं भूतं मत्समीपं समागमत् ॥ ३.१६८.१८ ॥

第五个月到来,第一天过去之后,一个形如野猪的生灵来到我的身边。

3.168.19

निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।
संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ ३.१६८.१९ ॥

以口鼻撞击大地,以足爪抓挠,以腹部扫地,一再翻滚。

3.168.20

अनु तस्यापरं भूतं महत्कैरातसंस्थितम् ।
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ ३.१६८.२० ॥

随后又来了一个大的生灵,以狩猎者(Kirāta)之形站立,持弓、箭和剑,当时还有一群女子相随。

3.168.21

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ॥ ३.१६८.२१ ॥

于是我持弓,并携两个取之不尽的大箭囊,以箭击中那使人毛发竖立的生灵。

3.168.22

युपत्तं किरातस्तु विकृष्य बलवद्धनुः ।
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ॥ ३.१६८.२२ ॥

然而那狩猎者拉开他强劲的弓,极其有力地向我射来,仿佛要震动大地。

3.168.23

सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः ।
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥ ३.१६८.२३ ॥

他对我说:「王啊!这是我先前所得的。你舍弃了狩猎之法,为何击打我?」

3.168.24

एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।
संघर्षवान्महाकायस्ततो मामभ्यधावत ॥ ३.१६८.२४ ॥

「看着,我要以利箭摧毁你的傲慢;站稳。」那巨大身躯的人,满怀怒火,向我猛扑过来。

3.168.25

ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।
तं चाहं शरवर्षेण महता समवाकिरम् ॥ ३.१६८.२५ ॥

于是他用巨大的箭将我完全覆盖,如同山岳一般。我则以大量的箭雨将他覆盖。

3.168.26

ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः ।
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ ३.१६८.२६ ॥

于是我以尖端燃烧、受控且相继而至的箭反击他,如同用雷电击打岩石堆。

3.168.27

तस्य तच्छतधा रूपमभवच्च सहस्रधा ।
तानि चास्य शरीराणि शरैरहमताडयम् ॥ ३.१६८.२७ ॥

他的身形化为百种、千种,我便用箭射击他那些身躯。

3.168.28

पुनस्तानि शरीराणि एकीभूतानि भारत ।
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ ३.१६८.२८ ॥

婆罗多啊,那些身躯又合为一体显现出来。大王啊,我又将它们击倒了。

3.168.29

अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ ३.१६८.२९ ॥

他化为小身大头,又化为大身小头,大王啊,他随即又合为一体,在战场上向我逼来。

3.168.30

यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे ।
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ ३.१६८.३० ॥

当我无法在战场上以箭降服他时,婆罗多的雄牛啊,我便拿起名为伐由的大神兵。

3.168.31

न चैनमशकं हन्तुं तदद्भुतमिवाभवत् ।
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ ३.१६८.३१ ॥

我无法杀他,此事如同奇迹。那神兵被击退时,我心中大感惊异。

3.168.32

तत्रापि च महाराज सविशेषमहं ततः ।
अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ ३.१६८.३२ ॥

大王,在那里我又特别以大量神兵在战场上将那生灵遮蔽。

3.168.33

स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम् ।
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ॥ ३.१६८.३३ ॥

我施展斯图纳羯纳神兵,继而是罗网、箭雨、满是箭矢的凶猛箭阵、沙罗婆神兵与石雨,我便向前进攻。

3.168.34

जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप ।
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ॥ ३.१६८.३४ ॥

大王啊,它强行吞噬了我所有的神兵。待这些都被吞噬之后,我便发出了大梵神箭。

3.168.35

ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत ।
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ॥ ३.१६८.३५ ॥

此时四面八方皆以燃烧的箭矢堆积,堆积之际,它又因大神兵而增长。

3.168.36

ततः संतापिता लोका मत्प्रसूतेन तेजसा ।
क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं ॥ ३.१६८.३६ ॥

此时,三界被我所生的光焰灼烧;刹那之间,四方与我自身皆被烈焰点燃。

3.168.37

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत् ।
ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ ३.१६८.३७ ॥

那位大光辉者瞬间便平息了那件武器。然而,大王啊,当梵天之箭被击中时,巨大的恐惧侵入了我的心。

3.168.38

ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी ।
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ ३.१६८.३८ ॥

于是我拿起弓,同样取了两个不竭的大箭袋,突然击向那个精灵。它也吞噬了那些武器。

3.168.39

एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च ।
मम तस् च भूतस्य बाहुयुद्धमवर्तत ॥ ३.१६८.३९ ॥

这些武器和兵器被那精灵吞噬之后,我与那精灵之间便展开了徒手搏斗。

3.168.40

व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ ।
अपायच्च तद्भूतमहं चापातयं महीम् ॥ ३.१६८.४० ॥

我以拳头奋力搏斗,以手掌相互击打,使那精灵倒下,并将它摔倒在地。

3.168.41

ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत ।
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ ३.१६८.४१ ॥

那精灵便笑着,与女子们一同就在那里消失了。大王啊,在我眼前,这真是令人惊叹的景象。

3.168.42

मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः ।
दिव्यमेव महाराज वरानोऽद्भुतमम्बरम् ॥ ३.१६८.४२ ॥

于是,那位世尊舍弃了他原本的主相,大王啊,化作另一种神圣的形相,并穿上了上好而奇妙的衣裳。

3.168.43

हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।
स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः ॥ ३.१६८.४३ ॥

薄伽梵三十三天之主舍弃猎人之形,现出自己的神圣形相,以大自在天的身份站立。

3.168.44

सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः ।
धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत् ॥ ३.१६८.४४ ॥

那时,以牛旗为标志的薄伽梵亲自显现,手持弓,化现多种形相,是持毗那迦之神。

3.168.45

स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।
शूलपाणिरथोवाच तुष्टोस्मीति परंतप ॥ ३.१६८.४५ ॥

他走近在战场上面对他站立的我,持三叉戟者说道:“征服敌人者啊,我很欢喜。”

3.168.46

ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ ३.१६८.४६ ॥

于是他取过那张弓和两个装着不尽之箭的箭囊,将它们交给了我,薄伽梵说道:“请求一个恩赐吧。”

3.168.47

तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते ।
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्।
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥ ३.१६८.४७ ॥

“贡蒂之子啊,我因你而欢喜。说吧,我为你做什么?英雄啊,说出你心中所想,我将赐予你。除了不死,说出你心中所想。”

3.168.48

ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः ।
प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ ३.१६८.४८ ॥

于是我心意专注于兵器,合掌,向湿婆低首致敬,然后开始说话。

3.168.49

भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम ।
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥ ३.१६८.४९ ॥

若世尊对我满意,这便是我所求的恩典:我想知道诸神所拥有的一切神兵。

3.168.50

ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम् ।
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ॥ ३.१६८.५० ॥

世尊三目神对我说:「我会赐予你。」般度之子啊,我的恐怖神兵将来到你身边。

3.168.51

प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ।
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ॥ ३.१६८.५१ ॥

那位主神欢喜地赐予我帕舒帕塔神兵;摩诃提婆赐予我这把永恒的神兵之后,又开口说道。

3.168.52

न प्रयोज्यंभवेदेतन्मानुषेषु कथंचन ।
जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ॥ ३.१६८.५२ ॥

此神兵绝不可以任何方式用于人类:若对着力量微弱者投掷,它将把整个世界烧成灰烬。

3.168.53

पीड्यमानन बलवत्प्रयोज्यंस्याद्धनंजय ।
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ ३.१६८.५३ ॥

达难阇耶啊,只有当你被强大者逼迫时才可使用它;而在他人神兵被反击之时,你必须全力运用它。

3.168.54

ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् ।
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ ३.१६८.५४ ॥

当以牛旗为标志的主神欢喜之时,那无可阻挡、神圣、能克制一切神兵的神兵,化作实体站立在我的身旁。

3.168.55

उत्सादनममित्राणां परसेनानिकर्तनम् ।
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ॥ ३.१६८.५५ ॥

消灭敌人、斩断敌军者,即便诸神、檀那婆与罗刹也无法接近、难以抵挡。

3.168.56

अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् ।
प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत ॥ ३.१६८.५६ ॥

得到他的允许后,我就在那里坐下。他正看着我时,那位天神就在那里消失了。