Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.169

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.169.1

ततस्तामवसं प्रीतो रजनीं तत्र भारत ।
प्रसादाद्देवदेवस्यत्र्यम्बकस्य महात्मनः ॥ ३.१६९.१ ॥

阿周那说:婆罗多啊,那时我欢喜地在那里度过了那个夜晚,蒙神中之神、大德的三眼神(湿婆)恩赐。

3.169.2

व्युषितो रजनीं चाहंकृत्वापौर्वाह्णिकीः क्रियाः ।
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ ३.१६९.२ ॥

度过那夜并完成午前的仪式后,我看见了那位我先前见过的婆罗门中的最优者。

3.169.3

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् ।
भगवन्तं महादेवं समेतोस्मीति भारत ॥ ३.१६९.३ ॥

我把所发生的一切都如实地禀告了他:婆罗多啊,我已与世尊大天神相遇。

3.169.4

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः ।
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ ३.१६९.४ ॥

他欢喜地对我说:王中之王啊,你所见到的大天神,是别人从未见过的。

3.169.5

समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः ।
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ ३.१६९.५ ॥

无罪者啊,你将见到众神之主因陀罗,与以毗婆娑多为首的所有世界守护者聚在一起;他将赐予你神兵。

3.169.6

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः ।
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः ॥ ३.१६९.६ ॥

国王啊,那位如太阳般光辉的婆罗门这样说完,一次又一次地拥抱我,然后随心所欲地离去了。

3.169.7

अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः ।
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ ३.१६९.७ ॥

那一日午后,一阵清净的风吹来,仿佛使这世界重获新生,啊,灭敌者。

3.169.8

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च ।
शैशिरस्य गिरे पादे प्रादुरासन्समीपतः ॥ ३.१६९.८ ॥

神妙、芬芳而崭新的花环也在附近出现,就在沙西罗山脚下。

3.169.9

वादित्राणिच दिव्यानि सुघोषाणि समन्ततः ।
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ ३.१६९.९ ॥

四面八方响起神妙悦耳的乐器之声,也听到与因陀罗相连的动人赞颂。

3.169.10

गणाश्चाप्सरसां तत्रगन्धर्वाणां तथैव च ।
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ ३.१६९.१० ॥

那里,阿普萨拉斯与乾达婆的众群也在神中之神面前全然歌唱。

3.169.11

मरुतां च गणास्तत्र देवयानैरुपागमन् ।
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ ३.१६९.११ ॥

众风神(摩禄多)的群众也乘着神车来到那里,还有因陀罗的随从和居住在天界宫殿中的神众。

3.169.12

ततो मरुत्वानहरिभिर्युक्तैर्वाहैः स्वलंकृतैः ।
शचीसहायस्तत्रायात्सह सर्वैस्तदाऽमरैः ॥ ३.१६९.१२ ॥

那时,众风之主因陀罗乘着以黄褐色骏马驾驭、装饰精美的车辆,与舍遮同来到那里,还有所有不死者随行。

3.169.13

एतस्मिन्नैव काले तु कुबेरो नरवाहनः ।
दर्शयामास मां राजँल्लक्ष्म्या परमया युतः ॥ ३.१६९.१३ ॥

就在此时,以人为坐骑的俱毗罗(毗沙门)以无上的光辉向我显现,大王。

3.169.14

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यस्थितम् ।
वरुणं देवराजं च यथास्थानमवस्थितम् ॥ ३.१६९.१४ ॥

在南方,我看见阎摩站立,也看见伐楼那与众神之王因陀罗各自站在原位。

3.169.15

ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः ।
सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान् ॥ ३.१६९.१५ ॥

那些众神中的雄牛安慰我说:"大王,萨维亚萨钦(阿周那),看看我们这些站立着的世界守护者吧。"

3.169.16

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम् ।
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ ३.१६९.१६ ॥

为了成就诸神的使命,你已见到了湿婆(Śaṃkara);现在也从我们这里,从四面八方接受武器吧。

3.169.17

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् ।
प्रत्यगृह्णां तदाऽस्त्राणि महान्ति विविधानि च ॥ ३.१६९.१७ ॥

于是我自制而虔敬,向那些众神中的雄牛顶礼,接受了各种伟大的武器。

3.169.18

गृहीतास्त्रस्ततो देवैरनुज्ञातोस्मि भारत ।
अथ देवा ययुः सर्वेयथागतमरिंदम ॥ ३.१६९.१८ ॥

我接受了武器,诸神允许我离去,婆罗多之子啊;然后诸神都循来路离去了,征服敌人者啊。

3.169.19

मघवानपि मां देवो रथमारोप्य सुप्रभम् ।
उवाच भगवान्वाक्यं स्मयन्निव महायशाः ॥ ३.१६९.१९ ॥

慷慨的因陀罗神也将我安置在他光辉的战车上,大名鼎鼎的尊神面带微笑,说出了这些话。

3.169.20

पुरैवागमनादस्माद्वेदाहं त्वां धनंजय ।
अतः परं त्वहं वै त्वां दर्शये भरत्रषभ ॥ ३.१६९.२० ॥

财富的征服者啊,在你来此之前我就认识你了;但从今以后,婆罗多族的雄牛啊,我将向你展示(神圣的武器)。

3.169.21

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् ।
तपश्चेदं महत्त्प्तं स्वर्गं गन्तासि पाण्डव ॥ ३.१६९.२१ ॥

般度之子啊,你以往多次在圣渡口沐浴,并修持了这大苦行;你将升往天界。

3.169.22

भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम् ।
दुश्चरं घोरमस्त्राणां तपोबलकरं तव ॥ ३.१६९.२२ ॥

你还须再修持至高的苦行——艰难而可怖,它将增长你的武器之力与你的苦行之力。

3.169.23

स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन ।
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ॥ ३.१६९.२३ ॥

消灭敌人者啊,你务必要升往天界;奉我之命,摩多利将把你送往三界。

3.169.24

विदितस्त्वंहि देवानां मुनीनां च महात्मनाम् ।
इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम् ॥ ३.१६९.२४ ॥

般度子孙中最优秀的人啊,你确实为诸神和大德的仙人所知,你住在此地,修持极为艰难的苦行。

3.169.25

ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम ।
आचार्यं वरयेऽहं त्वामस्त्रार्थं त्रिदशेश्वर ॥ ३.१६९.२५ ॥

于是我对帝释说:「请对我慈悲,尊者啊。三十天之主,我选你为学习兵器之术的老师。」

3.169.26

क्रूरकर्माऽस्त्रवित्तात भविष्यसि परंतप ।
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ ३.१६९.२६ ॥

灭敌者啊,爱子,你将成为行凶猛之事、通晓兵器之人。你为之求取兵器的那个愿望,啊,般度之子,去获得吧。

3.169.27

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् ।
मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात् ॥ ३.१६९.२७ ॥

于是我说:「灭敌者啊,除非用兵器来抵挡兵器,我不会把天界兵器用在人身上。」

3.169.28

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप ।
लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥ ३.१६९.२८ ॥

诸神之主啊,请把那些天界兵器赐予我。诸神中最优秀者啊,此后愿我也能获得由兵器所征服的诸界。

3.169.29

परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय ।
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ ३.१६९.२९ ॥

财富胜者啊,我说这番话只是为了考验你。你的言辞合乎像我儿子一样的人,非常恰当。

3.169.30

शिक्ष मे भवनं गत्वासर्वाण्यस्त्राणि भारत ।
वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात् ॥ ३.१६९.३० ॥

婆罗多的后裔啊,前往我的居所,从风神、火神、诸婆修、水神以及摩录多众那里学习一切兵器吧。

3.169.31

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् ।
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥ ३.१६९.३१ ॥

萨底耶神的武器、祖父梵天的武器、乾闼婆、蛇神与罗刹的武器,毗湿奴的一切武器,以及涅利提的武器。

3.169.32

मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह ।
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥ ३.१६९.३२ ॥

请知道,俱卢中的最优者,一切武器皆在我中。说罢,释迦便在那里消失了。

3.169.33

अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् ।
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ ३.१६९.३३ ॥

随后,大王,我看见一辆因陀罗的神圣幻化之车站在近旁,由绿色的骏马驾驭,是摩多梨所驾。

3.169.34

लोकपालेषु यातेषु मामुवाचाथ मातलिः ।
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ ३.१६९.३४ ॥

诸世界守护者离去后,摩多梨对我说:大光明者啊,天王释迦想见你。

3.169.35

संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् ।
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ ३.१६९.३५ ॥

你已成就,大臂者;去完成至上之事。去看行善者的世界,带着你的身体升往天界吧。

3.169.36

देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत ।
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥ ३.१६९.३६ ॥

婆罗多的后裔啊,天王千眼因陀罗想见你。摩多梨如此说后,我向雪山告别。

3.169.37

प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् ।
चोदयामास स हयान्मनोमारुतरंहसः ॥ ३.१६९.३७ ॥

他向右回转,登上上好的战车,驱策那些快如意念与风的骏马。

3.169.38

मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः ।
अवैक्षत च मे वक्रृंस्तितस्याथ ससारथिः।
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ ३.१६९.३८ ॥

精通马性的摩多梨,以极高的技艺仔细观察了它们曲折的行进,连同我与御者;国王啊,当战车摇晃时,他惊讶地说了这番话。

3.169.39

अत्यद्भुतमिदं त्वद्यविचित्रं प्रतिभाति मे ।
यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ॥ ३.१६९.३९ ॥

今天在我看来这极其奇异、不可思议:你虽已登上神圣的战车,却连一步也没有离开你的位置。

3.169.40

देवराजोऽपिहि मया नित्यमत्रोपलक्षितः ।
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ ३.१६९.४० ॥

婆罗多族的雄牛啊,我在此也常见天神之王,因马匹的第一个凶兆而摇晃。

3.169.41

त्वं पुनः स्थित एवात्ररथे भ्रान्ते कुरूद्वह ।
अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे ॥ ३.१६९.४१ ॥

库鲁族的领袖啊,战车摇晃,你却又在此稳稳站立;在我看来,这一切都是你的力量,甚至超过因陀罗。

3.169.42

इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान् ।
दर्शयामास मे राजन्विमानानि च भारत ॥ ३.१६९.४२ ॥

说完这番话,摩多梨便进入天空,国王啊,婆罗多啊,他向我展示了诸神的居所与天上的宫殿。

3.169.43

स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः ।
ऋषयो देवताश्चैव पूजयन्ति नरोत्तम ॥ ३.१६९.४३ ॥

那辆由骏马驾驭的车子随即向上升起。最优秀的人啊,仙人与诸神正在礼敬它。

3.169.44

ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम् ।
गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ॥ ३.१६९.४४ ॥

随后我看见了随意往来的诸界,以及天仙、乾达婆和阿ប્સ拉斯的威力,他们的光辉无量。

3.169.45

नन्दनादीनि देवानां वनान्युपवनानि च ।
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः ॥ ३.१६९.४५ ॥

帝释的御者摩多利很快为我展示了诸神的园林,从难陀那园开始,以及他们的游乐花园。

3.169.46

ततः शक्रस्य भवनमपश्यभमरावतीम् ।
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम् ॥ ३.१६९.४६ ॥

随后我看见了帝释的住处阿摩罗跋提,它以神奇的如意树和珍宝装饰。

3.169.47

न तां भासयते सूर्यो न शीतोष्णे न च क्लमः ।
न बाधते तत्ररजस्तत्रास्ति न जरा नृप ॥ ३.१६९.४७ ॥

太阳不照耀它;没有寒热,也没有疲倦;那里尘土不扰人,大王,那里也没有衰老。

3.169.48

न तत्रशोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते ।
दिवौकसां महाराज न ग्लानिररिमर्दन।
न क्रोधलोभौ तत्रास्तामशुबं वा विशांपते ॥ ३.१६९.४८ ॥

在那里,天人身上看不到忧愁、困顿或面色苍白;大王啊,灭敌者啊,那里没有疲惫;那里没有愤怒与贪婪,也没有不祥,人主啊。

3.169.49

नित्यं तुष्टाश् ते राजन्प्राणिनः सुरवेश्मनि ।
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ ३.१६९.४९ ॥

大王啊,在诸天的居所里,众生永远欢喜;那里的树木总是开花结果,叶子翠绿。

3.169.50

पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः ।
शीतस्तत्रववौ वायुः सुगन्धो वीजते शुभः ॥ ३.१६९.५० ॥

那里有各式池塘,盛满莲花与憍善提迦花;那里吹拂着清凉、芬芳、吉祥的风,仿佛有人在为之扇动。

3.169.51

सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ।
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः।
विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः ॥ ३.१६९.५१ ॥

那里的大地镶嵌着各种珍宝,并以鲜花装饰;有许多美丽、声音甜美的鹿与鸟;还可以看到许多乘坐飞行车辆来去的天神。

3.169.52

ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् ।
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ ३.१६९.५२ ॥

然后我看见了诸婆苏、诸楼陀罗、诸萨陀耶、诸阿ditya与摩录多众,以及双阿湿吠;我便以礼回敬了他们所有人。

3.169.53

ते मां वीर्येण यशसा तेजसा च बलेन च ।
अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च ॥ ३.१६९.५३ ॥

他们因我的勇气、名声、光辉、力量、兵器以及我在战斗中的胜利而认可了我。

3.169.54

प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम् ।
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥ ३.१६९.५४ ॥

我进入那座受诸天与乾达婆供奉的神圣城市,合掌走近了千眼的天神之王。

3.169.55

ददावर्धासनं प्रीतः शक्रो मे ददतांवरः ।
बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ ३.१६९.५५ ॥

施与者中最尊贵的帝释天心生欢喜,将半座赐予我;帝释天以极大的敬意触摸我的肢体。

3.169.56

तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः ।
अस्त्रार्तमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत ॥ ३.१६९.५६ ॥

我在那里与施与丰厚的天神和乾闼婆一同住在天界,渴求武器,学习神箭,婆罗多啊。

3.169.57

विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा ।
स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ ३.१६९.५७ ॥

毗首婆苏之子质多罗犀那成为我的朋友,他,国王啊,教给我整门乾闼婆的技艺。

3.169.58

तत्राहमवसं राजन्गृहीतास्त्रः सुपूजितः ।
सुखं शक्रस् भवने सर्वकामसमन्वितः ॥ ३.१६९.५८ ॥

国王啊,我在那里获得武器,备受尊崇,在帝释天的宫殿中快乐地居住,一切所愿皆得圆满。

3.169.59

शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् ।
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥ ३.१६९.५९ ॥

我听着歌声与众多乐器的声响,看着最优秀的阿普萨拉斯起舞,婆罗多族的雄牛啊,我住在那里。

3.169.60

तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत ।
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ ३.१६९.६० ॥

婆罗多啊,我不轻视这一切,领悟了真理,并十分虔诚地接受它,只专注于武器之道。

3.169.61

ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः ।
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ ३.१६९.६१ ॥

于是千眼的大能因陀罗因那愿望而对我满意。大王啊,我如此居于天界之时,这段时光逝去了。