摩诃婆罗多 · 章 3.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.17.1
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ ३.१७.१ ॥
说罢,罗克弥尼之子,耶达瓦族中的雄牛,登上了由披甲黄褐色骏马牵引的金车。
3.17.2
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् ।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ ३.१७.२ ॥
高举张口的摩伽罗旗帜,他与那些仿佛要跃入天空的骏马一同追击敌人。
3.17.3
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः ।
तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ ३.१७.३ ॥
拉开并使最好的弓发出轰鸣,这位英雄背负箭囊、持剑,手指缠着皮制护指。
3.17.4
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम् ।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥ ३.१७.४ ॥
挥舞着闪电般的弓,从一层飞到另一层,他迷惑了住在耶夫的所有达伊提亚。
3.17.5
तस्य विक्षिपतश्चापं संदधानस्य चासकृत् ।
नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे ॥ ३.१७.५ ॥
他反复拉弓搭箭,战斗中看不到一丝空隙;敌人被击倒在战场上。
3.17.6
मुखस्य वर्णो न विकल्पतेऽस्य ।
चेलुश्च गात्राणि न चापि तस्य।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य ।
शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ॥ ३.१७.६ ॥
他的面色不变,四肢不颤;如狮子般高声咆哮时,世间听闻了他那奇妙而至上的威力。
3.17.7
जलेचरः काञ्चनयष्टिसंस्थो ।
व्यात्ताननः शत्रुबलप्रमाथी।
वित्रासयन्राजति वाहमुख्ये ।
साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ ३.१७.७ ॥
栖于水中之物,立于金杆之上,张开大口,摧毁敌军之力,令人恐惧,在车辆之首闪耀,乃沙尔瓦军前最尊贵的旗帜。
3.17.8
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः ।
साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ॥ ३.१७.८ ॥
于是,敌人之克星普拉笃摩那迅速跃出,王啊,欲与之争斗,径直冲向沙尔瓦。
3.17.9
अभियानं तु वीरेण प्रद्युम्नेन महारणे ।
नामर्षयत संक्रुद्वः साल्वः कुरुकुलोद्वह ॥ ३.१७.९ ॥
然而在大战中,沙尔瓦不能忍受英雄普拉笃摩那的进攻;俱卢族的支柱啊,他极其愤怒。
3.17.10
सरोषमहमत्तो वै कामगादवरुह्य च ।
प्रद्युम्नं योधयामास साल्वः परपुरंजयः ॥ ३.१७.१० ॥
沙尔瓦怒气填胸,从其随意飞行的飞车上下来,这位征服敌城者与普拉笃摩那交战。
3.17.11
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः ।
समेता ददृशुर्लोका बलिवासवयोरिव ॥ ३.१७.११ ॥
聚集的众人目睹二人之间那场极其激烈的战斗——沙尔瓦与毗湿尼英雄之战,仿佛是钵利与婆娑婆(因陀罗)之战。
3.17.12
तस्य मायामयो वीर रथो हेमपरिष्कृतः ।
सपताकः सध्वजश्च सानुकर्षः स तूणवान् ॥ ३.१७.१२ ॥
勇士啊,他那由幻术所造的战车以黄金装饰,有旗帜与旌旗,有轭杆,并配备箭袋。
3.17.13
स तं रथवरं श्रीमान्समारुह्य किल प्रभो ।
मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ॥ ३.१७.१३ ॥
那位威武的英雄登上那辆殊胜战车,哦主公,哦俱卢之裔,向普拉迪尤姆那射出箭矢。
3.17.14
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे ।
प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव ॥ ३.१७.१४ ॥
于是普拉迪尤姆那在战斗中迅速倾下一阵箭雨,以臂膀之速,仿佛要使萨尔瓦迷惑。
3.17.15
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट् ।
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ॥ ३.१७.१५ ॥
他被箭所伤却未在战中死去;这位绍跋国王向我的儿子射出如燃烧之火的箭矢。
3.17.16
तमापतन्तं बाणौधं स चिच्छेद महाबलः ।
ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ॥ ३.१७.१६ ॥
那位大力者切断了落向他的箭流;随后又向我的儿子投出其他燃烧的箭。
3.17.17
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः ।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ ३.१७.१७ ॥
哦王中之王,被萨尔瓦的箭所射中,鲁克米尼之子在战斗中迅速射出一支穿透要害的箭。
3.17.18
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः ।
विवेश हृदयं पत्री स पपात भृशहतः ॥ ३.१७.१८ ॥
那支由我的儿子射出的带羽箭立即穿透他的铠甲,射入他的心脏;他重伤倒地。
3.17.19
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि ।
संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम् ॥ ३.१७.१९ ॥
当那位英雄萨尔瓦王倒下失去知觉时,檀那婆的首领们冲上前来,撕裂大地。
3.17.20
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते ।
नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे ॥ ३.१७.२० ॥
大地之主啊,当索巴之主的国王失去知觉倒下时,萨尔瓦的军队中响起了阵阵哀号。
3.17.21
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम् ।
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ॥ ३.१७.२१ ॥
于是,王中之王啊,他站起身,恢复了知觉,这位大力者突然向普罗尤姆纳射出箭矢。
3.17.22
तेन बाणेन महता प्रद्युम्नः समरे स्थितः ।
जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ॥ ३.१७.२२ ॥
那支大箭深深刺入他的锁骨附近,立于战场的普罗尤姆纳显得痛苦万分。
3.17.23
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम् ।
ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥ ३.१७.२३ ॥
大王啊,萨尔瓦射中了茹克米尼之子,发出狮子般的吼声,以声音充满大地。
3.17.24
ततो मोहं समापन्ने तनये मम भारत ।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ॥ ३.१७.२४ ॥
婆罗多的后裔啊,我的儿子陷入昏迷之时,那恶人迅速又射出了其他箭矢。
3.17.25
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः ।
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ ३.१७.२५ ॥
普拉杜姆纳被那些众多的箭射中,又被他迷惑,俱卢最优秀的人啊,他在战场上一动不动。