Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.177

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.177.1

तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः ।
उत्थायावश्यकार्याणि कृतवान्भ्रातृभिः सह ॥ ३.१७७.१ ॥

那夜过去后,法王坚战起身,与兄弟们一同完成了必要的日常事务。

3.177.2

ततः संचोदयामास सोऽर्जुनं मातृनन्दनम् ।
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥ ३.१७७.२ ॥

于是他催促这位母亲之子阿周那:"孔提之子,请展示你用来战胜檀那婆的那些武器。"

3.177.3

ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः ।
अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥ ३.१७७.३ ॥

于是,大王,般度之子财富征服者展示了诸神所赐的那些天界神兵,婆罗多之子啊。

3.177.4

यथान्यायं महातेजाः शौचं परममास्थितः ।
नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः ॥ ३.१७७.४ ॥

依照礼法,这位光辉赫赫的般度之子奉持最高的洁净,向三眼神与婆娑(因陀罗)致敬。

3.177.5

गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् ।
पार्थिवं रथमास्थाय शोभमानो धनंजयः ॥ ३.१७७.५ ॥

登上王者的战车——车轴与车轮宛如山洞,有美丽的竹竿和三根竹杆——财富征服者阿周那熠熠生辉。

3.177.6

दिव्येन संवृतस्तेन कवचेन सुवर्चसा ।
धनुरादाय गाण्डीवं देवदत्तं स वारिजम् ॥ ३.१७७.६ ॥

身披那件神圣而光耀的甲胄,他拿起诸神所赐的弓甘狄跋与法螺提婆达多。

3.177.7

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः ।
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥ ३.१७७.७ ॥

贡蒂之子、大臂的阿周那光芒闪耀,依次开始展示那些神圣的兵器。

3.177.8

अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै ।
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥ ३.१७७.८ ॥

那时,当那些神圣的兵器将要使用之际,被他双脚踩压的大地连同树木一起震颤起来。

3.177.9

क्षुभिताः सरितश्चैव तथैव च महोदधिः ।
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः ॥ ३.१७७.९ ॥

河流和大海也都动荡起来;山岳崩裂,风也停止了吹动。

3.177.10

न बभासे सहस्रांशुर्न जज्वाल च पावकः ।
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन ॥ ३.१७७.१० ॥

太阳不再发光,火也不再燃烧;婆罗门们也无论如何再想不起吠陀。

3.177.11

अन्तर्भूमिगता ये च प्राणिनो जनमेजय ।
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥ ३.१७७.११ ॥

哦,阁下,地下的众生受到折磨,纷纷起身,将般度之子包围起来。

3.177.12

वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः ।
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनंजयम् ॥ ३.१७७.१२ ॥

他们全都颤抖着,合掌致敬,面目扭曲,在兵器的灼烧下向财富征服者(阿周那)恳求。

3.177.13

ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः ।
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥ ३.१७७.१३ ॥

于是梵仙、成就者与大仙,以及一切动物,都聚集在那里站立。

3.177.14

देवर्षयश्च प्रवरास्तथैव च दिवौकसः ।
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः।
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे ॥ ३.१७७.१४ ॥

天仙中的殊胜者、诸天居者,夜叉、罗刹、乾闼婆,以及鸟类和空中行走的一切生灵,都站立在那里。

3.177.15

ततः पितामहश्चैव लोकपालाश्च सर्वशः ।
भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥ ३.१७७.१५ ॥

于是祖父与一切世界守护者到来,吉祥的大天(大自在天)也于那时偕其随从前来。

3.177.16

ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः ।
अभितः पाण्डवंचित्रैरवचक्रे समन्ततः ॥ ३.१७७.१६ ॥

大王啊,那时佩戴天界花环的风神以奇异之物从四面将般度之子围绕。

3.177.17

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः ।
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥ ३.१७७.१७ ॥

受诸天驱使的乾闼婆们歌唱各种颂诗,大王啊,阿普萨拉斯的队伍成群地跳起舞来。

3.177.18

तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः ।
आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥ ३.१७७.१८ ॥

在那样的时刻,受诸天驱使的那罗陀前来,对帕尔塔说了这番值得聆听的话,大王啊。

3.177.19

अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत ।
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन ॥ ३.१७७.१९ ॥

阿周那,阿周那,婆罗多的后裔,不要使用神圣的武器。这些武器无论如何都不应在没有适当根基的情况下使用。

3.177.20

अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन ।
प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन ॥ ३.१७७.२० ॥

不处于困境之人,绝不可在没有适当根基时使用它们。库鲁之喜,滥用武器有大过错。

3.177.21

एतानि रक्ष्यमाणानि धनंजय यथागमम् ।
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥ ३.१७७.२१ ॥

达难阇耶,若这些武器依其来处而妥善守护,它们将变得强大并带来福祉,此事无疑。

3.177.22

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव ।
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥ ३.१७७.२२ ॥

般度之子,若这些武器不加守护,即使对三界也会成为毁灭之因。因此,切勿再如此行事。

3.177.23

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे ।
योज्यमानानि पार्थे नद्विषतामवमर्दने ॥ ३.१७७.२३ ॥

阿闍多设睿,你也将在战场上亲见,当般若(阿周那)以之摧破敌人时。

3.177.24

निवार्याथ ततः पार्थं सर्वे देवा यथागतम् ।
जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ ॥ ३.१७७.२४ ॥

于是,劝阻了般若之后,诸神依其来路返回;那些怀着欢喜前来的其他人也都离去了,人中之牛啊。

3.177.25

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः ।
तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया ॥ ३.१७७.२५ ॥

众神离去之后,俱卢的后裔啊,般度之子们欢喜地与黑天女一起留在了那片森林中。