摩诃婆罗多 · 章 3.179
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.179.1
नगोत्तमं प्रस्रवणैरुपेतं ।
दिशां गजैः किन्नरपक्षिभिश्च।
सुखं निवासं जहतां हि तेषां ।
न प्रीतिरासीद्भरतर्षभाणाम् ॥ ३.१७९.१ ॥
离开那座多泉的殿堂般的高山,即使有四方象、紧那罗与飞鸟相伴,婆罗多族的俊杰们心中也无欢喜。
3.179.2
ततस्तु तेषां पुनरेव हर्षः ।
कैलासमालोक्य महान्बभूव।
कुबेरकान्तं भरतर्षभाणां ।
महीधरं वारिधरप्रकाशम् ॥ ३.१७९.२ ॥
此时婆罗多族的俊杰们望见俱毗罗所爱、如雨云般明亮的冈仁波齐山(吉罗娑山),心中又生出巨大的欢喜。
3.179.3
समुच्छ्रयान्पर्वतसंनिरोधान् ।
गोष्ठान्हरीणां गिरिगह्वराणि।
बहुप्रकाराणि समीक्ष्यवीराः ।
स्थलानि निम्नानि च तत्र तत्र ॥ ३.१७९.३ ॥
勇士们四处观察:高耸之处,群山环绕之地,鹿群的牧场,山间洞穴,以及各种高低不平的地形。
3.179.4
तथैव चान्यानि महावनानि ।
मृगद्विजानेकपसेवितानि।
आलोकयन्तोऽभिययुः प्रतीता-
स्ते धन्विनाः खङ्गधरा नराग्र्याः ॥ ३.१७९.४ ॥
同样,他们一边观望其他鹿、鸟和众多猴子栖息的大森林,一边欢欣地前行,那些持弓执剑的人中俊杰。
3.179.5
वनानि रम्याणि नदीः सरांसि ।
गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु-
र्निशामुखं प्राप्य नरर्षभाणाम् ॥ ३.१७९.५ ॥
可爱的森林、河流、湖泊、山洞与山谷,这些始终成为那些人中俊杰的居所,当夜幕降临之时。
3.179.6
ते दुर्गवासं बहुधा निरुष्य ।
व्यतीत्य कैलासमचिन्त्यरूपम्।
आसेदुरत्यर्थमनोरमं ते ।
तमाश्रमाग्र्यं वृषपर्वणस्तु ॥ ३.१७९.६ ॥
他们在险僻之地多方居住,越过形状不可思议的凯拉萨山,抵达了极为宜人的跋利沙帕尔万的殊胜静修处。
3.179.7
समेत्य राज्ञा वृषपर्वणा ते ।
प्रत्यर्चितास्तेन च वीतमोहाः।
शशंसिरे विस्तरशः प्रवासं ।
शिवं यथावद्वृषपर्वणस्ते ॥ ३.१७९.७ ॥
他们与国王跋利沙帕尔万相会,受到他的回礼款待,摆脱了迷惑,便如实详细地叙述了此行的吉祥经过。
3.179.8
सुखोषितास्तस्य त एकरात्रं ।
पुण्याश्रमे देवमहर्षिजुष्टे।
अभ्याययुस्ते बदरीं विशालां ।
सुखेन वीराः पुनरेव वासम् ॥ ३.१७९.८ ॥
他们在那座为诸神与大仙所常至的圣洁静修处幸福地住了一夜,随后那些英雄来到广阔的跋达利,又安然地住了下来。
3.179.9
ऊषुस्ततस्तत्र महानुभावा ।
नारायणस्थानगताः समग्राः।
कुबेरकान्तां नलिनीं विशोकाः ।
संपश्यमानाः सुरसिद्धजुष्टाम् ॥ ३.१७९.९ ॥
那些大德者来到那罗延之所,全部一起居住;他们脱离了忧愁,注视着那片深受俱毗罗喜爱、为诸神与悉陀所常至的莲池。
3.179.10
तां चाथ दृष्ट्वा नलिनीं विशोकाः ।
पाण्डोः सुताः सर्वनरप्रधानाः।
ते रेमिरे नन्दनवासमेत्य ।
द्विजर्षयो वीतमला यथैव ॥ ३.१७९.१० ॥
诸般人中之尊、无忧的般度诸子见到那莲池后,来到如难檀那林般的住处,欢喜无比,如同清净的婆罗门仙人一般。
3.179.11
ततः क्रमेणोपययुर्नृवीरा ।
यथागतेनैव पथा समग्राः।
विहृत्य मासं सुखिनो बदर्यां ।
किरातराज्ञो विषयं सुबाहोः ॥ ३.१७९.११ ॥
随后,这些英雄依次前行,全体同行,走的仍是来时的道路。在巴达利快乐地停留了一个月后,他们到达了俱罗的王、吉罗陀族之王苏巴忽的领地。
3.179.12
चीनांस्तुषारान्दरदांश्च सर्वान् ।
देशान्कुलिन्दस्य च भूरिरम्यान्।
अतीत्य दुर्गं हिमवत्प्रदेशं ।
पुरं सुबाहोर्ददृशुर्नृवीराः ॥ ३.१७९.१२ ॥
他们穿过秦人、突火罗、达罗陀及俱罗陀诸地的众多秀丽之国,越过险峻的喜马拉雅地带,英雄们看见了苏巴忽的城市。
3.179.13
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा-
न्प्राप्तान्सुबाहुर्विषये समग्रान्।
प्रत्युद्ययौ प्रीतियुतः स राजा ।
तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ ३.१७९.१३ ॥
大王啊,苏巴忽王听说儿子与孙子们已全部抵达其境内,满心欢喜地前去迎接;俱卢族中如牛王般的英雄们也向他致意。
3.179.14
समेत्य राज्ञा तु सुबाहुना ते ।
सुतैर्विशोकप्रमुखैश्च सर्वे।
सहेनद्रसेनैः परिचारकैश्च ।
पौरोगवैर्ये च रमहानसस्थाः ॥ ३.१७९.१४ ॥
与苏巴忽王会面之后,他们全体聚集在一起——以毗尸迦为首的诸子、以因陀罗色纳为首的侍从,以及在厨房中的厨师们。
3.179.15
सुखोपितास्तत्रत एकरात्रं ।
सूतान्समादाय रथांश्च सर्वान्।
घटोत्कचं सानुचरं विसृज्य ।
ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ ३.१७९.१५ ॥
在那里快乐地歇息一夜后,他们带上御者与全部车辆,送走了持足子及其随从,随后向着亚穆那河、向着山王而行。
3.179.16
तस्मिन्गिरौ प्रस्रवणोपपन्न-
हिमोत्तरीयारुणपाण्डुसानौ।
विशाखयूपं समुपेत्य चक्रु-
स्तदा निवासं पुरुषप्रवीराः ॥ ३.१७९.१६ ॥
在那座泉水丰沛、山峰如雪袍般赤白相间的山上,那些人中的英雄来到毗舍佉柱旁,便在那里安居。
3.179.17
वराहनानामृगपक्षिजुष्टं ।
महावनं चैत्ररथप्रकाशम्।
शिवेन यात्वा मृगयाप्रधानाः ।
संवत्सरं तत्रवने विजह्रुः ॥ ३.१७९.१७ ॥
他们平安来到那片大森林,那里有野猪、鹿与众鸟,光彩如同 Caitraratha;善于狩猎的诸人在那里逗留游荡了一年。
3.179.18
तत्राससादातिबलं भुजङ्गं ।
क्षुधार्दितं मृत्युमिवोग्ररूपम्।
वृकोदरः पर्वतकन्दरायां ।
विषादमोहव्यथितान्तरात्मा ॥ ३.१७९.१८ ॥
在那里,狼腹(Vṛkodara)于山洞中遇见一条力量极大、饥饿所苦、形状凶猛如死神的蛇;他的内心因悲伤与迷惑而动摇。
3.179.19
द्वीपोऽभवद्यत्र वृकोदरस्य ।
युधिष्ठिरो धर्मभृतां वरिष्ठः।
अमोक्षयद्यस्तमनन्ततेजा ।
ग्राहेण संवेष्टितसर्वगात्रम् ॥ ३.१७९.१९ ॥
对狼腹而言,那里竟成了一座避难的岛屿;而在持守法者之中最杰出的坚战,光辉无量,将全身被鳄鱼缠住的他救出。
3.179.20
ते द्वादशं वर्षमथोपयान्तं ।
वने विहुर्तुं कुरवः प्रतीताः।
तस्माद्वनाच्चैत्ररथप्रकाशा-
च्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ ३.१७९.२० ॥
那些著名的俱卢人,在第十二年临近时,正在那片森林中游荡;随后,他们从那如同 Caitraratha 般光辉的森林启程,光彩熠熠,并具备苦行。
3.179.21
ततश्च यात्वा मरुधन्वपार्श्वं ।
सदा धनुर्वेदरतिप्रधानाः।
सरस्वतीमेत्य निवासकामाः ।
सरस्ततो द्वैतवनं प्रतीयुः ॥ ३.१७९.२१ ॥
随后,他们来到沙漠边缘,始终最喜爱射箭之术,想要定居,便抵达萨拉斯瓦蒂河,然后返回双叉林。
3.179.22
समीक्ष् तान्द्वैतवने निविष्टा-
न्निवासिनस्तत्रततोऽभिजग्मुः।
तपोदमाचारसमाधियुक्ता-
स्तृणोदपात्रावरणाश्मकुट्टाः ॥ ३.१७९.२२ ॥
众居民看见他们安住在双叉林中,便来到他们身边。这些居民具备苦行、克制、德行与禅定,身边带着草、水器、衣物和石杵。
3.179.23
प्लक्षाक्षरौहीतकवेतसाश्च ।
तथा बदर्यः खदिराः शिरीषाः।
बिल्वेङ्गुदाः पीलुशमीकरीराः ।
सरस्वतीतीररुहा बभूवुः ॥ ३.१७९.२३ ॥
plakṣa、akṣa、rauhītaka 与 vetasa 树,以及 badarī、khadira、śirīṣa、bilva、iṅgudī、pīlu、śamī 与 karīra 树,都生长在萨拉斯瓦蒂河岸。
3.179.24
तां यक्षगन्धर्वमहर्षिकान्ता-
मावासभूतामिव देवतानाम्।
सरस्वतीं प्रीतियुताश्चरन्तः ।
सुखं विजह्रुर्नरदेवपुत्राः ॥ ३.१७९.२४ ॥
诸位人王之子欢喜地在萨拉斯瓦蒂河畔游行,那里为夜叉、干闼婆和大仙所钟爱,宛如诸神的居所,他们快乐地游乐。