Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.18.1

साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे ।
वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे ॥ ३.१८.१ ॥

当最强者中最优秀的普拉迪尤姆那被沙尔瓦的箭所折磨时,决心动摇的温湿尼族在军队前锋感到痛苦。

3.18.2

हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः ।
प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत् ॥ ३.१८.२ ॥

于是温湿尼与安陀迦的全军充满了哀号。大王啊,普拉迪尤姆那昏迷时,沙尔瓦非常欢喜。

3.18.3

तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः ।
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा ॥ ३.१८.३ ॥

看到他这样昏迷,训练有素的御者达卢迦立即用迅捷的马把他迅速带离了战场。

3.18.4

नातिदूरापयाते तु रथे रथवरप्रणुत् ।
धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम् ॥ ३.१८.४ ॥

车驾还未走远,那位驾驭最好战车的人恢复了知觉,拿起弓,对御者说了这番话。

3.18.5

सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः ।
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥ ३.१८.५ ॥

御者啊,你打定了什么主意?为何背转身离去?人们说,这不是温湿尼英雄在战斗中的责任。

3.18.6

कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे ।
विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥ ३.१८.६ ॥

御者啊,是看到沙尔瓦在这场大战中让你迷惑了吗?还是看到这场战斗而心生绝望?请把实情照实告诉我。

3.18.7

जानार्दने न मे मोहो नापि मां भयमाविशत् ।
अतिभारं तु ते मन्ये साल्वं केशवनन्दन ॥ ३.१८.७ ॥

哦,阁下(Janārdana),我既无迷惑,也未被恐惧所侵;但哦,克舍婆之子,我认为沙尔婆对你而言是过重的负担。

3.18.8

सोभियाति शनैर्वीर बलवानेष पापकृत् ।
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥ ३.१८.८ ॥

他缓缓逼近,哦英雄;此强大的作恶者。在战场上迷惑的勇士、车战者,应由御者加以保护。

3.18.9

आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम् ।
रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम् ॥ ३.१८.९ ॥

哦,长寿者,你应始终受我保护,我也应始终受你保护。想到在战斗中我总需被保护,我便退却。

3.18.10

एकश्चासि महाबाहो बहवश्चापि दानवाः ।
न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा ॥ ३.१८.१० ॥

你孤身一人,哦大臂者,而达那婆却众多。哦,鲁克弥尼之子,我想到在战斗中我不能与他们相当,因此退却。

3.18.11

एवं ब्रुवति सूते तु तदा मकरकेतुमान् ।
उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः ॥ ३.१८.११ ॥

御者如此说话时,摩迦罗旗者(阿周那)对御者说道:哦,俱卢之裔,再次调转战车。

3.18.12

दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन ।
न्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥ ३.१८.१२ ॥

哦,达卢迦之子,今后绝不可再如此行事。哦,御者,只要我还活着,切勿从战斗中退却。

3.18.13

न स वृष्णिकुले जातो यो वै त्यजति संगरम् ।
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥ ३.१८.१३ ॥

生于毗湿尼家族者不会弃战;他也不会击杀倒下之人,或说“我是你的”之人。

3.18.14

तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च ।
विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा ॥ ३.१८.१४ ॥

击杀妇女、孩童或老人者亦然;击杀无车、披发、武器折断之人者亦然。

3.18.15

त्वं च सूतकुले जातो विदितः सूतकर्मणि ।
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥ ३.१८.१५ ॥

你生于御者之家,以驾车之术闻名;达嚕迦啊,在战场上你也通晓毗湿尼族的法。

3.18.16

स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे ।
अपयानं पुन सौते मैवं कार्षीः कथंचन ॥ ३.१८.१६ ॥

你深知毗湿尼族的全部行为,御者啊,绝不可再在军前后退。

3.18.17

अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम् ।
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥ ३.१८.१७ ॥

对于我这个退却、从背后受伤、慌乱、从战场逃走的人,迦陀的长兄、不可战胜的摩陀婆会对我说什么?

3.18.18

केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः ।
किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥ ३.१८.१८ ॥

克沙瓦之兄、身着蓝衣、因傲慢而狂暴的大臂巴拉罗摩来到时会说什么?

3.18.19

किं वक्ष्यतिशिनेर्नप्ता रणसिंहो महारथः ।
अपयातं रणात्सूत साम्बश्च समितिंजयः ॥ ३.१८.१९ ॥

史尼之孙、战斗之狮、大战车武士将说什么?御者啊,从战场撤退的、胜于集会的萨巴将说什么?

3.18.20

चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ ।
अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥ ३.१८.२० ॥

遮卢德舍那与难以抵挡者,同样地,伽陀与萨罗那,以及大臂的阿可卢罗,他们将对我说什么,御者啊?

3.18.21

शूरं संभावितं शान्तं नित्यं पुरुषमानिनम् ।
स्त्रियश्च वृष्णिवीराणां किं मांवक्ष्यन्ति संगताः ॥ ३.१८.२१ ॥

“勇敢、受人敬重、平静,总以男子气概自豪”——众多的伐尔沙英雄们的妇人聚集起来,会对我说什么?

3.18.22

प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम् ।
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥ ३.१८.२२ ॥

普拉德尤姆纳恐惧地放弃了大战而返回。他们会说:“耻辱归他!”,而不会说:“做得好!”。

3.18.23

धिग्वाचा परिहासोपि मम वा मद्विधस्य वा ।
मृत्युनाऽभ्यधिकः सौते स त्वं माव्यपयाः पुनः ॥ ३.१८.२३ ॥

即使是以责备之言相讥讽,加在我身上或像我这样的人身上,也比死亡更甚。御者啊,你不要再后退了。

3.18.24

भारं हि मयि संन्यस्य यातो मधुनिहा हरिः ।
यज्ञं बारतसिंहस्य न हि शक्योऽद्यमर्षितुम् । ॥ ३.१८.२४ ॥

哈利(摩头的杀者)把重担交给我后已经离去。今日不可能不耐烦地忍受婆罗多族雄狮的牺牲。

3.18.25

कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः ।
साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥ ३.१८.२५ ॥

勇士克里塔瓦尔曼正要出发时,我阻止了他,说:“我去挡住沙尔瓦,你留在这里。”御者之子啊。

3.18.26

स च संभावयन्मां वै निवृत्तो हृदिकात्मजः ।
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथं ॥ ३.१८.२६ ॥

他尊敬着我而返回了。离开战场,与那位大战车勇士相见时,我该说什么呢?

3.18.27

उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम् ।
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥ ३.१८.२७ ॥

当那持螺、轮、杵,不可战胜、莲花眼、大臂的神人走近时,我该说什么呢?

3.18.28

सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः ।
मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहं ॥ ३.१८.२८ ॥

我该如何向萨提亚基、巴拉罗摩以及其他时常与我竞争的安陀迦、伐栗尼人说呢?

3.18.29

त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः ।
त्वयाऽपनीती विवशो न जीवेयं कथंचन ॥ ३.१८.२९ ॥

离开这场战斗,御者之子啊,被背后的箭射中,又被你无助地带走,我无论如何也活不下去。

3.18.30

संनिवर्त रथेनाशु पुनर्दारुकनन्दन ।
न चैतदेवं कर्तव्यमथापत्सु कथंचन ॥ ३.१८.३० ॥

御者达卢迦之子啊,快快调转战车。这样做不应该,即使在任何灾难中也不应如此。

3.18.31

न जीवितमहं सौते बहु मन्ये कथंचन ।
अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥ ३.१८.३१ ॥

御者啊,若我因恐惧而逃离战场,被从背后射来的箭所伤,我便完全不看重性命。

3.18.32

कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम् ।
अपयातं रणं हित्वा यथा कापुरुषं तथा ॥ ३.१८.३२ ॥

御者之子啊,你可曾见过我因恐惧所困而弃战逃跑,如同懦夫一般?

3.18.33

अयुक्तं तु मया त्यक्तुं संग्रामं दारुकात्मज ।
मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥ ३.१८.३३ ॥

达鲁迦之子啊,我不应放弃战斗;我极其渴望战争,所以驾车前往战场所在之处吧。