摩诃婆罗多 · 章 3.181
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.181.1
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ ३.१८१.१ ॥
那时光辉的毗摩森那落入了蛇的掌控之中,他开始思量这条蛇极为奇异的伟大力量。
3.181.2
उवाच च महासर्पं कामयाब्रूहि पन्नग ।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥ ३.१८१.२ ॥
他对那条大蛇说:"请告诉我,蛇啊,你是谁?蛇中之王,你将对我做什么?"
3.181.3
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ ३.१८१.३ ॥
"我是般遮族的毗摩森那,紧接在法王之后出生。我拥有万象之力,你是如何将我制服的?"
3.181.4
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।
समागताश्च बहुशो निहताश्च मया युधि ॥ ३.१८१.४ ॥
"狮子、鬃毛的狮子、老虎、水牛和大象,也曾多次与我相遇,并在战斗中被我杀死。"
3.181.5
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥ ३.१८१.५ ॥
"罗刹、毗舍遮和强大的蛇,都无法承受我双臂的力量,蛇中之王啊。"
3.181.6
किंनु विद्याबलं किंनु वरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया ॥ ३.१८१.६ ॥
"这是你的知识之力,还是你所得的某种恩赐?或者,虽然我正在努力,却仍被你所制服?"
3.181.7
अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः ।
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ ३.१८१.७ ॥
我认为人的勇力是不可战胜的;因为,蛇啊,你阻止了我这巨大的力量。
3.181.8
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।
भोगेन महता गृह्य समन्तात्पर्यवेष्टयत् ॥ ३.१८१.८ ॥
英雄毗摩说完这话,这位行事不费力的勇士便被那巨蛇用它庞大的身躯抓住,从四面八方缠绕起来。
3.181.9
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा ।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ ३.१८१.९ ॥
那蛇抓住这位大臂者后,便松开了他粗壮的双臂,说出了这番话。
3.181.10
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां ॥ ३.१८१.१० ॥
啊,大臂者!今天众神注定让你成为我这饥饿者的食物;幸而在伟大的时间面前,有形体者都珍视自己的性命。
3.181.11
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम ।
तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम ॥ ३.१८१.११ ॥
啊,制敌者!我如何落得这蛇身,你必须从我这里听闻;请听我说。
3.181.12
इमामवस्थां संप्राप्तो ह्यहं कोपान्महर्षिणा ।
शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत् ॥ ३.१८१.१२ ॥
我因大仙的愤怒而落入此境;为求得诅咒的终结,我将把一切都讲给你听。
3.181.13
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः ॥ ३.१८१.१३ ॥
名为那呼沙的王仙,想必你已清楚听闻;他是你祖先中的第一位,承继阿由血脉的儿子。
3.181.14
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ ३.१८१.१४ ॥
因阿伽斯提亚的诅咒,也因我轻慢婆罗门,我落入了这般境地。看吧,这便是我的命运。
3.181.15
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ ३.१८१.१५ ॥
若你这不可杀害、极为可爱的人走来,今日我便要抓住你。看看我的办法是怎样的。
3.181.16
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः ।
गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम ॥ ३.१८१.१६ ॥
人中之最,凡落入我掌握的,无论以何种方式都不得脱身,无论是象是水牛,即便到第六时也是如此。
3.181.17
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ ३.१८१.१७ ॥
科罗瓦中的最上者啊,你并非仅仅被一条居于畜生胎中的蛇所捉住;这是我的赐予。
3.181.18
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ ३.१८१.१८ ॥
我从因陀罗之座、从天车之顶急速坠落时,人们对那位尊贵的圣人之最说:「请结束这诅咒吧。」
3.181.19
यस्त्वया वेष्टितो राजन्मोहमेति महाबलः ।
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ ३.१८१.१९ ॥
君王啊,你所缠绕的那位大力者陷入迷惑;君王啊,经过一段时间后,你将获得解脱。
3.181.20
ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ ३.१८१.२० ॥
于是我倒在地上,然而记忆并未离我而去;古老的往世书仍在我心中,正如我所学到的那样。
3.181.21
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित् ।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ ३.१८१.२१ ॥
谁能精通分类,回答你所提出的问题,谁就能使你脱离诅咒——圣人如此对我说。
3.181.22
गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः ।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ ३.१८१.२२ ॥
君王啊,你所抓住的生灵,纵然强大,其生命力也将衰竭;凡是过度之物,也都很快会如此。
3.181.23
इतिचाप्यहमश्रौषं वचस्तेषां दयावताम् ।
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ ३.१८१.२३ ॥
我也这样听到了那些对我怀有慈悲的再生者的话语;随后这些婆罗门便消失了。
3.181.24
सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्यकालाकाङ्क्षी महाद्युते ॥ ३.१८१.२४ ॥
我,行恶极重,居于不净的地狱之中;光耀者啊,我得了这蛇身,正等待那定期的时刻。
3.181.25
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् ।
न ते कुप्ये महासर्प नात्मने द्विजसत्तम ॥ ३.१८१.२५ ॥
臂力强大的怖军对那条蛇说:“大蛇啊,最优秀的再生者,我既不恼怒你,也不恼怒我自己。”
3.181.26
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः ॥ ३.१८१.२६ ॥
因为在苦乐之中,无论其注定发生与否,无论其来或去,人都不应让自己的心烦恼。
3.181.27
दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ ३.१८१.२७ ॥
谁能以人力欺骗命运?我认为命运才是至高的,人力则毫无用处。
3.181.28
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥ ३.१८१.२८ ॥
你看,因命运的打击,我这个依仗臂力的人,今日在此无缘无故地陷入了这种境地。
3.181.29
किंतु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम् ।
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ ३.१८१.२९ ॥
然而今日我既不为自己这样被毁而悲伤,也不为被留在森林中、失去王国的兄弟们而悲伤。
3.181.30
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः ।
मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः ॥ ३.१८१.३० ॥
这喜马拉雅极难穿越,充满夜叉与罗刹;他们望着我,将惶恐地奋力而行。
3.181.31
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ ३.१८१.३१ ॥
听闻我已覆灭,他们将变得消沉无力;那些持守法德之人,确实正被我这贪求王国者所压迫。
3.181.32
अथवा नार्जुनो धीमान्विषादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ ३.१८१.३२ ॥
或者,智慧的阿周那不会陷入忧愁;他精通一切兵器,连天神、乾闼婆与罗刹都无法战胜他。
3.181.33
समर्थः स महाबाहुरेकाङ्ना सुमहाबलः ।
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥ ३.१८१.३३ ॥
那位大臂者独自一人便极其强大,能轻易地将诸神之王从其位置上驱逐。
3.181.34
किं पुनर्धृतराष्ट्रस् पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥ ३.१८१.३४ ॥
更何况德拉什特拉之子,那个不祥的赌徒,为万世所憎恶,沉溺于傲慢与迷惑之中呢?
3.181.35
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ ३.१८१.३५ ॥
我也为我们的母亲悲伤,她可怜又贪恋儿子们,总是为我们希求比他人更大的尊荣。
3.181.36
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम् ।
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥ ३.१८१.३६ ॥
可是那无人庇护的母亲,因我的毁灭将如何?啊,毒蛇,你的一切愿望都将在我身上实现。
3.181.37
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ ।
मद्वाहुबलसंगुप्तौ नित्यं पुरुषमानिनौ ॥ ३.१८१.३७ ॥
那可拉与萨诃提婆,两位孪生兄弟,服从长兄,常受我臂力的庇护,以男子气概自豪。
3.181.38
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥ ३.१८१.३८ ॥
因我的毁灭,那二人将失去锐气,丧失勇力与威武,极度衰弱——我的想法是如此。
3.181.39
एवंविधं बहु तदा विललाप वृकोदरः ।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ ३.१८१.३९ ॥
那时,狼腹(怖军)如此悲叹良久,被蛇身的盘绕所缠,连动弹都不能。
3.181.40
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः ।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ ३.१८१.४० ॥
然而昆蒂之子坚战心神不安,思量着所见的可怖凶兆。
3.181.41
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ ३.१८१.४१ ॥
右边一只豺狼,在光亮的方向惊恐地站着,在那隐修处发出可怖而不祥的嚎叫。
3.181.42
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा ॥ ३.१८१.४२ ॥
一只独翼、独目、独足、形貌可怖的鹌鹑,吐着血,在太阳对面闪耀着,被人看见。
3.181.43
प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ ३.१८१.४३ ॥
狂暴粗糙的风吹起,卷着砂石;一切飞禽走兽的鸣叫都变成了不祥之兆。
3.181.44
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति ।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥ ३.१८१.४४ ॥
身后一只黑乌鸦一遍又一遍地叫着「去吧,去吧」,他的右臂也一次又一次地跳动。
3.181.45
हृदयं चरणश्चापि वामोऽस्य परितप्यति ।
सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत ॥ ३.१८१.४५ ॥
他的心和左脚也开始如火焚般痛苦,左眼也出现了不祥的抽动。
3.181.46
धर्मराजोपि मेधावी शङ्कमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥ ३.१८१.४६ ॥
智慧的法王也因担忧巨大的危险而心生疑虑,向德劳帕迪仔细询问:「婆罗多之后,怜度在哪里?」
3.181.47
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ ३.१८१.४७ ॥
德劳帕迪告诉他,狼腹(怜度)早已离去。于是这位臂力强大的国王与达乌米亚一同出发。
3.181.48
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥ ३.१८१.४८ ॥
他对财富的征服者(阿周那)说:「必须保护德劳帕迪」,并对那古拉和萨哈德瓦下达了关于婆罗门的指示。
3.181.49
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।
मृगयामास कौन्तेयो भीमसेनं महावने ॥ ३.१८१.४९ ॥
这位强大的昆蒂之子辨认出他的足迹,便从那座修行处出发,在大森林中寻找bhīmasena。
3.181.50
स प्राचीं दिशमास्थाय महतो गजयूथपान् ।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ ३.१८१.५० ॥
他朝东方前行,看见大象群及其首领,也看见大地上布满了Bhīma留下的痕迹。
3.181.51
ततो मृगसहस्राणि मृगेनद्राणां शतानि च ।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः ॥ ३.१८१.५१ ॥
随后,他看见森林中倒下了数千只鹿和数百只mṛgendra(狮子),便踏上了他的路。
3.181.52
धावतस्तस्य वीरस् मृगार्थं वातरंहसः ।
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः ॥ ३.१८१.५२ ॥
那位英雄追赶鹿,疾如风,被他大腿带起的风折断的树木,在路旁弯倒。
3.181.53
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।
रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले ॥ ३.१८१.५३ ॥
他循着那些痕迹前去,在山谷洞中看见,那里狂风大作,枝叶凋零的树木密布。
3.181.54
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले ।
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे।
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥ ३.१८१.५४ ॥
在那片贫瘠无水之地,荆棘丛生,遍布石块、树桩与芦苇,极难通行,崎岖不平,弟弟此时被蛇王抓住,僵卧不动。