摩诃婆罗多 · 章 3.182
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.182.1
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं धीमानिदं वचनमब्रवीत् ॥ ३.१८२.१ ॥
智慧的坚战走近被蛇身缠绕的心爱兄弟,说出了这些话。
3.182.2
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ ३.१८२.२ ॥
鬼哈,昆提之子啊,你怎会陷入这场灾祸?这条与山峦同样庞大的蛇王又是谁?
3.182.3
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम् ॥ ३.१८२.३ ॥
那位兄弟望着法王,将被擒等一切经过全都讲给了他的兄长。
3.182.4
अयमार्य महासत्वो भक्षार्थं मां गृहीतवान् ।
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः ॥ ३.१८२.४ ॥
尊者啊,这位大力者为了食物抓住了我。他是名叫那呼沙的王仙,如同有生命一般站立着。
3.182.5
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम् ॥ ३.१८२.५ ॥
长寿者啊,请放了我这位勇武无量的兄弟。我们将另给你食物,以止你的饥饿。
3.182.6
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः ।
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत् ॥ ३.१८२.६ ॥
长寿者啊,请放了我这位勇武无量的兄弟。让他走吧,不可留在此地;明日,你也可能成为我的食物。
3.182.7
व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत् ।
स म भक्षो भवेत्तात त्वं चापि विषये मम ॥ ३.१८२.७ ॥
这是我的誓愿,大臂者啊:凡进入我领地的人,都将成为我的食物。孩子,你也在我的领地之内。
3.182.8
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ॥ ३.१८२.८ ॥
隔了许久,今天我得到了这份食物——你的弟弟。我不会放了他,也不想要别的人。
3.182.9
देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ३.१८२.९ ॥
无论你是天神、阿修罗,还是蛇——蛇啊,请说实话:坚战在问你。
3.182.10
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम ।
किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ३.१८२.१० ॥
蛇啊,你为何抓住了婆罗摩那(婆提摩森)?带来什么食物,或在不知情中,才能让你满足?蛇啊,我该给你什么食物,你又如何放了他?
3.182.11
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥ ३.१८२.११ ॥
无罪者啊,我从前是名叫那呼沙的国王,是你的祖先。人主啊,我是从月神算起第五代的阿由之著名之子。
3.182.12
क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च ॥ ३.१८२.१२ ॥
我以祭祀、苦行、诵读吠陀与克己,获得了三界不动摇的王权;而因恶业(我堕落了)。
3.182.13
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिविकां मम ॥ ३.१८२.१३ ॥
获得那权势之后,当时傲慢便侵入了我。一千名再生者抬着我的轿子。
3.182.14
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान् ।
इमामगस्त्येन दशामानीत इतिमे स्मृतिः ॥ ३.१८२.१४ ॥
我因权势的迷醉而狂妄,轻慢了再生者;我记得,随后阿伽斯蒂耶使我落到了这般境地。
3.182.15
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ ३.१८२.१५ ॥
然而,只要般度之子仍在随我而来,我的智慧便未曾离我;大王啊,这正是因为伟大的阿伽斯蒂耶的恩惠。
3.182.16
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये ॥ ३.१८२.१६ ॥
在第六个时辰,这份食物来到了我这里——就是你的弟弟。我不会放他走,也不想要别的东西。
3.182.17
प्रश्नानुच्चारितानद्य वायहरिष्यसि चेन्मम ।
तथापश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ ३.१८२.१७ ॥
如果你今天能回答我所提出的问题,那么之后我便释放你的兄弟狼腹(Vṛkodara)。
3.182.18
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम् ॥ ३.१८२.१८ ॥
蛇啊,随你的意愿说吧;我会回答你的话,或许我还能使你欢喜,蛇啊。
3.182.19
वेद्यंच ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ ३.१८२.१९ ॥
婆罗门所应知晓之事,唯有你完全知道。蛇王啊,听了你的话,我将回答你。
3.182.20
ब्राह्मणः को भवेद्राजन्वेद्यं किंच युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनिमिनोमि ते ॥ ३.१८२.२० ॥
大王,谁可以称为婆罗门?所应知晓的是什么?请说吧,坚战啊。你的智慧最为敏锐;我将以我的话让你明白。
3.182.21
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा ।
दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः ॥ ३.१८२.२१ ॥
真实、布施、忍耐、德行、不残忍、苦行与慈悲所在之处,蛇王啊,此人便被称为婆罗门。
3.182.22
वेद्यं सर्प परं ब्र्हम निर्दुःखमसुखं च यत् ।
यत्रगत्वा न शोचन्ति भवतः किं विवक्षितं ॥ ३.१८२.२२ ॥
蛇啊,所应知晓的至上梵,无苦亦无乐;到达之后,人们不再忧伤。你想说的是什么?
3.182.23
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ ३.१८२.२३ ॥
坚战啊,四种姓、权威、真实、梵(吠陀)、不残忍、不杀生与慈悲——这些便是。
3.182.24
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ ३.१८२.२४ ॥
人主啊,此处所应知晓的,无苦亦无乐;我认为,除去这两者之外,别无其他境界。
3.182.25
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ ३.१८२.२५ ॥
若标志属于首陀罗,则不见于再生者身上。首陀罗不一定永远是首陀罗,婆罗门也不一定永远是婆罗门。
3.182.26
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः ।
तत्रैतन्न वेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ ३.१८२.२६ ॥
蛇啊,凡见有此行为之处,那人便被认为是婆罗门;凡你不知此行为之处,则应称他为首陀罗。
3.182.27
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति च ।
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि ॥ ३.१८२.२७ ॥
即使你说过不可知者可以找到,且除去那二者便再无别的境地,
3.182.28
एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ ३.१८२.२८ ॥
蛇啊,这是我的看法:那二者之外确有某物存在。正如在寒与热之间,既无热,也无寒。
3.182.29
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ ३.१८२.२९ ॥
同样,某处确有一种超越苦乐的境地。蛇啊,这是我的看法,或者随你怎么认为。
3.182.30
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।
वृथा जातिस्तदायुष्मन्कृतिर्यावन्न विद्यते ॥ ३.१८२.३० ॥
大王,若你确已依行为仔细考察婆罗门,那么长寿者啊,只要不见行为,出身便是徒然的。
3.182.31
जातिरत्रमहासर्प मनुष्यत्वे महामते ।
संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ ३.१८२.३१ ॥
大蛇啊,大智者啊!在人类之中,因一切种姓的混杂,此处的出身难以辨明——这是我的看法。
3.182.32
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ ३.१८२.३२ ॥
当所有男人与所有女人生育子嗣时,那么对人类而言,交合、出生与死亡便都是一样的。
3.182.33
इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ ३.१८२.३३ ॥
这是仙人的权威,我们所行的祭祀亦然。因此,见真理者知道品行(戒)才是首要而可贵的。
3.182.34
प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते ।
तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम्।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ ३.१८२.३४ ॥
在人的身体成长之前,规定了出生礼;同样,对再生族(二生者)的入门礼也依次宣说。在那里,他的母亲被称为萨维特丽,而他的父亲则被称为导师。
3.182.35
वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते ।
तस्मिन्नेवं मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत् ॥ ३.१८२.३५ ॥
就行为而言,此人与首陀罗无异,直到他通过吠陀而重生。在这种意见分歧中,自生曼陀罗如此说道。
3.182.36
कृतकृत्याः सर्ववर्णा यदि वृत्तं न पश्यति ।
संकरस्त्वत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३.१८२.३६ ॥
若不观察品行,则一切种姓皆已完成其本分;然而,蛇王啊,在此处,混杂被认为是强大的。
3.182.37
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३.१८२.३७ ॥
大蛇啊,如今所崇尚的是合乎礼仪的行为,关于那位婆罗门我先前已经说过,蛇中之最。
3.182.38
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३.१८२.३८ ॥
犹太希腊啊,我已听闻你这位通晓应知之事者的言语。那么我为何要吞食你的兄弟狼腹(Vṛkodara)呢?