摩诃婆罗多 · 章 3.184
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.184.1
निदाघान्तकरः कालः सर्वभूतसुखावहः ।
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ॥ ३.१८४.१ ॥
终结炎夏、带给一切众生安乐的时节到来了;对于住在那里的他们,雨季降临了。
3.184.2
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः ।
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ ३.१८४.२ ॥
遮蔽了四方,发出巨大轰鸣的乌云那时昼夜不停地倾注而下。
3.184.3
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः ।
अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ॥ ३.१८४.३ ॥
那些作为炎热结束之居所的云,成百上千地涌来;太阳光的网络消失了,它们的光环如闪电般明亮。
3.184.4
विरूढशष्पा धरणी मत्तदंशसरीसृपा ।
बभूव पयसा सिक्ता शान्तधूमरजोगणा ॥ ३.१८४.४ ॥
长满新草的大地,充满躁动的蚊虫与爬行之物,被水浇透;尘土与烟雾之团也平息了。
3.184.5
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते ।
समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ॥ ३.१८४.५ ॥
一切被水覆盖之时,什么也辨认不出:无论平地还是高低不平之地,河流还是固定之物。
3.184.6
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः ।
सिन्धवः शोभयांचक्रुः काननानि तपात्यये ॥ ३.१८४.६ ॥
水流翻腾、力量巨大的河流,如喘息般疾驰,在炎热结束之时装点了森林。
3.184.7
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः ।
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ ३.१८४.७ ॥
林缘传来各种声音:野猪、鹿和鸟类在咆哮,被雨水打得连连作响。
3.184.8
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह ।
मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ॥ ३.१८४.८ ॥
小孔雀与成群的雄杜鹃一同陶醉地飞舞,骄傲的青蛙也是如此。
3.184.9
तदा बहुविधाकारा प्रावृण्मेघानुनादिता ।
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ ३.१८४.९ ॥
于是,雨季以种种面貌、回荡着云间雷鸣而过去了,对于在沙漠之地漂泊的人们,它是吉祥的。
3.184.10
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत् ।
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥ ३.१८४.१० ॥
秋天充满了鹤与天鹅,变得欢欣;林地长满了茂密的灌木,河流流淌着清澈的水。
3.184.11
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत् ।
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ ३.१८४.११ ॥
晴朗的天空与星辰之秋,对伟大的般度五子而言变得吉祥;那里充满了鹿与鸟。
3.184.12
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः ।
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥ ३.१८४.१२ ॥
可以看到尘埃落定的夜晚,被夜露与云层带来清凉;它们因群星与众行星以及月亮而光辉灿烂。
3.184.13
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः ।
नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ॥ ३.१८४.१३ ॥
他们看见了被睡莲与白莲装点、水流清凉的吉祥河流与莲池。
3.184.15
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् ।
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥ ३.१८४.१५ ॥
那些持坚弓的英雄,望见清澈满盈、吉祥的萨拉斯瓦蒂河,心中欢喜。
3.184.16
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी ।
तत्रैव वसतामासीत्कार्तिकी जनमेजय ॥ ३.१८४.१६ ॥
嗟乎,遮那弥阳耶,他们住在那里时,秋季月相交接处的迦尔提基之夜最为神圣。
3.184.17
पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः ।
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ॥ ३.१८४.१७ ॥
婆罗多之最啊,般度五子与行善的大德苦行者一同修成了那至高的瑜伽。
3.184.18
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः ।
सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ॥ ३.१८४.१८ ॥
在黑暗破晓之时,般度五子与仙人达乌尔亚及御者、厨师一同前往迦摩耶迦森林。