Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.185

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.185.1

काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः ।
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ ३.१८५.१ ॥

俱卢后裔啊!他们到达迦密耶迦林,在坚战的率领下,受到众仙人的款待,与黑公主一同坐下。

3.185.2

ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ ३.१८५.२ ॥

于是许多婆罗门从四面八方围绕着住在那里、已完全安心的般度之子。

3.185.3

अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ॥ ३.१८५.३ ॥

这时,阿周那的一位亲密朋友婆罗门说:"那位大臂、自制、心胸高尚的肖里(克里希纳)将会来到。"

3.185.4

विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ॥ ३.१८५.४ ॥

俱卢中的俊杰啊,你们到此处,哈里是知道的。哈里总是渴望见到你们,并寻求你们的福祉。

3.185.5

बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ ३.१८५.५ ॥

长寿的大苦行者摩根德耶,具足以诵读为苦行,不久将与你们相会。

3.185.6

तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः ।
शैब्यसुग्रीवयुक्तेन रथेन रथिनारः ॥ ३.१८५.६ ॥

他正这样说着,克沙瓦便出现在由沙毗耶与须羯里婆驾驭的战车上,他是车手中的最优秀者。

3.185.7

मघवानिव पौलोम्या सहितः सत्यभामया ।
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ ३.१८५.७ ॥

如同因陀罗与补罗米同行,提婆吉之子与萨提亚婆玛同来,渴望见到库鲁族的最优秀者。

3.185.8

अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥ ३.१८५.८ ॥

克里希那从车上下来,喜悦地依礼向法王和力士中最优秀的毗摩致敬。

3.185.9

पूजयामास धौम्यं च यमाभ्यामभिवादितः ।
परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत् ॥ ३.१८५.९ ॥

在双生子耶摩的问候中,他尊敬了达乌摩;随后拥抱了大福德的黑公主,并好好地安慰了她。

3.185.10

स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।
पर्यष्वजत दाशार्हः पुनः पुनररिंदमः ॥ ३.१८५.१० ॥

见到久别归来的爱戴英雄法尔古那,制敌者达沙尔哈一再拥抱了他。

3.185.11

तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे ।
पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया ॥ ३.१८५.११ ॥

同样,克里希那最爱的正妃萨提亚婆玛拥抱了般度诸子心爱的妻子黑公主。

3.185.12

ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः ।
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ ३.१८५.१२ ॥

于是所有般度子弟与妻子及祭司一同敬拜了莲花眼者,并从四面将他围住。

3.185.13

कृष्णस्तु पार्थेन समेत्य विद्वान् ।
धनंजयेनासुरमर्दनेन।
बभौ यथा भूतपतिर्महात्मा ।
समेत्य साक्षाद्भगवान्गुहेन ॥ ३.१८५.१३ ॥

智者黑天与帕尔塔相会,与摧毁阿修罗的达南阳耶同辉。正如伟大的众生之主亲见吉祥的古诃神。

3.185.14

ततः समस्तानि किरीटमाली ।
वनेषु वृत्तानि गदाग्रजाय।
उक्त्वा यथावत्पुनरन्वपृच्छ-
त्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ॥ ३.१८५.१४ ॥

随后,戴花冠的阿周那将林中所经历的一切如实告诉了伽达的长兄,又再次询问苏跋陀罗与阿毗曼尤的情况。

3.185.15

धौम्यं च कृष्णां च युधिष्ठिरं च ।
यमौ च भीमं च दशार्हसिंहः।
उवाच दिष्ट्या भवतां शिवेन ।
प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ ३.१८५.१५ ॥

对达乌姆亚、黑天女、坚战、双生子与怖军,十部族之狮(黑天)说道:“幸运的是,你们都平安;喜悦的戴冠者已归来,精通武艺。”

3.185.16

स पूजयित्वा मधुहा यथाव-
त्पार्थांश्च कृष्णां च पुरोहितं च।
उवाच राजानमभिप्रशंसन् ।
युधिष्ठिरं तेन सहोपविश्य ॥ ३.१८५.१६ ॥

他依礼供奉了杀摩图的黑天、普利塔之子们、黑天女以及家中祭司,随后与他们一同坐下,极力赞美国王坚战,说道。

3.185.17

धर्मः परः पाण्डव राज्यलाभा-
त्तस्यादिमाहुस्तप एव राजन्।
सत्यार्जवाभ्यां चरता स्वधर्मं ।
जितस्त्वयाऽचं परश्च लोकः ॥ ३.१८५.१७ ॥

般度之子啊,王位的获得带来至高的法;国王啊,人们说它的根本正是苦行。以真实与正直奉行自身之法,你已征服了此世与彼世。

3.185.18

अधीतमग्रे चरता व्रतानि ।
सम्यग्धनुर्वेदमवाप्य कृत्स्नम्।
क्षात्रेण धर्मेण वसूनि लब्ध्वा ।
सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ ३.१८५.१८ ॥

往昔持守誓愿时,你已完整学成弓术之学;依刹帝利之法,你获得了财富。实则古老的诸祭祀,你都已完成。

3.185.19

न ग्राम्यधर्मेषु रतिस्तवास्ति ।
कामान्न किंचित्कुरुषे नरेन्द्र।
न चार्तलोभात्प्रजहासि धर्मं ।
तस्मात्प्रभावादसि धर्मराजः ॥ ३.१८५.१९ ॥

人主啊,你对世俗之乐并无贪恋;你不因欲望而有所作为,也不因困顿的贪念而舍弃法。因此,凭你的威德,你便是法王。

3.185.20

दानं च सत्यं च तपश्च राजन् ।
क्षमा च शान्तिश्च दमो धृतिश्च।
अवाप्य राष्ट्राणि वसूनि भोगा-
नेषा परा पार्थ सदा रतिस्ते ॥ ३.१८५.२० ॥

王啊,布施、真实、苦行、忍耐、寂静、克制与坚定——即便已得到诸王国、财富与享受,贡娥之子啊,这仍是你至高而恒久的喜好。

3.185.21

हृतं च देशं कुरुजाङ्गलानां ।
कृष्णां सभायामशां च पश्यन्।
अपेतधर्मव्यवहारवृत्तं ।
सहेत तत्पाण्डव कस्त्वदन्यः ॥ ३.१८५.२१ ॥

般度之子啊,俱卢—闍尊伽罗之地被夺去;在议会中见到黑公主(德劳帕蒂),见她的头发被剪断,那种背弃法度的行为发生了——除你之外,还有谁能忍受这些?

3.185.22

असंशयं सर्वसमृद्धकामः ।
क्षिप्रं प्रजाः पालयितासि सम्यक्।
अद्यैव तन्निग्रहणं कुरूणां ।
यदि प्रतिज्ञा भवतः समाप्ता ॥ ३.१८५.२२ ॥

毫无疑问,当你的一切愿望都得以实现,你很快就会好好地保护你的臣民。若你的誓言已经完成,那么今日便能制伏俱卢族人。

3.185.23

प्रोवाच कृष्णामपि याज्ञसेनीं ।
दशार्हभर्ता सहितः सुहृद्भिः।
कदिष्ट्या समग्राऽसि धनंजयेन ।
समागतेत्येवमुवाच कृष्णः ॥ ३.१८५.२३ ॥

十大族之主黑天与他的朋友们也对耶纳塞尼黑天女说:“幸运的是,你已与财主重逢而圆满了。”黑天如此说道。

3.185.24

कृष्णे धनुर्वेदरतिप्रदाना-
स्तवात्मजास्ते शिशवः शुशीलाः।
सद्भिः सदैवाचरितं समाधिं ।
चरन्ति पुत्रास्तव याज्ञसेनि ॥ ३.१८५.२४ ॥

黑天女啊,你的儿子们年幼而品性良好,喜爱弓箭之学,遵循善人始终修持的专注;耶纳塞尼啊,你的儿子们也如此行事。

3.185.25

राज्ये नियुक्तैश्च निमन्त्र्यमाणाः ।
पित्रा च कृष्णे तव सोदरैश्च।
न यज्ञसेनस्य न मातुलानां ।
गृहेषु बाला रतिमाप्नुवन्ति ॥ ३.१८५.२५ ॥

虽受国中所任命之人、父亲及你的兄弟邀请,黑天女啊,孩子们在耶纳塞那家中或舅舅家中都找不到欢乐。

3.185.26

आनर्तमेवाभिमुखाः शिवेन ।
गत्वाधनुर्वेदरतिप्रधानाः।
तवात्मजा वृष्णिपुरं प्रविश्य ।
न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ ३.१८५.२६ ॥

黑天女啊,你的儿子们朝着阿那尔塔方向,走吉祥之路,主要喜好弓箭之学,进入了毗瑟尼城,不再向诸神有所求。

3.185.27

यथा त्वमेवार्हसि तेषु वृत्तं ।
प्रयोक्तुमार्या च यथैव कुन्ती।
तेष्वप्रमादेन तथा करोति ।
तथैव भूयश्च तथा सुभद्रा ॥ ३.१८५.२७ ॥

正如只有你适合对他们表现出得体的行为,正如尊贵的贡蒂以警觉对待他们,同样,苏跋陀罗也再次如此。

3.185.28

यथाऽनिरुद्धस्य यथाऽभिमन्यो-
र्यथा सुनीथस्य यथैव भानोः।
तथा विनेता च गतिश्च कृष्णे ।
तवात्मजानामपि रौक्मिणेयः ॥ ३.१८५.२८ ॥

如同阿尼卢陀、阿毗曼尤、苏尼陀与跋努,对你的儿子们而言,克里希那亦是导师与依靠,罗希尼之子也是如此。

3.185.29

गदासिचर्मग्रहणेषु शूरा-
नस्त्रेषु शिक्षासु रथाश्वयाने।
सम्यग्विनेता विनयेदतन्द्री-
स्तांश्चाभिमन्युं च सदा कुमारान् ॥ ३.१८५.२९ ॥

在持杖、持剑与持盾、兵器、技艺以及驾驭战车与马匹方面,这位不懈的导师总是好好地教导英雄们,也教导阿毗曼尤和那些年幼的王子。

3.185.30

स चापि सम्यक्प्रणिधाय शिक्षां ।
शस्त्राणइ चैषां विधिवत्प्रदाय।
तवात्मजानां च तथाऽभिमन्योः ।
पराक्रमैस्तुष्यति रौक्मिणेयः ॥ ३.१८५.३० ॥

他也好好地施以教导,并依礼为这些人授予兵器;罗希尼之子因你的儿子们与阿毗曼尤的英勇而欢喜。

3.185.31

यथा विहारं प्रसमीक्षमाणाः ।
प्रयान्ति पुत्रास्तव याज्ञसेनि।
एकैकमेषामनुयान्ति यत्र ।
रथाश्च यानानि च दन्तिनश्च ॥ ३.१८५.३१ ॥

你的儿子们出行观赏游乐时,无论他们中的每一位去往何处,战车、车辆和象群都跟随着他。

3.185.32

अथाब्रवीद्धर्मराजं तु कृष्णो ।
दशार्हयोधाः कुकुरान्धकाश्च।
एते निदेशं तव पालयन्त-
स्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ॥ ३.१८५.३२ ॥

于是克里希那对法王说:愿十达尔哈战士及俱俱罗与安陀迦人遵从你的命令,国王啊,你想在哪里停留,他们就在哪里停留。

3.185.33

आवर्ततां कार्मुकवेगवाता ।
हलायुधप्रग्रणा मधूनाम्।
सेना तवार्थेषु नरेन्द्र यत्ता ।
ससादिपत्त्यश्वरथा सनागा ॥ ३.१८५.३३ ॥

人主啊,愿摩度人的军队如弓箭疾风般返回,由持犁者(大力)率领,听候你的差遣,包括骑兵、步兵、马匹、战车和象队。

3.185.34

प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः ।
सुयोधनः पापकृतां वरिष्ठः।
स सानुबन्धः ससुहद्गणश्च ।
भौमस्य सौबाधिपतेश्च मार्गम् ॥ ३.१८५.३४ ॥

般度之子啊,恶人中最上的持国之子难敌,与其亲属及朋友之众一同,当被遣往伐摩与娑婆国王所行之路。

3.185.35

कामं तथा तिष्ठ नरेन्द्र तस्मि-
न्यथा कृतस्ते समयः सभायाम्।
दाशार्हयोधैस्तु हतारियोधं ।
प्रतीक्षतां नागपुरं प्रभग्नम् ॥ ३.१८५.३५ ॥

人主啊,便如你所愿而留守吧,依你在会上所立的誓约。待达舍尔哈勇士杀尽敌方勇士,愿破败的那伽普罗城等待你。

3.185.36

व्यपेतमन्युर्व्यपनीतपाप्मा ।
विहृत् यत्रेच्छसि तत्र कामम्।
ततः समृद्धिप्रभवं विशोकः ।
प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥ ३.१८५.३६ ॥

舍弃愤怒,洗净罪过,随心所欲,往你所愿之处游行。此后,免于由繁荣而生的忧愁,你将与国土一同重得那伽普罗城。

3.185.37

ततस्तदाज्ञाय मतं महात्मा ।
यथावदुक्तं पुरुषोत्तमेन।
प्रशस्य विप्रेक्ष्य च धर्मराजः ।
कृताञ्जलिः केशवमित्युवाच ॥ ३.१८५.३७ ॥

于是,大德的法王领会了至上人所说的意见,赞叹他,注视着他,合掌对伽舍婆这样说道。

3.185.38

असंशयं केशव पाण्डवानां ।
भवान्गतिस्त्वच्छरणा हि पार्थाः।
कालोदये तच्च ततश्च भूयः ।
कर्ता भवान्कर्म न संशयोस्ति ॥ ३.१८५.३८ ॥

毫无疑问,克舍婆,你是般度之子的依靠;普利塔之子皆在你的庇护之下。时机到来时,那事以及之后的事都将由你来完成,此事无疑。

3.185.39

यथाप्रतिज्ञं विहृतश्च कालः ।
सर्वाः समा द्वादश निर्जनेषु।
अज्ञातचर्यां विधिवत्समाप्य ।
भवद्गताः केशव पाण्डवेयाः ॥ ३.१८५.३९ ॥

克舍婆,依照誓言,时间已经过去:十二年在荒僻之地度过。依法完成隐姓埋名的生活后,般度之子来到你这里。

3.185.40

एषैव बुद्धिर्जुषतां सदा त्वां ।
सत्ये स्थिताः केशव पाण्डवेयाः।
सदानधर्माः सजलाः सदाराः ।
सबान्धवास्त्वच्छरणा हि पार्थाः ॥ ३.१८५.४० ॥

愿这个心意常常使你欢喜,克舍婆。坚守真实、常行布施之法的般度之子,连同他们的水祭、妻子与亲族,都在你的庇护之下;普利塔之子以你为依归。

3.185.41

तथा वदतिवार्ष्णेये धर्मराजे च भारत ।
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्।
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ ३.१८५.४१ ॥

婆罗多啊,当他这样对那位伐瑞希尼族与法王说话时,于是出现了摩根德耶:他因苦行而年迈,历经了数千年,心地正直,是伟大的苦行者。

3.185.42

अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः ।
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ॥ ३.१८५.४२ ॥

他不老不死,具备容貌、高贵与美德,显现出如同二十五岁男子的模样。

3.185.43

तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।
उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः ॥ ३.१८५.४३ ॥

诸般ākhyāna中的所有般度之子与耶达瓦人一同侍奉那位到来的年迈仙人,他已活过许多千年。

3.185.44

तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ ३.१८५.४४ ॥

对那位受到敬重、十分安定而坐着的仙人中之最上者,克沙瓦在婆罗门和般度之子的同意下开口说道。

3.185.45

शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।
द्रौपदी सत्यभामा च तथाऽहंपरमं वचः ॥ ३.१८५.४५ ॥

服侍的般度之子、聚集的婆罗门、德罗波蒂与萨提亚婆玛,我也一同聆听了那至高的言语。

3.185.46

पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान् ।
राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः ॥ ३.१८५.४६ ॥

摩根德耶啊,请为我们讲述往昔的功德故事、永恒的善行,关于国王、女子与仙人的事迹。

3.185.47

तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ ३.१८५.४७ ॥

当他们坐在那里时,天仙那罗陀——灵魂清净——也前来,注视着般度之子。

3.185.48

तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः ।
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ॥ ३.१८५.४८ ॥

于是,那些人中之牛、智者们,都依规矩以洗足水与敬献之物,恭敬侍奉那位大德者。

3.185.49

नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ ३.१८५.४९ ॥

于是天仙那罗陀知道他们稍作停顿,便欣然称许摩根德耶所讲述的那个故事。

3.185.50

उवाच चैनं कालज्ञं स्मयन्निव सनारदः ।
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ ३.१८५.५० ॥

那罗陀仿佛微笑着对这位知晓时机的仙人说:“梵仙啊,请说出你想对般度子孙所说的话吧。”

3.185.51

एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।
क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति ॥ ३.१८५.५१ ॥

摩根德耶大苦行者听他这样说,回答道:“稍作休息吧;还有很多要讲的。”

3.185.52

एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः ।
मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ॥ ३.१८५.५२ ॥

般度子孙与那些婆罗门听后,停顿了片刻,凝视着那位大仙,犹如凝视正午的太阳。