摩诃婆罗多 · 章 3.187
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.187.1
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ ३.१८७.१ ॥
那时,般度之子对伟大的摩根德耶说:"我们想听闻诸位再生者之首的伟大,请您讲述。"
3.187.2
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः ।
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ ३.१८७.२ ॥
被如此询问后,大苦行者、极具光辉、精通一切经论的尊者摩根德耶开口说道。
3.187.3
हेहयानां कुलकरो राजा परपुरंजयः ।
कुमारो रूपसंपननो मृगयां व्यचरद्बली ॥ ३.१८७.३ ॥
有一位君王,乃黑叶族(Haihaya)之祖,征服敌人之城;这位俊美强壮的王子外出狩猎。
3.187.4
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते ।
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥ ३.१८७.४ ॥
他在森林中漫游,在草丛与灌木覆盖之处,附近看见一位以黑羚羊皮为上衣的仙人。
3.187.5
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम् ।
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ॥ ३.१८७.५ ॥
他在森林中误以为那是鹿而将其打死;做了这件事后,他深感痛苦,心智被忧愁所击伤。
3.187.6
जगाम हेहयानां वै सकाशं प्रथितात्मनाम् ।
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ॥ ३.१८७.६ ॥
地上之主啊!那位莲花眼的王子前往著名的黑叶族诸王那里。
3.187.7
तेषां च तद्यथावृत्तं कथयामास वै तदा ।
स कुमारो महीपालो हेहयानां महीभृताम् ॥ ३.१८७.७ ॥
于是他将所发生的一切如实告诉了他们。那位王子、大地的守护者,是哈伊哈耶诸山王之一。
3.187.8
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् ।
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ ३.१८७.८ ॥
亲爱的,他们听说那位以根和果为食的仙人也被伤害了,又在那里亲眼看见,心中便都悲伤起来。
3.187.9
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः ।
जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा ॥ ३.१८७.९ ॥
他们四处寻找,问道:“这是谁的修行处?”最终径直来到名叫遮利瑟吒的塔克希耶的净修林。
3.187.10
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् ।
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥ ३.१८७.१० ॥
他们向那位大德、持守坚定誓愿的仙人行礼,全都站立在那里。那仙人便向他们致以敬意。
3.187.11
ते तमूचुर्महात्मानं न वयं सक्रियां मुने ।
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ ३.१८७.११ ॥
他们对那位大德仙人说:“仙人啊,我们不配受到您应有的礼遇,因为由于我们的行为之过,我们伤害了一位婆罗门。”
3.187.12
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः ।
क्व चासौ ब्रूत सहिताः पश्यध्वं मे रतपोबलम् ॥ ३.१८७.१२ ॥
那位婆罗门中的仙人对他们说:“你们怎么杀死了一位婆罗门?他在哪里?你们都一起说出来;看看我苦行的力量。”
3.187.13
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् ।
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥ ३.१८७.१३ ॥
他们将所发生的一切如实告诉了他;但聚集在那里的人并未看见那位已失去生命的仙人。
3.187.14
अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः ।
तानब्रवीत्तत्रमुनिस्तार्क्ष्यः परपुरंजयः ॥ ३.१८७.१४ ॥
对那些寻找、羞愧、心神恍惚如同睡梦中的人,征服敌城的牟尼塔尔克希亚在那里对他们说道。
3.187.15
स्यादयं ब्राह्मणः सोऽथयुष्माभिर्यो विनाशितः ।
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ ३.१८७.१५ ॥
诸王啊,这或许就是你们所杀害的那位婆罗门;他是我的儿子,具备苦行之力。
3.187.16
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः ।
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते ॥ ३.१८७.१६ ॥
君主啊,他们看到那位仙人,极为惊异,说道:“这是大奇迹。”
3.187.17
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान् ।
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः।
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत ॥ ३.१८७.१७ ॥
此人方才明明在此已死,怎么又重获生命?这是何等苦行之力,使他重新复活?婆罗门啊,若可以听闻,我们愿意听。
3.187.18
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः ।
कारणं च प्रवक्ष्यामि हेतुयोगं समासतः।
मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः ॥ ३.१८७.१८ ॥
他对他们说:“诸王啊,死亡对我们没有力量。诸王中的最优者啊,我将简要地说明死亡对我们无能为力的原因与因缘的联系。”
3.187.19
शुद्धाचारादनलसाः साध्योपासनतत्पराः ।
शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः ॥ ३.१८७.१९ ॥
以清净的行为,不懒惰,专心供奉萨提亚神,食用清净的食物,居住在清净的住所,持守梵行誓愿。
3.187.20
सत्यमेवाभिजानीमो नानृते कुर्महे मनः ।
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ ३.१८७.२० ॥
我们只认识真理,不将心思放在虚妄上。我们遵行自己的本分,因此我们没有对死亡的恐惧。
3.187.21
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे ।
तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ ३.१८७.२१ ॥
婆罗门的福祉是什么,我们就把它讲给他们听;我们述说他们的行为。因此我们没有对死亡的恐惧。
3.187.22
अतिथीनन्नपानेन भृत्यानत्यशनेन च ।
संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः ॥ ३.१८७.२२ ॥
我们先以饮食款待客人,以丰盛的食物供养仆役,然后才吃剩下的。因此我们没有对死亡的恐惧。
3.187.23
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः ।
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः।
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ ३.१८७.२३ ॥
我们忍辱、调伏、性情宽恕,专心于圣地沐浴与布施;因居住在圣洁之地,所以我们没有对死亡的恐惧。也因居住在光明之地,所以我们没有对死亡的恐惧。
3.187.24
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः ।
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥ ३.१८७.२४ ॥
诸位无嫉妒之人,这只是对你们讲述的一小部分。你们都一起去吧;对于罪过,你们没有任何恐惧。
3.187.25
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् ।
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ ३.१८७.२५ ॥
“愿如此。”众人说罢,向大仙致敬,诸王欢喜地返回各自的国土,婆罗多族的雄牛啊。