摩诃婆罗多 · 章 3.188
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.188.1
भूय एव तु माहात्म्यं ब्राह्मणआनां निबोध मे ।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥ ३.१८८.१ ॥
请再从我这里听取婆罗门的伟大。此处名为毗耶那的王仙受戒,准备举行马祭(阿濕嚩梅陀)。
3.188.2
तमत्रिर्गन्तुमारेबे वित्तार्थमिति नः श्रुतम् ।
भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ॥ ३.१८८.२ ॥
我们听说阿特里为了财富而动身前往他那里;但因为法(dharma)的明显范例,他便不再为财富而请求。
3.188.3
स विचिन्त्य महातेजा वनमेवान्वरोचयत् ।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ ३.१८८.३ ॥
这位大光者思量之后,便选择了森林。他召来自己的正妻与儿子们,对他们说了这番话。
3.188.4
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ ३.१८८.४ ॥
我们将获得极其丰盛、无所扰乱的果报。愿你们尽快喜欢去森林,因为那福德极大。
3.188.5
तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती ।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहुः ॥ ३.१८८.५ ॥
于是他的妻子阿伦陀蒂,只想要财富,回答他说:去见维纳的大德之子,向他请求许多财富。
3.188.6
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ।
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ॥ ३.१८८.६ ॥
那位王仙,即施祭者,会把财富给予求取者。然后,婆罗门仙人啊,取得并接受大量财富之后,
3.188.7
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥ ३.१८८.७ ॥
将财物分给仆人和儿子之后,然后随你所愿前往。这是知法者所宣说的至高法。
3.188.8
कथितो मे महाभागे गौतमेन महात्मना ।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ ३.१८८.८ ॥
尊贵的夫人啊,大德的乔达摩对我说,毗那王(普利图)具足法与财富,持守真实的誓愿。
3.188.9
किंत्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ ३.१८८.९ ॥
但那里住着与我为敌的婆罗门。正如乔达摩所说,所以我不作决定。
3.188.10
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम् ॥ ३.१८८.१० ॥
在那里,若他们说出与我所说的、与法、欲、利相合的吉祥之语不同的话,那么那些话就毫无意义。
3.188.11
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥ ३.१८८.११ ॥
大智慧的夫人啊,我将前往;你的话让我欢喜。毗那王会给我牛群和丰厚的财富积累。
3.188.12
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ ३.१८८.१२ ॥
说完这些,大苦行者阿特里迅速前往毗那王的祭祀。到达祭场后,阿特里赞颂了那位国王。
3.188.13
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः ।
राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः।
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ ३.१८८.१३ ॥
阿特里以吉祥的言辞敬重他,说道:大王,你有福,你是大地上的主宰,第一位君王。众多仙人赞美你;除你之外,再无通晓法的人。
3.188.14
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः ॥ ३.१८८.१४ ॥
于是这位大苦行的仙人愤怒地对他说了这些话。
3.188.15
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः ॥ ३.१८८.१५ ॥
阿特里,不要再这样说;你的智慧并不稳定。在这里,对我们来说,第一位创造者是摩因陀罗,他确实是众生之主。
3.188.16
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत ।
अयमेव विधाता च तथैवेन्द्रः प्रजापतिः।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ ३.१८८.१६ ॥
于是阿特里也对瞿昙说道,王中之王啊:这位就是创造者,同样因陀罗也是众生之主。是你因迷惑而糊涂;你没有真正的智慧。
3.188.17
जानामि नाहं मुह्यामि त्वंविवक्षुर्विमुह्यसे ।
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि ॥ ३.१८८.१७ ॥
我知道,我并不迷惑;你因想要说话而迷惑。你在众人集会中赞美国王,渴望得到觐见。
3.188.18
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम् ।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ ३.१८८.१८ ॥
你不懂至高的法,在这里也没有这样做的目的。你是孩童,是愚人;只是因某种缘故而年老。
3.188.19
विवदन्तौ तथा तौ तु मुनीनां द्रशने स्थितौ ।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ ३.१८८.१९ ॥
二人如此争论着,站在诸位仙人面前。在他祭祀中在场的人问道:这两人是怎样进来的。
3.188.20
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ ॥ ३.१८८.२० ॥
谁允许这两人进入毗那之集会?他们大声互相交谈,为了什么事站在此处?
3.188.21
ततः परमधर्मात्मा काश्यपः सर्वधऱ्मवित् ।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ ३.१८८.२१ ॥
于是,最具正法之心、通晓一切法的迦叶,报告了那两个争论着前来的人。
3.188.22
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् ।
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः।
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान् ॥ ३.१८८.२२ ॥
于是,瞿昙对集会中最优秀的仙人说:“诸位再生者中的最优者,请听我们提出的问题。阿特里说毗那是造物主;我们二人对此有很大的疑惑。”
3.188.23
ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि ।
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्दुतम् ॥ ३.१८८.२३ ॥
于是,大德仙人们听到瞿昙在集会中关于毗那所说的话,便迅速向前奔去。
3.188.24
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ।
पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः ॥ ३.१८८.२४ ॥
为了断除疑惑,众人恭敬地向通晓正法的萨那特昆摩罗请教,如同饮苏摩者向梵天请教一般。
3.188.25
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ ३.१८८.२५ ॥
大苦行者听闻他们的话语,依照真理,对他们说出了这些与法和利相合的话语。
3.188.26
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।
संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ ३.१८८.२६ ॥
梵与刹帝利相合,刹帝利与梵相合,二者结合,烧灭敌人,如火与风烧毁森林。
3.188.27
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥ ३.१८८.२७ ॥
国王确实是著名的法,也是众生的主宰。他即是帝释,即是金星,即是创造者,也是木星。
3.188.28
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ ३.१८८.२८ ॥
被称为生主、君主、至尊、刹帝利、地主、国王的这位,谁不配礼敬他呢?
3.188.29
पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः ।
स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते।
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ॥ ३.१८८.२९ ॥
国王被称为:古源、战胜者、所愿、受敬的婆、引天者、同生胜者、Babhru。他是真理之源,知古者,真法的推行者。
3.188.30
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ।
तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम् ॥ ३.१८८.३० ॥
诸仙因恐惧非法,便将力量赋予刹帝利。因此刹帝利依梵而立,不朽的梵依刹帝利而立。
3.188.31
आदित्यो दिवि देवेषु तमो नुदति तेजसा ।
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम् ॥ ३.१८८.३१ ॥
如同天上诸神之中的太阳以光芒驱散黑暗,地上的国王也彻底驱除不法。
3.188.32
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम् ॥ ३.१८८.३२ ॥
因此,从经典权威来看,国王的首要地位得以确立,那个说“国王”的后一立场也由此得到证明。
3.188.33
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ ३.१८८.३३ ॥
那时,国王因自己的立场得到确立而欢喜,心胸宽广,满心喜悦地对先前赞美过他的阿特里说道。
3.188.34
यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः ।
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ॥ ३.१८८.३४ ॥
婆罗门中的圣贤啊,因为你先前在此说我在人类中最为尊贵,与诸神相等,也是最优秀的。
3.188.35
तस्मात्तेऽहंप्रदास्यामि विविधं वसु भूरि च ।
दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम् ॥ ३.१८८.३५ ॥
因此,我要赐予你各种丰厚的财富,还有一千名肤色黝黑、衣着华美、装饰齐整的年轻侍女。
3.188.36
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश ।
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे ॥ ३.१८८.३६ ॥
十千万金和十车黄金。婆罗门中的圣贤啊,我把这些赠给你,因为我认为你是全知的。
3.188.37
तदत्रिनर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः ।
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः ॥ ३.१८८.३७ ॥
于是大苦行者阿特利依法接受了一切,受到尊敬,光辉照人,便返回了自己的家。
3.188.38
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् ।
ततः समभिसंधाय वनमेवान्वपद्यत ॥ ३.१८८.३८ ॥
他将财富交给儿子们,心中欢喜,克制己身,随后下定决心,便前往森林中去了。