Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.189

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.189.1

अत्रैव च सरस्वत्या गीतं परपुरंजय ।
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ ३.१८९.१ ॥

英雄啊,征服敌城者!就在这里,当智慧的鹫族(Tārkṣya)发问时,萨拉斯瓦蒂以圣人的身份唱出了答案,你且听来。

3.189.2

किंन श्रेयः पुरुषस्येह भद्रे ।
कथं कुर्वन्न च्यवते स्वधर्मात्।
आचक्ष्व मे चारुसर्वाङ्गि सर्वं ।
त्वया शिष्टो न च्यवेयं स्वधर्मात् ॥ ३.१८९.२ ॥

善良的女子啊!在这个世界上,人的至善是什么?如何行事才不会背离自己的本分?美丽的女子啊,请把一切都告诉我,使我受你教诲,不背离自己的本分。

3.189.3

कथं चाग्निं जुहुयां पूजये वा ।
कस्मिन्काले केन धर्मो न नश्येत्।
एतत्सर्वं सुभगे प्रब्रवीहि ।
यथा लोकान्विरजाः संचरेयम् ॥ ३.१८९.३ ॥

我应如何向火中献祭,或如何礼拜?在何时、以何种方式,法才不会毁灭?吉祥的女子啊,请把这一切都讲给我听,使我清净无染地行于诸世界。

3.189.4

एवं पृष्टा प्रीतियुक्तेन तेन ।
शुश्रूषुणा चोत्तमबुद्दियुक्तम्।
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च ।
सरस्वती वाक्यमिदं बभाषे ॥ ३.१८९.४ ॥

婆罗门鹫族(Tārkṣya)满怀爱意、渴望聆听、具有上等智慧,如此发问,萨拉斯瓦蒂便说出了这番合乎法且有益的话语。

3.189.5

यो ब्रह्म जानाति यथोपदेशं ।
स्वाध्यायनित्यः शुचिरप्रमत्तः।
स वै पुरो देवलोकस्य गन्ता ।
सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ ३.१८९.५ ॥

凡依照教导而通晓吠陀、恒常自修、清净而警觉的人,必将走在前面,进入天神之界,与不死者同得喜悦的结合。

3.189.6

तत्र स्म रम्या विपुला विशोकाः ।
सुपुष्पिताः पुष्करिण्यः सुपुण्याः।
अकर्दमा मीनवत्यः सुतीर्था ।
हिरण्मयैरावृताः पुण्डरीकैः ॥ ३.१८९.६ ॥

那里有令人愉悦、广阔、无忧的莲池,繁花盛开,极其神圣,没有淤泥,充满鱼群,有良好的岸口,被金色的白莲环绕。

3.189.7

तासां तीरेष्वासते पुण्यभाजो ।
महीयमानाः पृथगप्सरोभिः।
सुपुण्यगन्धाभिरलंकृताभि-
र्हिरण्यवर्णाभिरतीव हृष्टाः ॥ ३.१८९.७ ॥

在它们的岸边居住着分享功德的人,受到各位天女的尊奉,她们身披极其神圣的香气,金色容颜,他们因此极为欢喜。

3.189.8

परं लोकं गोप्रदास्त्वाप्नुवन्ति ।
दत्त्वाऽनड्वाहं सूर्यलोकं व्रजन्ति।
वासो दत्त्वा चान्द्रमसं तु लोकं ।
दत्त्वा हिरण्यममरत्वमेति ॥ ३.१८९.८ ॥

布施母牛者获得至高世界;布施一头驮牛则往太阳世界;布施衣物则获得月亮世界;布施黄金则得到不死。

3.189.9

धेनुं दत्त्वा सुप्रमां साधुदोहां ।
कल्याणवत्सामपलायिनीं च।
यावन्ति रोमाणि भवन्ति तस्या-
स्तावद्वर्षाण्यासते देवलोके ॥ ३.१८९.९ ॥

若布施一头上好的、易于挤奶、有良好小牛、不会逃走的母牛,布施者便在天界居住与她身上毛发数目相等的年岁。

3.189.10

अनड्वाहं सुव्रतं यो ददाति ।
हलस्य वोढारमनन्तवीर्यम्।
धुरंधरं बलवन्तं युवानं ।
प्राप्नोति लोकान्दशधेनुदस्य ॥ ३.१८९.१० ॥

布施一头善誓、能拉犁、力量无穷、能负轭、强壮的年轻公牛者,获得布施十头母牛者的世界。

3.189.11

ददाति यो वै कपिलां सचैलां ।
कांस्योपदोहां द्रविणैरुत्तरीयैः।
तैस्तैर्गुणैः कामदुहाऽथ भूत्वा ।
नरं प्रदातारमुपैति नाकैः ॥ ३.१८९.११ ॥

施予带布的赤褐色母牛、铜制挤奶器、财物与上衣者,凭借这些功德,她化为如意牛,将施主引至诸天。

3.189.12

यावन्ति रोमाणि भवन्ति धेन्वा-
स्तावत्फलं लभते गोप्रदाने।
पुत्रांसच् पौत्रांश्च कुलं च सर्व-
मासप्तमं तारयते परत्र ॥ ३.१८९.१२ ॥

施予母牛者所得福报,与牛身上的毛数相等。他在来世救度子孙、孙辈以及直至第七代的全族。

3.189.13

सदक्षिणां काञ्चनचारुशृङ्गीं ।
कांस्योपदोहां द्रविणैरुत्तरीयैः।
धेनुं तिलानां ददतो द्विजाय ।
लोका वसूनां सुलभा भवन्ति ॥ ३.१८९.१३ ॥

若将饰有美丽金角的母牛,连同酬金、铜制挤奶器、财物与上衣,施给婆罗门,则诸婆苏的世界易于得到。

3.189.14

स्वकर्मभिर्दानवसंनिरुद्धे ।
तीव्रान्धकारे नरके पतन्तम्।
महार्णवे नौरिव वातयुक्ता ।
दानं गवां तारयते परत्र ॥ ३.१८९.१४ ॥

如同被风吹动的船只渡过大海,救起因自身业报而坠入被恶魔围困、黑暗无比的地狱者,施牛之功德也在来世救度他。

3.189.15

यो ब्राह्मदेयां तु ददाति कन्यां ।
भूमिप्रदानं च करोति विप्रे।
ददाति दानं विधिना च यश्च ।
स लोकमाप्नोति पुरंदरस्य ॥ ३.१८९.१५ ॥

若将可施于婆罗门的少女嫁与婆罗门,施地于婆罗门,并依仪轨行施舍,此人便得到补罗陀罗(因陀罗)的世界。

3.189.16

यः सप्तवर्षाणि जुहोति तार्क्ष्य ।
हव्यं त्वग्नौ नियतः साधुशीलः।
सप्तावरान्सप्तपूर्वान्पुनाति ।
पितामहानात्मना कर्मभिः स्वैः ॥ ३.१८९.१६ ॥

若有人七年间克己守戒、品行端正,向火中献祭,哦,塔尔克希亚,他以自己的行为净化前七代与后七代祖先。

3.189.17

किमग्निहोत्रस्य व्रतं पुराण-
माचक्ष्व मे पृच्तश्चारुरूपे।
त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां ।
यदग्निहोत्रस्य व्रतं पुराणम् ॥ ३.१८९.१७ ॥

美丽的女子啊,请告诉我这个提问者,火祭(阿格尼霍特拉)的古老誓戒是什么。今日在此受你教导,我将得知那作为火祭古老誓戒的知识。

3.189.18

न चाशुचिर्नाप्यनिर्णिक्तपाणि-
र्नाब्रह्मविज्जुहुयान्नाविपश्चित्।
बुभुत्सवः शुचिकामा हि देवा ।
नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ ३.१८९.१८ ॥

不净之人、未洗手者、不通梵(吠陀)者、无学之人不应献祭。诸神渴望知识,追求清净;他们不接受无信者的供物。

3.189.19

नाश्रोत्रियं देवहव्ये नियुञ्ज्या-
न्मोघं पुरा सिञ्चति तादृशो हि।
अपूर्णमश्रोत्रियमाह तार्क्ष्य ।
न वै तादृग्जुहुयादग्निहोत्रम् ॥ ३.१८९.१९ ॥

不应将诸神的供物交给未学吠陀之人;这样的人徒然倾注。塔尔克希亚啊,未学者被称为不完整;这样的人不应举行火祭。

3.189.20

रये वै कृशानुं जुह्वति श्रद्दधानाः ।
सत्यव्रता हुतशिष्टाशिनश्च।
गवां लोकं प्राप्यते पुण्यगन्धं ।
पश्यन्ति देवं परमं चापि सत्यम् ॥ ३.१८९.२० ॥

怀着信心、持守真实誓愿、向火中献祭并食用供品余物的人,将到达散发功德芳香的牛界,并得见至上之神与真理。

3.189.21

क्षेत्रज्ञभूतां परलोकभावे ।
कर्मोदये बुद्दिमभिप्रविष्टाम्।
प्रज्ञां च देवीं सुभगे विमृश्य ।
पृच्छामि त्वां का ह्यसि चारुरूपे ॥ ३.१८९.२१ ॥

善女子啊,在来世的状态中,业力显现之时,我思量那以知场者之形进入智慧的女神般若,因而问你:美丽之人啊,你是谁?

3.189.22

अग्निहोत्रादहमभ्यागताऽस्मि ।
विप्रर्षभाणां संशयच्छेदनाय।
त्वत्संयोगादहमेतदब्रुवं ।
भावे स्थिता तथ्यमर्थं यथावत् ॥ ३.१८९.२२ ॥

我来自阿耆尼 hotra 之祭,为斩断最优秀婆罗门的疑惑。因与你结合,我安住于本性之中,如实说出真实的意义。

3.189.23

न हि त्वया सदृशी काचिदस्ति ।
विभ्राजसे ह्यतिमात्रं यथा श्रीः।
रूपं च ते दिव्यमनन्तकान्ति ।
प्रज्ञां च देवीं सुभगे बिभर्षि ॥ ३.१८९.२३ ॥

无人能与你相比;你光辉至极,犹如吉祥女神室利。你的形相神圣,光明无尽;善女子啊,你承载着智慧女神。

3.189.24

श्रेष्ठानि यानि द्विपदांवरिष्ठ ।
यज्ञेषु विद्वन्नुपपादयन्ति।
तैरेव चाहं संप्रवृद्धा भवामि ।
चाप्यायिता रूपवती च विप्र ॥ ३.१८९.२४ ॥

再生者中最优秀的人啊,我借由智者在祭祀中奉献的上好之物而大为增长;因得滋养,我变得形相美好,婆罗门啊。

3.189.25

यच्चापि पात्रमुपयुज्यते ह ।
वानस्पत्यमायसं पार्थिवं वा।
दिव्येन रूपेण प्रज्ञया च ।
तेनैव सिद्धिरिति विद्धि विद्वन् ॥ ३.१८९.२५ ॥

凡所用之器,无论木制、铁制或土制,皆须具神圣之形与智慧;当知成就唯由此而来,哦,智者。

3.189.26

परं पुराणं तमहं न वेद्मि ॥ ३.१८९.२६ ॥

那至上的古老者,我不知道。

3.189.27

तं वै परं वेदविदः प्रपन्नाः ।
परं परेभ्यः प्रथितं पुराणम्।
स्वाध्यायदानव्रतपुण्ययोगै-
स्तपोधना वीतशोका विमुक्ताः ॥ ३.१८९.२७ ॥

吠陀的知者皈依那至上者;那古老者,被誉为超越至上者之上的至上。凭借诵习、布施、誓愿与福德之合,以苦行为财富者,离忧而得解脱。

3.189.28

तस्याथ मध्ये वेतसः पुण्यगन्धः ।
सहस्रशाखो विपुलो विभाति।
तस्य मूलात्सरितः प्रस्रवन्ति ।
मधूदकप्रस्रवणाः सुपुण्याः ॥ ३.१८९.२८ ॥

其中央有一棵广大的柳树,散发圣洁芬芳,千枝繁茂,熠熠生辉;从它的根部流出诸河,甘美的泉源,极为神圣。

3.189.29

शाखांशाखां महानद्यः संयान्ति सिकताशयाः ।
धानापूपा मांसशाकाः सदापायसकर्दमाः ॥ ३.१८९.२९ ॥

枝枝相连,大河流经沙床;炒米与饼,肉与菜,永远浸于牛奶粥的泥泞之中。

3.189.30

यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने ॥ ३.१८९.३० ॥

诸神以火神为口,与因陀罗及摩录多众一同,以殊胜的祭祀受到供奉之处,那便是至上之位,哦,仙人。