Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.190

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.190.1

ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह ।
कथयस्वति चरितं मनोर्वैवस्वतस्य च ॥ ३.१९०.१ ॥

于是那位般度之子再次对摩根德耶说道:"请讲述毗婆娑之子摩奴的事迹。"

3.190.2

विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान् ।
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ ३.१९०.२ ॥

大王啊,毗婆娑之子成为了一位威力极大的大仙;人中之虎啊,他的光辉如同生主一般。

3.190.3

ओजसातेजसा लक्ष्म्या तपसा च विशेषतः ।
अतिचक्राम पितरं मनुः स्वंच पितामहम् ॥ ३.१९०.३ ॥

尤其在力量、光辉、威严与苦行方面,摩奴超过了他的父亲,也超过了自己的祖父。

3.190.4

ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः ।
एकपादस्थितस्तीव्रं चकार सुमहत्तपः ॥ ३.१९०.४ ॥

在毗舍罗、菩提林中,那位人主双臂高举,单足而立,行了极其猛烈的大苦行。

3.190.5

अवाकूशिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् ।
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ ३.१९०.५ ॥

他低垂着头,双目一动不动地凝视,那时修了一万年的可怕苦行。

3.190.6

तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् ।
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ ३.१९०.६ ॥

一次,他正修苦行,身穿湿树皮衣,头戴结发,一条鱼来到赤林河岸,对他说了这番话。

3.190.7

भगवन्क्षुद्रमत्स्येस्मि बलवद्भ्यो भयंमम ।
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ ३.१९०.७ ॥

尊者啊,我是一条小鱼,我惧怕强者。持善愿者啊,你应当保护我,使我免于其他鱼类。

3.190.8

दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः ।
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ ३.१९०.८ ॥

强大的鱼总是吞食弱小的鱼,尤其是吞食鱼类;这是为我们规定的永恒生计。

3.190.9

तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः ।
त्रातुमर्हसि कर्तास्मि कृतेप्रतिकृतं तव ॥ ३.१९०.९ ॥

因此,你应当救我,尤其是在我沉没于巨大恐惧的洪流之中。你的恩德,我必定报答。

3.190.10

स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः ।
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ ३.१९०.१० ॥

毗婆娑之子摩奴听到鱼的话语,被慈悲所感动,亲自用手将那条鱼托起。

3.190.11

उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः ।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम् ॥ ३.१९०.११ ॥

毗婆娑之子摩奴将鱼带到水边,放入一个瓦罐中;那鱼的光辉如同月光。

3.190.12

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः ॥ ३.१९०.१२ ॥

大王啊,那条鱼在那里长大,备受尊崇。摩奴以特别的爱待它,如同对待儿子一般。

3.190.13

अथ कालेन महता स मत्स्यः सुमहानभूत् ।
अलिञ्जरजले चैव नासौ समभवत्किल ॥ ३.१९०.१३ ॥

此后经过很长时间,那条鱼变得非常巨大,果然连那瓦罐中的水也容纳不下了。

3.190.14

अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत ।
भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय ॥ ३.१९०.१४ ॥

那鱼见到摩奴,又对他说:“尊者啊,请现在为我妥善安排另一个住处吧。”

3.190.15

उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः ।
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ ३.१९०.१५ ॥

于是尊贵的摩奴把那条鱼从瓦罐中取出,带到了一个大池塘中。

3.190.16

तत्रतं प्राक्षिपच्चापि मनुः परपुरंजय ।
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ ३.१९०.१६ ॥

摩奴又把它放在那里,征服敌城者啊;那鱼又经过许多年月而长大了。

3.190.17

द्वियोजनायता वापी विस्तृताचापि योजनम् ।
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥ ३.१९०.१७ ॥

那池塘长二由旬,宽也有一由旬;然而,莲花眼者啊,那鱼在其中也容纳不下。

3.190.18

विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशांपते ।
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ॥ ३.१९०.१८ ॥

贡蒂之子啊,人主啊,那鱼在池中连转动都做不到;于是那鱼见到摩奴,又对他说话。

3.190.19

नय मां भगवन्साधो समुद्रमहिषीं प्रियाम् ।
गङ्गां नांत्रापि शक्तोस्मि वस्तुं मतिमतांवर ॥ ३.१९०.१९ ॥

尊贵的圣者啊,请带我到大海的爱妃恒河那里。我连在此居住都做不到,智者中最优秀的人啊。

3.190.20

निदेशे हि मया तुभ्यं स्थातव्यमनसूयता ।
वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ ॥ ३.१९०.२० ॥

在你的命令之下,我应当无怨地留驻;因为无罪的你啊,我因你而获得了至高的增长。

3.190.21

एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी ।
नदीं गङ्गां तत्रचैनं स्वयं प्राक्षिपदेव च ॥ ३.१९०.२१ ॥

被这样请求后,有福且自制的摩奴带着鱼,亲自把它投入了那里的恒河。

3.190.22

स तत्र ववृधे मत्स्यः कंचित्रालमरिंदम ।
गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ ३.१९०.२२ ॥

那条鱼在那里生长了一段时间,降伏敌人者啊。随后,它回来看见摩奴,便说出了这些话。

3.190.23

गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो ।
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ ३.१९०.२३ ॥

主啊,在恒河里我因身体庞大而无法行动。请快快把我带到大海。请慈悲,有福的主啊。

3.190.24

उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् ।
समुद्रमनयत्पार्त तत्रचैनमवासृजत् ॥ ३.१९०.२४ ॥

于是摩奴亲自将鱼从恒河水中捧起,带到大海,在那里将它放走。普利塔之子啊。

3.190.25

सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा ।
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ ३.१९०.२५ ॥

那条鱼虽然极其巨大,但当摩奴带着它时,它变得可随意搬运,触感与气味都令人愉悦。

3.190.26

यदा समुद्रे प्रक्षिप्तः स मत्स्यो ननुना तदा ।
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ ३.१९०.२६ ॥

摩奴把那条鱼投入大海时,鱼仿佛带着微笑,对他说了这些话。

3.190.27

भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः ।
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ ३.१९०.२७ ॥

尊者啊,你对我一切都给予了特别的庇护。现在请听我说,那应当及时去做的事情。

3.190.28

अचिराद्भगवन्बौममिदं स्थावरजङ्गमम् ।
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥ ३.१९०.२८ ॥

尊者啊,不久,这一切属于大地的事物,无论静止还是运动,哦,大福者,必将走向毁灭。

3.190.29

संप्रक्षालनकालोऽयंलोकानां समुपस्थितः ।
तस्मात्त्वां बोधयाम्यद्ययत्ते हितमनुत्तमम् ॥ ३.१९०.२९ ॥

世界净化的时刻已经来临;因此今天我向你告知对你最有益的至高之事。

3.190.30

त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति ।
तस्य सर्वस् संप्राप्तः कालः परमदारुणः ॥ ३.१९०.३० ॥

对于一切众生,无论能动与不动,凡动者与不动者,最可怕的时刻已经来临。

3.190.31

नौश्च कारयितव्या ते दृढा युक्तवटारका ।
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ ३.१९०.३१ ॥

你应当建造一条坚固、系有结实绳索的船。大仙啊,与七位仙人一同登上船去。

3.190.32

बीजानि चैव सर्वाणि यथोक्तानि मया पुरा ।
तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः ॥ ३.१९०.३२ ॥

至于我以前所说的一切种子,分成若干份,妥善保护,装进那条船里。

3.190.33

नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय ।
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ ३.१९०.३३ ॥

站在船上等我,受众仙喜爱的人啊。我将以有角者的形象来到,你凭此认出我,苦行者。

3.190.34

एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम् ।
ता न शक्या महत्यो वै आपस्तर्तुं मया विना।
नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो ॥ ३.१९०.३४ ॥

这一切你都必须如此去做;你已被告知,现在我要离去。这些大水没有我是无法渡过的。而且,啊威严者,你不必对我这番话有任何怀疑。

3.190.35

एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत ।
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ ३.१९०.३५ ॥

他说:“我会这样做。”于是他回答了那条鱼。之后二者互相告别,各自随意离去。

3.190.36

ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह ।
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा।
नौकया शुभयावीर महोर्मिणमरिंदम ॥ ३.१९०.३६ ॥

于是,大王啊,按照鱼所说的,摩奴带上所有的种子,当时乘船航行于波涛巨大的大海之上。啊,吉利之行的英雄,啊,降伏敌人者。

3.190.37

चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते ।
सच तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय।
शृङ्गी तत्राजगागाशु तदा भरतसत्तम ॥ ३.१९०.३७ ॥

地上之主啊,摩奴思念那条鱼。征服敌城者啊,那鱼知晓了他的思念,立即长着犄角来到那里,婆罗多中最优秀者啊。

3.190.38

तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे ।
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ ३.१९०.३८ ॥

人中之虎啊,摩奴在水的海洋中看见那条长角的鱼,它以所说的形状高耸如山。

3.190.39

वटारकमयं पाशमथ मत्स्यस्य मूर्धनि ।
मनुर्मनुजशार्दूल तस् शृङ्गे न्यवेशयत् ॥ ३.१९०.३९ ॥

然后摩奴,人中之狮啊,把用榕树纤维做成的绳索系在鱼的头上,系在它的角上。

3.190.40

संयतस्तेन पाशेन मत्स्यः परपुरंजय ।
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ ३.१९०.४० ॥

那条鱼被绳索束缚,征服敌城者啊,以巨大的速度把船拉向咸水之中。

3.190.41

स ततार तया नावा समुद्रं मनुजेश्वर ।
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥ ३.१९०.४१ ॥

人主啊,他乘那只船渡过了大海,那船仿佛随波起舞,又仿佛随水咆哮。

3.190.42

क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ ।
घूर्णते चपलेव स्री मत्ता परपुरंजय ॥ ३.१९०.४२ ॥

那只船在大海中被狂风摇撼,征服敌城者啊,它旋转翻滚,如同醉酒而不安的女子。

3.190.43

नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे ।
सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव ॥ ३.१९०.४३ ॥

既不见大地,也不见方位与隅方;一切皆是水,天空与天界亦然。人中之雄啊!

3.190.44

एवंभूते तदा लोके संकुले भरतर्षभ ।
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च ॥ ३.१९०.४४ ॥

彼时世界陷入如此动荡,婆罗多之牛啊,七仙、摩奴与鱼也显现出来。

3.190.45

एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः ।
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये ॥ ३.१९०.४५ ॥

如此,许多年间,那鱼不知疲倦地,大王啊,在那浩瀚的水中拖拽着船。

3.190.46

ततो हिमवतः शृङ्गं यत्परं भरतर्षभ ।
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ ३.१९०.४६ ॥

随后,婆罗多之牛啊,那鱼将船拖到了喜马拉雅最高的山峰,库鲁之乐啊。

3.190.47

अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः ।
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ ३.१९०.४७ ॥

那鱼微笑着,轻声对众仙人说:"就在喜马拉雅这座山峰上把船系好,不要耽搁。"

3.190.48

सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ ।
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ ३.१९०.४८ ॥

婆罗多之牛啊,众仙人听到鱼的话后,迅速将船系在了喜马拉雅那座山峰上。

3.190.49

तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् ।
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥ ३.१९०.४९ ॥

喜马拉雅那座至高的山峰名为“船缚”,至今仍广为人知。俱卢之子啊,婆罗多族的雄牛,你应当这样知道。

3.190.50

अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा ।
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते।
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात् ॥ ३.१९०.५० ॥

那时,与众仙人聚在一起的阿尼米沙对他们说道:“我是众生之主梵天;再没有比我更高的存在可寻。我以鱼的形象将你们从恐惧中解救出来。”

3.190.51

मनुना च प्रजाः सर्वाः सदेवासुरमानुपाः ।
स्रष्टव्याः सर्वलोकाश्चयच्चेङ्गं यच्चा नेङ्गति ॥ ३.१९०.५१ ॥

众生——连同天神、阿修罗与人类——以及一切世界,都将由摩奴创造,无论动的还是不动的。

3.190.52

तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति ।
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति।
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ॥ ३.१९०.५२ ॥

凭借严酷的苦行,他也将获得敏锐的智慧;因我的恩典,他在创造众生时不会陷入迷惑。”说完这番话,那条鱼在刹那间消失了。

3.190.53

स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् ।
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ ३.१९०.५३ ॥

毗婆娑之子摩奴想要创造众生,自己却在造物之事上大为迷惑;于是他修行了大苦行。

3.190.54

तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे ।
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ ३.१९०.५४ ॥

具足大苦行的他于是开始创造;婆罗多族的雄牛啊,摩奴亲自如法地创造了一切众生。

3.190.55

इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् ।
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥ ३.१९०.५५ ॥

如是宣说了名为《摩蹉伽》的古老往世书;此可除一切罪的故事由我讲述。

3.190.56

य इदं शृणुयान्नित्यं मनोश्चरितमादितः ।
स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः ॥ ३.१९०.५६ ॥

若人常从头听闻此摩奴之行传,便得安乐,诸事圆满,并得至一切世界。