Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.192

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.192.1

कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः ।
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विमृजाम्यहम् ॥ ३.१९२.१ ॥

即使诸神也并不真正认识我;然而,婆罗门啊,出于对你的爱,我将说明我如何消除这一疑惑。

3.192.2

पितृभक्तोसि विप्रर्षे मां चैव शरणं गतः ।
ततो दृष्टोस्मि ते साक्षाद्ब्रह्यचर्यं च ते महत् ॥ ३.१९२.२ ॥

婆罗门中的圣哲啊,你孝敬父亲,又来投靠我;因此我亲自显现于你面前,你的梵行也极为宏大。

3.192.3

आपो नारा इति प्रोक्तास्तासां नाम कृतं मया ।
तेन नारायणप्युक्तो मम तत्त्वयनं सदा ॥ ३.१९२.३ ॥

水被称为「那罗」,这个名字是我给它们取的。因此我也被称为那罗延,因为水是我永恒的居所。

3.192.4

अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः ।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम् ॥ ३.१९२.४ ॥

我名为那罗延,万物之源,永恒不灭。二生者中的最优秀者啊,我是一切众生的创造者,也是它们的毁灭者。

3.192.5

अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः ।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ ३.१९२.५ ॥

我是毗湿奴,我是梵天,我是帝释天,诸天之主。我是毗沙门王,同样我也是阎摩,亡灵之主。

3.192.6

अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः ।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥ ३.१९२.६ ॥

我是湿婆,我是月神苏摩;我是迦叶波,也是生主。我是持立者,也是安排者;我即是祭祀,二生者中的最优秀者啊。

3.192.7

अग्निरास्यं क्षिति पादौ चन्द्रादित्यौ च लोचने ।
द्यौर्मूर्धा मे दिशः श्रोत्रे तथाऽऽपः स्वेदसंभवाः।
सकलं च नभः कायो वायुर्मनसि मे स्थितः ॥ ३.१९२.७ ॥

火是我的口,大地是我的双足,月与日是我的双眼。天空是我的头,四方是我的耳,由汗而生的水亦是如此。整个天空是我的身体,风居于我的心中。

3.192.8

मया क्रतुशतैरिष्टं बहुभिस्त्वाप्तदक्षिणैः ।
यजन्ते वेदविदुषो मां देवसदने स्थितम् ॥ ३.१९२.८ ॥

我曾受百次祭祀供奉,多次附有丰厚的祭礼布施;精通吠陀者以祭祀崇拜居于天神居所的我。

3.192.9

पृथिव्यां क्षत्रियेन्द्राश् पार्तिवाः स्वर्गकाङ्क्षिणः ।
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया ॥ ३.१९२.९ ॥

大地上渴望天界的刹帝利之首与国王们祭祀我;同样,吠舍们也因渴望征服天界而祭祀我。

3.192.10

चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ।
शेषो भूत्वाऽहमेवैतां धारयामि वसुंधराम् ॥ ३.१९२.१० ॥

此大地被四海环绕,以须弥与曼陀罗山为饰,我自化为舍沙,将其承载。

3.192.11

वाराहं रूपमास्थाय मयेयं जगती पुरा ।
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता ॥ ३.१९२.११ ॥

婆罗门啊,往昔我化为野猪之形,以我的威力将这沉没于水中的世界托举起来。

3.192.12

अग्निश्च बडबावक्रे भूत्वाऽहं द्विजसत्तम ।
पिबाम्यापः सदा विद्वंस्ताश्चैव विसृजाम्यहम् ॥ ३.१९२.१२ ॥

最优秀的再生者啊,智者啊,我化为牝马口中的火,常饮用这些水,而我也将这些水再释放出去。

3.192.13

ब्रह्म वक्रं भुजौ क्षत्रमूरू मे संस्थिता विशः ।
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ॥ ३.१९२.१३ ॥

婆罗门是我的口,刹帝利是我的臂,吠舍居于我的股,而这些首陀罗成为我的足——以力量、依次而成。

3.192.14

ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः ।
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ ३.१९२.१४ ॥

《梨俱吠陀》、《娑摩吠陀》、《夜柔吠陀》,以及《阿闼婆吠陀》——这些从我而生,也只入于我。

3.192.15

यतयः शान्तिपरमा यतात्मानो मुमुक्षवः ।
कामक्रोधद्वेषमुक्ता निःसंज्ञा वीतकल्मषाः ॥ ३.१९२.१५ ॥

苦行者(瑜祇),专注于至上寂静,克制自我,渴望解脱,脱离欲望、愤怒与憎恨,忘却感知而入定,远离垢染。

3.192.16

सत्वस्था निरहंकारा नित्यमध्यात्मकोविदाः ।
मामेव सततं विप्राश्चिन्तयन्त उपासते ॥ ३.१९२.१६ ॥

安住于善性、无我执、常通晓内在自我的婆罗门智者,不断思念我,并敬拜我。

3.192.17

अहं संवर्तको वह्निरहं संवर्तको यमः ।
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ॥ ३.१९२.१७ ॥

我即是劫火(娑婆多迦)之火,我即是劫末之阎摩,我即是劫末之日,我即是劫末之风。

3.192.18

तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले ।
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम ॥ ३.१९२.१८ ॥

那些显现于天空之上的星辰之形,你也当知道是我的形相,二生者之最。

3.192.19

रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ।
वसनं शयनं चैव विलयं चैव विद्धि मे ॥ ३.१९२.१९ ॥

宝藏之矿、大海与四方,以及衣裳、卧榻与消融——你当知这些都是我的。

3.192.20

मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये ।
कामं क्रोधं च हर्षं च भयं मोहं तथैव च।
ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम ॥ ३.१९२.२० ॥

为成就诸神之事,它们都由我妥善分配——欲望、愤怒、喜悦、恐惧与迷惑亦然。至善者啊,这一切都应知是我的毛发。

3.192.21

प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम् ।
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु ॥ ३.१९२.२१ ॥

婆罗门啊,人们行善业所获得的——真实、布施、严厉的苦行,以及对众生的不害。

3.192.22

मद्विधानेन विहिता मम देहविहारिणः ।
मयाऽभिभूतविज्ञाना विचेष्टन्ते न कामतः ॥ ३.१९२.२२ ॥

依我的法则而设,行于我的身体之中,智慧被我所制伏者,并非随意而动。

3.192.23

सम्यग्वेदमधीयाना यजन्ते विविधैर्मखैः ।
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ॥ ३.१९२.२३ ॥

善习吠陀,以种种祭祀供奉,心志平静、克服愤怒的再生者,便能获得。

3.192.24

…न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः ।
…भाभिभूतैः कृपणैरनार्यैरकृतात्मभिः ॥ ३.१९२.२४ ॥

……智者啊,此非行恶之人所能得到;被……所制伏的、卑劣、不高尚、心未修炼的人。

3.192.25

तस्मान्महाफलंविद्धि पदं सुकृतकर्मणः ।
सुदुष्प्रापं विमूढानां मार्गं योगैर्निषेवितम् ॥ ३.१९२.२५ ॥

因此应知此为行善者之境,结出大果。对于迷惑者而言极难达到;这是瑜伽修行所遵循的道路。

3.192.26

यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ ३.१९२.२६ ॥

善人中的至上者啊,每当法衰退、非法兴起之时,我便显现自身。

3.192.27

दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ।
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ॥ ३.१९२.२७ ॥

当沉溺暴力、连最优秀的天神也无法杀害的大阿修罗,以及可怖的罗刹,在这世间出现之时——

3.192.28

तदाऽहंसंप्रसूयामि गृहेषु शुभकर्मणाम् ।
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ॥ ३.१९२.२८ ॥

那时我便降生于行善之人的家中;进入人身之后,我平息这一切。

3.192.29

सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान् ।
स्थावराणि च भूतानि संहराम्यात्ममायया ॥ ३.१९२.२९ ॥

我创造了诸天、人类、乾闼婆、龙蛇、罗刹以及不动之物,然后以自身的幻力将它们一一收摄。

3.192.30

कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ।
आविश्य मानषं देहं मर्यादाबन्धकारणात् ॥ ३.१९२.३० ॥

在行动的时候,我再次思虑之后创造一身;为了维系礼法的约束,我进入人身。

3.192.31

श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम ।
श्यामो द्वापरमासाद्य कृष्णः कलियुगे तथा ॥ ३.१९२.३१ ॥

在克里塔时代我是白色,在特瑞塔时代是黄色;到达德瓦帕拉时为暗色,同样在迦利时代为黑色。

3.192.32

त्रयो भागा ह्यधर्मस् तस्मिन्काले भवनति च ।
यदा भवति मे वर्णः कृष्णो वै द्विजसत्तम् ॥ ३.१९२.३२ ॥

在那个时代,非法分为三份;当我的颜色变黑时,婆罗门中最优秀者啊。

3.192.33

अन्तकाले च संप्राप्ते कालो भूत्वाऽतिदारुणः ।
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् ॥ ३.१९२.३३ ॥

当终末之时来临,我化为极其可怖的时间,独自毁灭整个三界,包括不动之物与动物。

3.192.34

अहं त्रिवर्त्मा विश्वात्मा सर्वलोकसुखावहः ।
अजितः सर्वगोऽनन्तो हृषीकेश उरुक्रमः।
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम् ॥ ३.१९२.३४ ॥

我是三途者、宇宙之灵、为一切世界带来安乐者、不可战胜者、遍在者、无限的、大步者毗湿奴·希利凯莎。婆罗门啊,我独自转动无形的时轮。

3.192.35

शमनं सर्वभूतानां सर्वकालकृतोद्यमम् ।
एवं प्रणिहितः सम्यङ्मायया मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥ ३.१९२.३५ ॥

我是平息一切众生者,我的努力在所有时代运行。最优秀的仙人啊,如此为幻力所充分驱动,婆罗门之主啊,在一切众生之中,无人认识我。

3.192.36

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ॥ ३.१९२.३६ ॥

在一切世界中,我的信徒以各种方式崇拜我。

3.192.37

यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज ।
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ॥ ३.१९२.३७ ॥

婆罗门啊,你在我身上所得的一切苦恼,都是为了幸福的升起和你的福祉,无罪者啊。

3.192.38

यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम् ।
विहित सर्वथैवासौ ममात्मा भूतभावनः ॥ ३.१९२.३८ ॥

你在世间所见的一切,无论静止的还是运动的,都以各种方式被安排好了;那是我自己的自我,是众生的生育者。

3.192.39

अर्धं मम शरीरस्य सर्वलोकपितामहः ।
अहं नारायणो नाम शङ्खचक्रगदाधरः ॥ ३.१९२.३९ ॥

我身体的一半是一切世界的祖父;我名为那罗延,手持海螺、轮和棒。

3.192.40

यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् ।
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः ॥ ३.१९२.४० ॥

婆罗门仙人啊,只要经过千次劫的循环,我——宇宙之我,一切世界的祖父——便睡去。

3.192.41

एवं सर्वमहं कालमिहासे मुनिसत्तम ।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥ ३.१९२.४१ ॥

最好的仙人啊,我就这样在此度过全部时间,本非孩童,却以孩童之形,直到梵天醒来。

3.192.42

मया च दत्तो विप्राग्र्य वरस्ते ब्रह्मरूपिणा ।
असकृत्परितष्टेन विप्रर्षिगणपूजित ॥ ३.१९२.४२ ॥

婆罗门中最上者啊,我以梵之形相,屡次欢喜,已赐予你一个恩惠;你受到众多婆罗门仙人的敬拜。

3.192.43

सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् ।
विक्लबोसि मया ज्ञातस्ततस्ते दर्शितं जगत् ॥ ३.१९२.४३ ॥

你见一切化为一片大海,不动与动的万物俱灭,便感到困惑;我认出了你,于是向你显示了这个世界。

3.192.44

अभ्यन्तरं शरीरस्य प्रविष्टोसि यदा मम ।
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे ॥ ३.१९२.४४ ॥

当你进入我的身体内部时,看见了整个世界,你却惊奇不已,仍不明白。

3.192.45

ततोसि वक्राद्विप्रर्षे द्रुतं निःसारितो मया ।
आख्यातस्ते मया चात्मा दुर्ज्ञे योपि सुरासुरैः ॥ ३.१९२.४५ ॥

于是,婆罗门中的仙人啊,我迅速将你从口中送出,并向你宣说了我的自我,即使天神与阿修罗也难以知晓。

3.192.46

यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः ।
तावत्त्वमिह विप्रर्षे विस्रब्धश्चर वै सुखम् ॥ ३.१९२.४६ ॥

在大苦行者世尊梵天醒来之前,婆罗门中的仙人啊,你可在此安然而快乐地游行。

3.192.47

ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे ।
एकीभूतः प्रवेक्ष्यामि शरीराणि द्विजोत्तम ॥ ३.१९२.४७ ॥

那时,当一切世界的祖父梵天醒来,婆罗门中最优秀者啊,我将合为一体,进入诸身。

3.192.48

आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च ।
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् ॥ ३.१९२.४८ ॥

虚空、大地、光明、风与水,以及世间所余的一切,这里的不动与动的万物。

3.192.49

इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः ।
प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः ॥ ३.१९२.४९ ॥

言罢,那位极其奇妙的神隐没了,亲爱的。我看见这些被造的众生,形形色色,千差万别。

3.192.50

एवं दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये ।
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतांवरः ॥ ३.१९२.५० ॥

大王,当劫末来临时,我便如此见到了他。婆罗多中最优秀者啊,这真是奇迹;他是所有持守法者中最为杰出的。

3.192.51

यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः ।
स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः ॥ ३.१९२.५१ ॥

我先前所见的那位莲花眼之神,正是你的亲属贾纳尔达纳,人中猛虎啊。

3.192.52

अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् ।
दीर्गमायुश्च कौन्तेय स्वच्छन्दमरणं मम ॥ ३.१९२.५२ ॥

正因他的恩赐,我的记忆不曾离我而去。贡蒂之子啊,我寿命长久,死亡由我自己做主。

3.192.53

स एष कृष्णो वार्ष्णेय पुराणपुरुषो विभुः ।
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः ॥ ३.१९२.५३ ॥

这位克里希那,毗湿奴后裔,古老的补鲁沙,遍在的哈里,本性不可思议的大臂者,正像在游戏一般安住在那里。

3.192.54

एष धाता विधाता च संहर्ता चैव शाश्वतः ।
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः ॥ ३.१९२.५४ ॥

他是创造者、安排者与毁灭者,是永恒者;胸前有吉祥痣的哥文达,万物主之主,至高之主。

3.192.55

दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता ।
आदिदेवमयं जिष्णुं पुरुषं पीतवाससम् ॥ ३.१९२.५५ ॥

见到这位韦史尼族中最杰出的人,我想起:他是原初之神,身着黄衣的胜利者补鲁沙。

3.192.56

सर्वेषामेव भूतानां पिता माता च माधवः ।
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः ॥ ३.१९२.५६ ॥

摩陀婆是一切众生的父亲与母亲。俱卢族的雄牛们,去向这值得依靠的他寻求庇护吧。

3.192.57

एवमुक्तास्च ते पार्ता यमौ च पुरुषर्षभौ ।
द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम् ॥ ३.१९२.५७ ॥

听到这样的话,普利塔之子们、两位孪生的人中雄牛,与德罗波蒂一起,全体向遮那陀那致敬。

3.192.58

स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना ।
सान्त्वयामास मानार्हो मन्यमानो यथाविधि ॥ ३.१९२.५८ ॥

那位人中猛虎、值得尊敬的人,以最温和的言辞,依照礼仪安慰了他们,视他们为值得尊重的人。