Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.193

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.193.1

युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् ।
पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम् ॥ ३.१९३.१ ॥

昆提之子坚战与大臣们一同,再次向大仙人摩根德耶询问世界未来的走向。

3.193.2

आश्चर्यभूतं भवतः श्रुतं नो वदतांवर ।
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥ ३.१९३.२ ॥

言辞最善者啊,婆利古之子的仙人,您所讲述的一切令人惊叹:纪元之初所发生的,生成与消亡。

3.193.3

अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम ।
समाकुलेषु धर्मेषु किंनु शेषं भविष्यति ॥ ३.१९३.३ ॥

在这迦利时代,我的好奇心再度被唤起:当法度陷入混乱,还将剩下什么呢?

3.193.4

किंवीर्या मानवास्तत्रकिमाहारविहारिणः ।
किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ ३.१९३.४ ॥

在劫末之时,那里的人将有怎样的力量,以何为食、如何起居,寿命多长,穿着怎样的衣服?

3.193.5

कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम् ।
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ ३.१९३.५ ॥

到达怎样的境地,圆满之世(克里塔)才会再次确立?大仙啊,请详细讲述,您在此所说的皆是奇妙之事。

3.193.6

इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत ।
रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः ॥ ३.१९३.६ ॥

被如此询问后,那位最杰出的仙人、大智者,再次开口,令毗湿尼族的雄虎(黑天)与般度五子欢喜。

3.193.7

शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च ।
अनुभूतं च राजेनद्रदेवदेवप्रसादजम् ॥ ३.१९३.७ ॥

君王啊,请听:我先前所见所闻,以及我经历的,乃蒙诸神之神的恩典而生,王中之王啊。

3.193.8

भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ ।
कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ ३.१९३.८ ॥

婆罗多之牛啊,当浊世来临时,关于整个世界未来的叙述正在被讲述,请从我这里领会。

3.193.9

कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः ।
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ ॥ ३.१९३.९ ॥

婆罗多之牛啊,在圆满时代,完整的四足法如公牛般立于人间,无欺诈,无虚饰。

3.193.10

अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः ।
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ ३.१९३.१० ॥

然而,被非法之足刺穿的法,以三分而立。在特雷塔时代和杜阿帕拉时代,法被称为半数混杂。

3.193.11

त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति ।
तामसं युगमासाद्य तदा भरतसत्तम ॥ ३.१९३.११ ॥

然而非法以三分覆盖诸世界而立。婆罗多中最优秀者啊,那时黑暗时代来临之际。

3.193.12

चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ।
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव ॥ ३.१९३.१२ ॥

然而法以四分之一立于人间:寿命、勇力、心、智、力量与光辉,般度之子啊。

3.193.13

मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर ॥ ३.१९३.१३ ॥

坚战啊,请听我说:直到每个摩奴时代,人类的寿命都将衰减;婆罗门、刹帝利、吠舍和首陀罗皆然。

3.193.14

व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ।
सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः ॥ ३.१९३.१४ ॥

以法为幌子的欺诈之人将借口行法;在世间,那些自认博学的人会使真实减少。

3.193.15

सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ।
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ॥ ३.१९३.१५ ॥

于是,因真实的丧失,他们的寿命将变得短暂;寿命耗尽之后,他们将无法充分学习知识。

3.193.16

विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति ।
लोभमोहपरा मूढाः कामासक्ताश् मानवाः ॥ ३.१९३.१६ ॥

缺乏学问与见识的人,也将被贪欲所压倒;人们将变得愚昧,沉溺于贪婪与迷妄,执着于欲望。

3.193.17

वैरबद्धा भविष्यन्ति परस्परवधैषिणः ।
ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्ते परस्परम् ॥ ३.१९३.१७ ॥

他们被仇恨束缚,彼此都想置对方于死地;婆罗门、刹帝利与吠舍将相互混杂。

3.193.18

शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ।
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः ॥ ३.१९३.१८ ॥

他们失去苦行与真实,将与首陀罗等同;最低者将变成中等,中等者将变成最低,这毫无疑问。

3.193.19

ईदृशो भविता लोको युगान्ते पर्युपस्थिते ।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः ॥ ३.१९३.१९ ॥

当时代之末来临时,世界将是这样:衣物中最好的是粗布沙尼(śāṇī),谷物中最好的是小米科多(kodrūpaka)。

3.193.20

भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ।
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ॥ ३.१९३.२० ॥

在时代毁灭之际,男人们将把妻子当作朋友,靠吃鱼肉生活,并挤山羊和绵羊的奶。

3.193.21

गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः ।
तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये ॥ ३.१९३.२१ ॥

牛群消失之后,那些一向持守誓愿的人,也会在时代毁灭之际充满贪欲。

3.193.22

अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ ३.१९३.२२ ॥

在时代毁灭之际,人们将互相劫掠、伤害,不念诵祷语(japa),成为无神论者和盗贼。

3.193.23

सरित्तीरेषु कुद्दालैर्वापयिष्यनति चौपधीः ।
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥ ३.१९३.२३ ॥

在时代毁灭之际,人们将在河岸上用锄头播种谷物,而这些作物对他们来说也只有很少的收成。

3.193.24

श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृव्रताः ।
तेऽपिलोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ ३.१९३.२४ ॥

那些在祭祖和祭神仪式中一向持守誓愿的人,也会充满贪欲,在这里彼此共食。

3.193.25

पिता पुत्रस् भोक्ता च पितुः पुत्रस्तथैव च ।
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ ३.१९३.२५ ॥

父将食其子,子亦食其父,如是;至劫末,所食之物皆越轨。

3.193.26

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ।
न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः।
निम्नेष्वीहां करिष्यनति हेतुवादविमोहिताः ॥ ३.१९३.२६ ॥

诽谤吠陀的婆罗门不再持戒;被辩论之说所迷惑,他们不祭祀,不献供;被辩论之说所迷惑,他们将在低下之处营营。

3.193.27

निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुक्राः ।
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥ ३.१९३.२७ ॥

低洼之地,人们将耕作;挤奶之人将以牛轭驾牛,人们将让一岁的小牛负重。

3.193.28

पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा ।
स्त्रियोऽपि पतिपुत्रादीन्वधिष्यनति युगक्षये।
निरुद्वेगो बृहद्बादी न निन्दामुपलप्स्यते ॥ ३.१९३.२८ ॥

子杀父,父杀子;至劫末,妇人亦杀其夫、子等。无畏、大臂者不得受讥。

3.193.29

म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम् ।
भविष्यति निरानन्दमनुत्सवमथो तथा ॥ ३.१९३.२९ ॥

全世界将变为蛮夷,无祭仪,无布施;将无欢乐,也无节庆。

3.193.30

प्रायशः कृपणानां हि तथा बन्धुमतामपि ।
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ ३.१९३.३० ॥

多数情况下,人们将在此夺取贫弱者、有亲属者以及寡妇的财物。

3.193.31

स्वल्पवीर्यबलाः स्वाधा लोभमोहपरायणाः ।
तत्कथादानसंतुष्ट शिष्टानामपि बान्धवाः ॥ ३.१९३.३१ ॥

无勇力、少力量之人,任性自专,沉溺贪欲与迷妄,只满足于谈论此事与布施;即便是贤者的亲族也将如此。

3.193.32

परिग्रहंकरिष्यति मायाचारपरिग्रहाः ।
संघातयन्तः तय राजानः पापबुद्धयः ॥ ३.१९३.३२ ॥

他们会把以欺诈手段获得的财物据为己有;心怀恶念的国王也会结盟而如此行事。

3.193.33

परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः ।
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ ३.१९३.३३ ॥

愚昧的刹帝利,彼此相杀,却自认为智者,在时代末期将成为世间的荆棘。

3.193.34

अरक्षितारो लुब्धाश् मानाहंकारदर्पिताः ।
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ ३.१९३.३४ ॥

不保护百姓、贪婪、被傲慢与自大所迷惑、只喜爱刑罚之人,将出现在时代衰败之时。

3.193.35

आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च ।
भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत ॥ ३.१९३.३५ ॥

婆罗多之子啊,他们一再侵袭,毫无怜悯地霸占善人的妻子与财物,即便他人哭泣也在所不惜。

3.193.36

न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते ।
स्वयंग्रहा भविष्यन्ति युगान्ते समुपस्थिते ॥ ३.१९३.३६ ॥

无人求娶少女,也无人将少女许配;时代末期来临时,人们将自行择偶。

3.193.37

राजानश्चाप्यसंतुष्टाः परार्तान्मूढचेतसः ।
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.३७ ॥

即使诸王也将不知足、心智昏迷,当劫末来临时,他们会以一切手段夺取他人的财富。

3.193.38

म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः ।
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते ॥ ३.१९३.३८ ॥

整个世界将变成蛮夷,毫无疑问;当劫末来临时,手将偷手。

3.193.39

सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः ।
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ ३.१९३.३९ ॥

世间的真理将被那些自以为博学的人所削减;老人将有孩童的心智,孩童将有老人的智慧。

3.193.40

भीरुस्था शूरमानी शूरा भीरुविषादिनः ।
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ ३.१९३.४० ॥

怯懦者将自夸为英雄,英雄则变得怯懦而沮丧;当劫末来临时,他们将彼此互不信任。

3.193.41

नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम् ।
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते ॥ ३.१९३.४१ ॥

整个世界将不再一夫一妻,而沉溺于贪婪与迷惑;那里不义将增长,正法不会盛行。

3.193.42

ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप ।
एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ ३.१९३.४२ ॥

人主啊,婆罗门、刹帝利与吠舍将会灭亡;那时在劫末,世界将只有一个种姓。

3.193.43

न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा ।
भार्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षये ॥ ३.१९३.४३ ॥

在劫末之时,父不容子,子亦不容父;妻子也不再侍奉丈夫。

3.193.44

ये यवान्ना जनपदा गोधूमान्नास्तथैव च ।
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.४४ ॥

以大麦为食的国土,以小麦为食的国土,人们将投奔这些地方,当劫末来临之时。

3.193.45

स्वैराहाराश्च पुरुषा योषितश्च विशांपते ।
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.४५ ॥

人主啊,男子与女子将随意饮食;劫末来临之时,他们彼此不能相容。

3.193.46

म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर ।
श्राद्धे न देवान्न पितॄँस्तर्पयिष्यन्ति मानवाः ॥ ३.१९३.४६ ॥

Yudhiṣṭhira啊,整个世界将变得如同蛮夷;人们在祭祖(śrāddha)中既不供奉诸神,也不供奉祖先。

3.193.47

न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः ।
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप ॥ ३.१९३.४७ ॥

无人再为人听受,亦无人再为人之师;人主啊,那时世界将被黑暗所笼罩。

3.193.48

परमायुश्च भविता तदा वर्षाणि षोडश ।
ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते ॥ ३.१९३.४८ ॥

那时最长寿命只有十六年;此后劫末来临之时,人们将舍弃其生命之气。

3.193.49

पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते ।
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥ ३.१९३.४९ ॥

在第五或第六年,少女便会生育;那时七八岁的男子也会生儿育女。

3.193.50

पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति ।
युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ ३.१९३.५० ॥

那时,大王啊,在劫末,妻子对丈夫、丈夫对妻子都不会感到满足,王中之虎啊。

3.193.51

अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति ।
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ ३.१९३.५१ ॥

财物稀少、假饰外表的人将会出现,暴力将会盛行;在劫坏之时,无人会向他人施舍。

3.193.52

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियश्चापि भविष्यनति युगक्षये ॥ ३.१९३.५२ ॥

在劫坏之时,国土将以望楼为桩,十字路口以湿婆之桩为标,女子也将以发为桩。

3.193.53

म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु ।
भाविन पश्चिमे काले मनुष्या नात्र संशयः ॥ ३.१९३.५३ ॥

在末世,人们将行为如蛮夷,无物不食,凡事皆残酷,此无疑问。

3.193.54

क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् ।
युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति ॥ ३.१९३.५४ ॥

买卖之时,人人欺骗他人;在劫末,婆罗多之最,他们因贪财而如此行事。

3.193.55

ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा ।
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते ॥ ३.१९३.५५ ॥

他们虽不知智慧,也会如此行事。当时代末期来临时,他们将随心所欲地行事。

3.193.56

स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः ।
भवितारो जनाः सर्वे संप्राप्ते तु युगक्षये ॥ ३.१९३.५६ ॥

人们天性都将行为残酷,并且互相诽谤。当时代毁灭来临时,他们便是如此。

3.193.57

आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः ।
भविता संशयो लोके जीवितस्य हि देहिनाम् ॥ ३.१९३.५७ ॥

他们毫无悲悯地毁坏园林和树木。世间将有众生生命的不确定。

3.193.58

तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप ।
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः ॥ ३.१९३.५८ ॥

同样,国王啊,人们将被贪欲所控制,享用婆罗门财富的人将杀害婆罗门。

3.193.59

हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः ।
त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम् ॥ ३.१९३.५९ ॥

再生者们哀号呼喊,因恐惧而痛苦,被低贱者所欺压,找不到保护者,将在这大地上流浪。

3.193.60

जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः ।
यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम् ॥ ३.१९३.६० ॥

当出现那些终结生命、残酷、凶暴、伤害众生的人时,这个时代将被缩短。

3.193.61

आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च ।
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ ३.१९३.६१ ॥

他们将躲入河流、山岳和险要之地,再生者惊恐奔逃,哦,承担库鲁族的人。

3.193.62

दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः ।
कुराजभिश्च सततं करभारप्रपीडिताः ॥ ३.१९३.६२ ॥

大王啊,被盗贼所苦的最优秀的再生者将如乌鸦一般,并且不断被恶王的赋税重担压垮。

3.193.63

धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये ।
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ ३.१९३.६३ ॥

大地的守护者啊,在可怕的时代毁灭中,放弃坚定的人,作为首陀罗仆人,将行禁止之事。

3.193.64

शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः ।
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ ३.१९३.६४ ॥

首陀罗将传授法,婆罗门服侍他们,依其权威而立,成为听众。

3.193.65

विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः ।
एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः।
शूद्राश्च प्रभविष्यन्ति न द्विजा युगसंक्षये ॥ ३.१९३.६५ ॥

这个世界将颠倒混乱。人们将崇拜埃杜卡,躲避诸神。在时代毁灭时,首陀罗将得势,而非再生者。

3.193.66

आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च ।
देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ ३.१९३.६६ ॥

在大仙人的隐修所,在婆罗门的住所,在诸神的庙宇,在圣坛,以及在龙蛇的居所。

3.193.67

एडूकचिह्ना पृथिवी न देवगृहभूषिता ।
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥ ३.१९३.६७ ॥

当时代衰败时,大地将布满污点,不再以神庙装饰;这便是时代终结的征兆。

3.193.68

दा रौद्रा धर्महीना मांसादाः पानपास्तथा ।
भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम् ॥ ३.१९३.६८ ॥

那时人们将永远残酷、凶暴、失去法度,食肉饮酒;那时时代将被缩短。

3.193.69

पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम् ।
प्रजास्यति महाराज तदा संक्षेप्स्यते युगम् ॥ ३.१९३.६९ ॥

大王啊,当花接着花、果接着果而生时,那时时代将被缩短。

3.193.70

अकालवर्षी पर्जन्यो भविष्यति गते युगे ।
अक्रमेण मनुष्याणां भविष्यनति तदा क्रियाः ॥ ३.१९३.७० ॥

时代过去之后,云雨将不合时令地降落;那时人们的行为将失去秩序。

3.193.71

विरोधमथ यास्यनति वृषला ब्राह्मणैः सह ।
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात् ॥ ३.१९३.७१ ॥

那时,贱民将与婆罗门对立;不久之后,大地将充满蛮族之人。

3.193.72

करभारभयाद्विप्रा भजिष्यन्ति दिशो दश ।
अन्यायवर्तिनश्चापि भविष्यनति नराधिपाः ॥ ३.१९३.७२ ॥

因畏惧赋税的重负,婆罗门将逃往十方;而国王也将行事不义。

3.193.73

निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः ।
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ॥ ३.१९३.७३ ॥

同样,无差别的国土,受徭役和赋税所苦,将找不到修行林舍,也找不到以果实根茎为生的人。

3.193.74

एवं पर्याकुले लोके मर्यादा न भविष्यति ।
ब्राह्मणःक्षत्रियावैश्याः परित्यक्ष्यन्ति सत्क्रियाम्
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ ३.१९३.७४ ॥

世界如此混乱之时,便无秩序;婆罗门、刹帝利、吠舍将舍弃应有的善行,行事违逆的弟子也不会坚守教导。

3.193.75

आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम् ।
अर्थयुक्त्या प्रवात्स्यन्ति मित्रसंबन्धिबान्धवाः ॥ ३.१९३.७५ ॥

此后,托付于师长的财物也将被轻蔑;为了财利,朋友、亲属和族人都将远离。

3.193.76

अभावः सर्वभूतानां युगान्ते संभविष्यति ।
दिशः प्रज्वलिता सर्वा नक्षत्राण्यप्रभाणि च ॥ ३.१९३.७६ ॥

劫末之时,一切众生将不复存在;四方皆燃烧,星宿也失去光明。

3.193.77

प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा ।
उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ ३.१९३.७७ ॥

星辰被烟雾笼罩,风也狂乱;许多流星坠落,乃是大恐怖的征兆。

3.193.78

षङ्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति ।
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः।
कबन्धान्तर्हितो भानुरुदयास्तमने तदा ॥ ३.१९३.७८ ॥

太阳与其他六者一同炽烈燃烧;到处是可怕的轰鸣,四方发生火灾;日出与日落之时,太阳被无头之躯,即云,所遮蔽。

3.193.79

अकालवर्षी भगवान्भविष्यति सहस्रदृक् ।
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.७९ ॥

千眼的世尊(因陀罗)将降下不按时节的雨水;当劫末来临时,庄稼将不再生长。

3.193.80

अभीक्ष्णं क्रूरवादिन्यः परुषा रदितप्रियाः ।
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः ॥ ३.१९३.८० ॥

女人将不断说出残酷粗暴的话,失去对丈夫的爱,也不再听从丈夫的话。

3.193.81

पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये ।
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥ ३.१९३.८१ ॥

在时代毁灭之际,儿子将杀害父母;依靠儿子的女人将杀死她们的丈夫。

3.193.82

अपर्वणि महाराज सूर्यं राहुरुपैष्यति ।
युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति ॥ ३.१९३.८२ ॥

大王啊,在不当的时候,罗睺将吞噬太阳;在劫末,火也将四面燃烧。

3.193.83

पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः ।
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ ३.१९३.८३ ॥

那时,行路人乞求水与食物却得不到,也找不到住所;被驱赶的他们,只得躺倒在路上。

3.193.84

निर्घातवायसा नागाः शकुनाः समृगद्विजाः ।
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.८४ ॥

劫末来临之时,雷霆之兆的乌鸦、大象、飞鸟,与走兽和鸟类一起,将发出粗厉的叫声。

3.193.85

मित्रसंबन्धिनश्चापि संत्यक्ष्यनति नरास्तदा ।
जनं परिजनं चापि यागान्ते पर्युपस्थिते ॥ ३.१९३.८५ ॥

那时,人们甚至会抛弃朋友与亲属、民众与家人,当时代的终结来临之际。

3.193.86

अथ देशान्दिशश्चापि पत्तनान्यापणानि च ।
क्रमशः संलयिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३.१९३.८६ ॥

那时,国家与四方、城镇与市集也将逐渐消散,当时代的终结来临之际。

3.193.87

हा तात हा सुतेत्येवं तदा वाच सुदारुणाः ।
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ ३.१९३.८७ ॥

那时,人们以如此狠毒的话语呼喊:“哎,父亲!哎,儿子!”彼此呼号,流浪于大地之上。

3.193.88

मोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः ।
पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये ॥ ३.१९३.८८ ॥

说谎者,以及首陀罗与婆罗门,将受平民喜爱;在混杂着异端之徒的时代衰败之时。

3.193.89

ततस्तुमुलसंघाते वर्तमाने युगक्षये ।
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥ ३.१९३.८९ ॥

那时,在时代的衰败中,当喧嚣的争斗正盛之际,以再生者为首的世界将逐渐重新兴起。

3.193.90

ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये ।
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ ३.१९३.९० ॥

此后另一时代,为了世界的再度兴盛,天命将自然而然地再次变得顺遂。

3.193.91

यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती ।
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ ३.१९३.९१ ॥

当太阳与月亮,以及帝须与木星会聚于同一宫时,那时克里ता时代将会到来。

3.193.92

कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च ।
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः।
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ ३.१९३.९२ ॥

将有按时降雨的云,诸宿星吉祥,行星也将依顺序右旋运行;将有安宁、丰收、健康与无病之境。

3.193.93

कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः ।
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥ ३.१९३.९३ ॥

一位名为迦尔吉、名为毗湿奴夜奢斯的婆罗门,受时间驱使而降生;他将具大勇猛、大智慧与大力量。

3.193.94

संभूतः संभलग्रामे ब्राह्मणावसथे शुभे ।
महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप ॥ ३.१९३.९४ ॥

他将生于桑巴拉村,一个吉祥的婆罗门家中;大王啊,他将是大德之人,具足善行,利益众生。

3.193.95

मनसा तस्य सर्वाणि वाहनान्यायुधानि च ।
उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ ३.१९३.९५ ॥

仅凭他的心念,他的一切车乘与兵器、战士、武器与甲胄,都将来侍奉他。

3.193.96

स धर्मविजयी राजा चक्रवर्ती भविष्यति ।
सचेमं संकुलं लोकं प्रसादमुपनेष्यति ॥ ३.१९३.९६ ॥

他将成为以法取胜的君王,转轮圣王;他将把这纷乱的世界引向恩惠与安宁。

3.193.97

उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः ।
संक्षेपको हि सर्वस्य युगस्य परिवर्तकः ॥ ३.१९३.९७ ॥

将会兴起一位光辉的婆罗门,他带来毁灭的终结,心胸高尚;他将浓缩并转变整个时代。

3.193.98

स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः ।
उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः ॥ ३.१९३.९८ ॥

那位再生者被婆罗门环绕,届时将铲除遍布各处的所有卑贱的蛮族军团。