摩诃婆罗多 · 章 3.194
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.194.1
ततश्चोरक्षयंकृत्वाद्विजेभ्यः पृथिवीमिमाम् ।
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥ ३.१९४.१ ॥
随后,他将消灭盗贼,把这片大地奉献给婆罗门,并在大祭马祀中依照规则安排妥当。
3.194.2
स्थापयित्वा च मर्यादाः स्वयंभुविहिताः शुभाः ।
पुनः पुण्ययशःकर्म जरया संश्रयिष्यति ॥ ३.१९४.२ ॥
他将确立自生者所规定的吉祥界限,再次行那些带来功德与名声的事业,并在衰老时依靠这些事业。
3.194.3
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः ।
विप्रैश्चोरक्षये चैव कृतेक्षेमं भविष्यति ॥ ३.१९४.३ ॥
世间居民将遵循他的品行;随着盗贼被消灭,并借婆罗门之力,安康将得以确立。
3.194.4
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च ।
स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च ॥ ३.१९४.४ ॥
黑羚皮、长矛、三叉戟及其他兵器——那位再生者中的猛虎,将在征服之地设立这些。
3.194.5
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् ।
कल्कीचरिष्यति महीं सदा दस्युवधे रतः ॥ ३.१९४.५ ॥
受到最优秀婆罗门的赞颂,尊敬再生者中的上士,迦尔吉将常常游行大地,以诛杀盗贼为乐。
3.194.6
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः ।
विक्रोशमानान्सुभृशं दस्यूननेष्यति संक्षयम् ॥ ३.१९४.६ ॥
那些大声哀号、发出各种可怖叫喊——“哎呀,母亲!哎呀,父亲!哎呀,儿子!”——的盗贼,他将引向毁灭。
3.194.7
ततोऽधऱ्मविनाशो वै धर्मवृद्धिश्च भारत ।
भविष्यति कृतेप्राप्ते क्रियावांश्च जनस्तथा ॥ ३.१९४.७ ॥
婆罗多之裔啊,当克利塔时代到来时,非法将被消灭,法将增长,人们也将乐于行善。
3.194.8
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा ।
पुष्करिण्यश्च विविधा देवतायतनानि च ॥ ३.१९४.८ ॥
将有园林、塔庙、池塘、住所、各种莲花池,以及诸神的殿堂。
3.194.9
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे ।
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ॥ ३.१९४.९ ॥
在克利塔时代,将有种种祭祀之礼;婆罗门、善人、仙人与苦行者都会存在。
3.194.10
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा ।
जायन्ति सर्वभूतानि शुध्यमानानि चैव हि ॥ ३.१९४.१० ॥
那时,诸住期将无异端,人们安住于真实,一切众生都将以清净之身出生。
3.194.11
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति ।
नरा दानेषु निरता व्रतेषु नियमेषु च ॥ ३.१९४.११ ॥
诸王之主啊,四季之中,一切谷物都将丰收;人们将乐于布施,专心于誓戒与律仪。
3.194.12
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः ।
पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् ॥ ३.१९४.१२ ॥
专注于诵咒祭祀、渴求法且心怀喜悦的婆罗门,以及以法守护此大地的诸王。
3.194.13
व्यवहाररता वैश्या भविष्यन्ति कृते युगे ।
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥ ३.१९४.१३ ॥
在克利塔时代,吠舍将从事商业,婆罗门从事六种职责,刹帝利从事护卫。
3.194.14
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च ।
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ॥ ३.१९४.१४ ॥
首陀罗将以服侍为务,也同样服侍其余三个瓦尔那。这是克利塔时代的法,特莱塔与德瓦帕拉时代亦复如此。
3.194.15
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः ।
सर्वलोकस् विदिता युगसह्ख्या च पाण्डव ॥ ३.१९४.१५ ॥
你所听闻的,乃是末世之事。般度之子啊,诸世界都知道诸时代的数目。
3.194.16
एतत्ते सर्वमाख्यातमतीतानागतं मया ।
वायुप्रोक्तमनुस्मृत्यपुराणमृषिसंस्तुतम् ॥ ३.१९४.१६ ॥
过去与未来的一切,我已全部告诉你。这部由风神宣说、凭记忆流传、被诸仙赞颂的往世书。
3.194.17
एवं संसारमार्गा मे बहुशश्चिरजीविनः ।
दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि ॥ ३.१९४.१७ ॥
如此,我长寿,已多次目睹并经历世间存在的诸般道路。你还想听什么呢?
3.194.18
इदं चैवापरं भूयः सह भ्रातृभिरच्युत ।
धर्मसंशयमोक्षार्थं निबोध वचनं मम ॥ ३.१९४.१८ ॥
阿周那啊,你与兄弟们一同听听我的这句话,以解除对法的疑惑。
3.194.19
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतांवर ।
धर्मात्मा हि सुखं राजन्प्रेत्य चेह च नन्दति ॥ ३.१९४.१९ ॥
持法者中最优秀的人啊,你在此不应对法有别的理解。国王啊,以法为心者,无论今生还是死后,都会欢喜享乐。
3.194.20
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन ।
ब्राह्मणः कुपितोऽहन्यादपि लोकान्प्रतिज्ञया ॥ ३.१९४.२० ॥
你绝不可轻慢婆罗门。被激怒的婆罗门凭其誓愿,甚至能毁灭诸世界。
3.194.21
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः ।
उवाच वचनं धीमान्परमं परमद्युतिः ॥ ३.१९४.२१ ॥
俱卢中最杰出的、极为光辉的智慧国王,听了摩根德耶的话后,说出了这些话。
3.194.22
एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम ।
कथं चायं जितोलोको रक्षितव्यो भविष्यति ॥ ३.१९४.२२ ॥
诸仙中最优秀的人啊,听了这些,我该做什么?这个已被征服的世界又将如何得到守护?
3.194.23
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने ।
कथंच वर्तमानो वै न च्यवेयं स्वधर्मतः ॥ ३.१९४.२३ ॥
圣者啊,我在保护臣民时应当安住于哪一法?如何行事,才不会从自身的法上坠落?
3.194.24
दयावान्सर्वबूतेषु हितो रक्तोऽनसूयकः ।
उपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः ॥ ३.१९४.२४ ॥
对一切众生慈悲,怀着善意,专注而不嫉妒,像爱护子女一样,乐于保护臣民。
3.194.25
चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर ।
प्रमादाद्यत्कृतं तेऽभूत्सम्यग्ज्ञानेन तज्जय ॥ ३.१९४.२५ ॥
行法,舍非法,追念先祖。凡因放逸所作,当以正智胜之。
3.194.26
अलं ते मानमाश्रित्य सततं प्रियवाग्भव ।
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ॥ ३.१९४.२६ ॥
勿再依恃傲慢;常应说悦耳之言。征服整个大地之后,应欢喜而安乐。
3.194.27
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः ।
न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि ॥ ३.१९४.२७ ॥
此过去与未来之法已为你宣说。世间过去与未来之事,无一为你所不知。
3.194.28
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः ।
प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः ॥ ३.१९४.२८ ॥
因此,孩子,不要把这份烦恼放在心中。孩子,智者即使为时间所困扰,也不会迷惑。
3.194.29
एष कालो महाबाहो अपि सर्वदिबौकसाम् ।
मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः ॥ ३.१९४.२९ ॥
大臂者啊,这就是时间,它甚至使天界所有居民迷惑。孩子,被时间驱使的众生确实会迷惑。
3.194.30
मा च तेऽत्र विशङ्का भूद्यन्मयोक्तं तवानघ ।
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥ ३.१९४.३० ॥
无罪者啊,对于我所说的,你此处不要有疑惑。过度怀疑此言,将导致你失去法。
3.194.31
जातोसि प्रथिते वंशे कुरूणां भरतर्षभ ।
कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥ ३.१९४.३१ ॥
婆罗多族的雄牛啊,你生于显赫的俱卢族。以行为、以心意、以言语,去践行这一切。
3.194.32
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् ।
तथा करिष्ये यत्नेन भवतः शासनं विभो ॥ ३.१९४.३२ ॥
再生者中最殊胜的人啊,您所说的那句悦耳动听的话,我必定竭力照着去做。主啊,这便是您的教令。
3.194.33
न मे लोभोस्ति विप्रेन्द्रन भयं न च मत्सरः ।
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥ ३.१९४.३३ ॥
婆罗门中的王啊,我心中没有贪欲,没有恐惧,也没有嫉妒。主啊,您为我所说的一切,我必定去做。
3.194.34
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः ।
संहृष्टः पाण्डवा राजन्सहिता शार्ङ्गधन्वना ॥ ३.१९४.३४ ॥
大王啊,听到那位名闻天下的般度之子的话语,般度五子与持弓者(黑天)一同欢喜。
3.194.35
विप्र्रषभाश्च ते सर्वे ये तत्रासन्समागताः ।
तथा कथां शुभां श्रुत्वा रमार्कण्डेयस्य धमतः।
विस्मिता समपद्यन्त पुराणस् निवेदनात् ॥ ३.१९४.३५ ॥
聚集在那里的所有婆罗门中的雄牛,听到摩根德耶所说的那段吉祥故事,因古老传说的讲述而惊叹不已。