摩诃婆罗多 · 章 3.195
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.195.1
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ ३.१९५.१ ॥
般度之子(坚战)对摩根德耶说:“你应当再次讲述婆罗门的大福分。”
3.195.2
अथाचष्ट मार्कण्डेयः ॥ ३.१९५.२ ॥
于是摩根德耶讲述了(这个故事)。
3.195.3
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् ॥ ३.१९५.३ ॥
在阿逾陀,一位出生于甘蔗王(伊刹婆迦)族的国王名叫补利什特,前去狩猎。
3.195.4
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् ॥ ३.१९५.४ ॥
他骑着一匹马追赶鹿,那鹿却把他带到了很远的地方。
3.195.5
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् ।
तच्च विवेश ॥ ३.१९५.५ ॥
于是,他在路上疲惫不堪,饥渴交加,在某处看见一片暗蓝色的树林,便走了进去。
3.195.6
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ ३.१९५.६ ॥
他在林中央看见一座极为迷人的湖泊,便与马一同步入水中。
3.195.7
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् ॥ ३.१९५.७ ॥
随后他稍事休息,把莲茎与莲丝放在马前,便坐在莲池岸边。
3.195.8
ततः शयानो मधुरं गीतशब्दमशृणोत् ॥ ३.१९५.८ ॥
随后他躺在那里,听见了悦耳的歌声。
3.195.9
स श्रुत्वाचिन्तयत् ।
नेह मनुष्यगतिं पश्यामि
कस्य खल्वयं गीतशब्द इति ॥ ३.१९५.९ ॥
他听了便想:“这里看不到人迹,这歌声是谁的呢?”
3.195.10
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च ॥ ३.१९५.१० ॥
这时他看见一位容貌极美、令人赏心悦目的少女,正在采花并歌唱。
3.195.11
अथ सा राज्ञः समीपे पर्यक्रामत् ॥ ३.१९५.११ ॥
于是她在国王身边来回走动。
3.195.12
तामब्रवीद्राजा ।
कस्यासि सुभगे त्वमिति ॥ ३.१९५.१२ ॥
国王对她说:“幸运的姑娘,你是谁家的人?”
3.195.13
सा प्रत्युवाच ।
कन्यास्मीति ॥ ३.१९५.१३ ॥
她回答说:"我是少女。"
3.195.14
तां राजोवाच ।
अर्थी त्वयाहमिति ॥ ३.१९५.१४ ॥
国王对她说:"我想要你。"
3.195.15
अथोवाच कन्या ।
समयेनाहं शक्या त्वया लब्धुम्
नान्यथेति ॥ ३.१९५.१५ ॥
于是少女说:"只有在一个条件下你才能得到我,别无他法。"
3.195.16
तां राजा समयमपृच्छत् ॥ ३.१९५.१६ ॥
国王问她那个条件是什么。
3.195.17
ततः कन्येदमुवाच ।
उदकं मे न दर्शयितव्यमिति ॥ ३.१९५.१७ ॥
于是少女说:"不可让我看见水。"
3.195.18
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते ॥ ३.१९५.१८ ॥
那位国王说:"好。"于是与她结合,并与她同住。
3.195.19
तत्रैवासीने राजनि सेनान्वगच्छत् ।
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् ॥ ३.१९५.१९ ॥
国王仍坐在那里时,军队步步跟来;见到国王,便将他团团围住而立。
3.195.20
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया ।
स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते
नान्यत्किञ्चनापश्यत् ॥ ३.१९५.२० ॥
国王得到安慰,与她一同乘坐未曾打开的轿子回到自己的城中;到达后,他在僻静处与她欢娱,别无所见。
3.195.21
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् ।
किमत्र प्रयोजनं वर्तत इति ॥ ३.१९५.२१ ॥
于是首席大臣问在他身边的女子们:“这里有什么用意?”
3.195.22
अथाब्रुवंस्ताः स्त्रियः ।
अपूर्वमिव पश्याम उदकं नात्र नीयतेति ॥ ३.१९५.२२ ॥
那些女子便说:“我们仿佛看到了从未见过的景象——这里没有人送水来。”
3.195.23
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् ।
वनमिदमुदारमनुदकम्
साध्वत्र रम्यतामिति ॥ ३.१९५.२३ ॥
于是大臣安排了一片无水的林地,那里有高贵的树木,盛产根、花与果。他私下走近国王说:“这片林子甚好,只是没有水;请在此尽情欢娱吧。”
3.195.24
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् ।
स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत्
अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् ॥ ३.१९५.२४ ॥
依他的话,他与王后一同进入那片林子。有一次,他正与她在那片可爱的林中嬉戏,忽然饥渴交迫、疲惫不堪,看见一座门户大开的房屋。
3.195.25
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् ॥ ३.१९५.२५ ॥
于是国王与爱妃一同进入,看见一口石阶井,井底砌得精美,盛满清澈的水。
3.195.26
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् ॥ ३.१९५.२६ ॥
他看见了它,便与王后一同站在它的岸边。
3.195.27
अथ तां देवीं स राजाब्रवीत् ।
साध्ववतर वापीसलिलमिति ॥ ३.१९५.२७ ॥
于是国王对王后说:“好,下到这口井的水里去吧。”
3.195.28
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् ।
न पुनरुदमज्जत् ॥ ३.१९५.२८ ॥
她听了他的话,下到井中沉没了;再也没有浮出来。
3.195.29
तां मृगयमाणो राजा नापश्यत् ॥ ३.१९५.२९ ॥
国王四处寻找她,却没有找到。
3.195.30
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास ।
सर्वमण्डूकवधः क्रियतामिति
यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ॥ ३.१९५.३० ॥
他又把井水抽干,见洞口有一只青蛙,便怒而下令:“把所有青蛙都杀掉;凡有所求于我者,须带着死青蛙作为供品来见我。”
3.195.31
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् ।
ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ ३.१९५.३१ ॥
当可怕的蛙群屠杀进行时,恐惧笼罩了四面八方的青蛙。它们惊恐地将所发生的事情禀告了蛙王。
3.195.32
ततो मण्डूकराट्तापसवेषधारी राजानमभ्यगच्छत् ॥ ३.१९५.३२ ॥
于是蛙王化作苦行者的模样,走近那位国王。
3.195.33
उपेत्य चैनमुवाच ।
मा राजन्क्रोधवशं गमः
प्रसादं कुरु ।
नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति ॥ ३.१९५.३३ ॥
他走近国王说:"国王啊,不要被愤怒所支配;请施恩。你不应杀害无辜的青蛙。"
3.195.34
श्लोकौ चात्र भवतः ।
मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत ।
प्रक्षीयते धनोद्रेको जनानामविजानताम् ॥ ३.१९५.३४ ॥
这里还有两首偈颂:"不坚者啊,不要想杀害青蛙;收敛你的愤怒。不明事理之人的财富,终将耗尽。"
3.195.35
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे ।
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ ३.१९५.३५ ॥
"请承诺不杀害它们;你若被愤怒驱使,之后会放弃它的。你的不义已经够了;杀死这些青蛙对你有什么好处呢?"
3.195.36
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच ।
न हि क्षम्यते तन्मया
हनिष्याम्येतान् ।
एतैर्दुरात्मभिः प्रिया मे भक्षिता
सर्वथैव मे वध्या मण्डूकाः ।
नार्हसि विद्वन्मामुपरोद्धुमिति ॥ ३.१९५.३६ ॥
对他如此说话,心被亲人之悲所充满的国王说道:"这我不能宽恕。我要杀死他们。这些邪恶之徒吞食了我心爱的人;这些青蛙无论如何都应由我诛杀。博学者啊,你不应阻拦我。"
3.195.37
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच ।
प्रसीद राजन्
अहमायुर्नाम मण्डूकराजः ।
मम सा दुहिता सुशोभना नाम
तस्या दौःशील्यमेतत् ।
बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥ ३.१९५.३७ ॥
听到这些话,感官和心意都动摇了,他说道:"大王,请慈悲!我是名为阿尤的蛙王。我的女儿名叫苏首跋那。这是她的恶行;因为她以前已经欺骗了许多国王。"
3.195.38
तमब्रवीद्राजा ।
तयास्म्यर्थी
सा मे दीयतामिति ॥ ३.१९५.३८ ॥
国王对他说:"我想要她。请把她给我。"
3.195.39
अथैनां राज्ञे पितादात् ।
अब्रवीच्चैनाम्
एनं राजानं शुश्रूषस्वेति ॥ ३.१९५.३९ ॥
于是父亲把她交给了国王,并对她说:"侍奉这位国王。"
3.195.40
स उवाच दुहितरम् ।
यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति ॥ ३.१९५.४० ॥
他对女儿说:"因为你欺骗了国王,你的后代将对婆罗门不敬,因为你行的是虚妄之事。"
3.195.41
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् ।
अनुगृहीतोऽस्मीति ॥ ३.१९५.४१ ॥
那国王得到她,心被爱欲之乐所牵系,仿佛获得了三界的主宰,以喜悦泪水哽咽的声音,向蛙王顶礼致敬,说道:“我蒙受了恩典。”
3.195.42
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् ॥ ३.१९५.४२ ॥
蛙王向女婿辞别后,便照来时的路返回了。
3.195.43
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ।
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ ३.१९५.४३ ॥
此后过了一些时候,她为那国王生下三个儿子:沙罗、达罗和巴罗。之后到了适当的时候,父王立长子沙罗为王,然后心志坚定地修苦行,进入了森林。
3.195.44
अथ कदाचिच्छलो मृगयामचरत् ।
मृगं चासाद्य रथेनान्वधावत् ॥ ३.१९५.४४ ॥
有一次,沙罗去打猎。他追上一头鹿,乘车在后面追赶。
3.195.45
सूतं चोवाच ।
शीघ्रं मां वहस्वेति ॥ ३.१९५.४५ ॥
又对御者说:“快载我前行。”
3.195.46
स तथोक्तः सूतो राजानमब्रवीत् ।
मा क्रियतामनुबन्धः
नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ॥ ३.१९५.४६ ॥
御者听后对国王说:“请不要追赶。即使您的车驾上套着快马,您也无法捉住这只鹿。”
3.195.47
ततोऽब्रवीद्राजा सूतम् ।
आचक्ष्व मे वाम्यौ
हन्मि वा त्वामिति ॥ ३.१९५.४७ ॥
于是国王对御者说:把那两匹婆摩耶马告诉我,否则我就杀了你。
3.195.48
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे ।
वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ ३.१९५.४८ ॥
他受此质问,既畏惧国王的威胁,又畏惧婆摩提婆的诅咒,便对国王说:婆摩提婆的那两匹马是婆摩耶马,快如意念。
3.195.49
अथैनमेवं ब्रुवाणमब्रवीद्राजा ।
वामदेवाश्रमं याहीति ॥ ३.१९५.४९ ॥
国王听他如此说,便对他说:去婆摩提婆的苦行林吧。
3.195.50
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ।
भगवन्मृगो मया विद्धः पलायते
तं सम्भावयेयम् ।
अर्हसि मे वाम्यौ दातुमिति ॥ ३.१९५.५० ॥
他来到婆摩提婆的苦行林,对那位仙人说:尊者,我射伤的鹿正在逃跑;我想追上它,所以请您把那些婆摩耶马给我。
3.195.51
तमब्रवीदृषिः ।
ददानि ते वाम्यौ
कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति ॥ ३.१९५.५१ ॥
仙人对他说:我把那些婆摩耶马给你;你的事办完之后,要尽快把它们还给我。
3.195.52
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति ।
गच्छंश्चाब्रवीत्सूतम्
अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् ।
नैतौ प्रतिदेयौ वामदेवायेति ॥ ३.१९५.५२ ॥
他接受了那两匹马,向仙人告辞,乘坐套着婆摩耶马的车,朝鹿追去。行进中他对御者说:这两匹马,马中之宝,不适合婆罗门;不该还给婆摩提婆。
3.195.53
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ ३.१९५.५३ ॥
如此说罢,得到了鹿,回到自己的城中,便把那两匹马安置在内宫。
3.195.54
अथर्षिश्चिन्तयामास ।
तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते
न मे प्रतिनिर्यातयति ।
अहो कष्टमिति ॥ ३.१९५.५४ ॥
于是仙人思忖道:『这位年轻的王子得到了合适的人选而欢喜,却不还给我。唉,真是苦恼!』
3.195.55
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् ।
गच्छात्रेय
राजानं ब्रूहि ।
यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति ॥ ३.१९५.५५ ॥
心中决定之后,待一月期满,他对弟子说:『阿特雷亚,去吧,告诉国王:若已足够,便归还老师的那两匹马。』
3.195.56
स गत्वैवं तं राजानमब्रवीत् ॥ ३.१९५.५६ ॥
他前去,这样对那位国王说。
3.195.57
तं राजा प्रत्युवाच ।
राज्ञामेतद्वाहनम्
अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् ।
किं च ब्राह्मणानामश्वैः कार्यम्
साधु प्रतिगम्यतामिति ॥ ३.१९५.५७ ॥
国王回答他:『这些是国王的坐骑,婆罗门不配得到这样的珍宝。况且婆罗门要马做什么?好吧,你回去吧。』
3.195.58
स गत्वैवमुपाध्यायायाचष्ट ॥ ३.१९५.५८ ॥
他前去,这样禀告了老师。
3.195.59
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् ।
न चादाद्राजा ॥ ३.१९५.५९ ॥
瓦摩提婆听到这句不悦耳的话,心中充满愤怒,便亲自去见国王,为马匹再三催促。然而国王没有接受。
3.195.60
प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमन्यैरशक्यम् ।
मा त्वा वधीद्वरुणो घोरपाशै र्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ ३.१९५.६० ॥
国王啊,把那两匹马给我吧;你所做的、他人无法完成的事业已经完成。愿你立于婆罗门与刹帝利之间时,婆罗那不会用可怕的绳索把你杀死。
3.195.61
राजोवाच ।
अनड्वाहौ सुव्रतौ साधु दान्ता वेतद्विप्राणां वाहनं वामदेव ।
ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति ॥ ३.१९५.६१ ॥
国王说:瓦摩提婆啊,这两匹驾车之马持守善誓,驯服得当,是婆罗门的车乘。大仙啊,你想去哪里便带着它们去吧,因为正是像你这样的人,吠陀诗句才承载着。
3.195.62
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति ।
अस्मिंस्तु लोके मम यानमेत दस्मद्विधानामपरेषां च राजन् ॥ ३.१९५.६२ ॥
国王啊,在那个世界,吠陀诗句只承载像我这样的人;但在这个世界,国王啊,这是像我们这样的人以及其他人的车乘。
3.195.63
राजोवाच ।
चत्वारो वा गर्दभास्त्वां वहन्तु श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः ।
तैस्त्वं याहि क्षत्रियस्यैष वाहो मम वाम्यौ न तवैतौ हि विद्धि ॥ ३.१९५.६३ ॥
国王说:让四头驴、或优良的骡子、或栗色马、或骏马载你。你与它们同行。这是刹帝利的车辆。要知道,这两匹是拉我战车的驾马,不是你的。
3.195.64
घोरं व्रतं ब्राह्मणस्यैतदाहु रेतद्राजन्यदिहाजीवमानः ।
अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा ॥ ३.१९५.६४ ॥
人们说,这是婆罗门的可怕誓言,在此谋生的刹帝利也是如此。愿四种由铁制成、形貌可怖、装有利矛的巨大车辆载你。
3.195.65
राजोवाच ।
ये त्वा विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा ।
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ ३.१९५.६५ ॥
国王说:啊,伐摩提婆!那些知你是婆罗门却想以言语、意念或行为杀你的人,愿他们受我的话驱使,手持利矛与刀剑,在此将你与弟子一同击倒。
3.195.66
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा ।
यस्त्वेवं ब्रह्म तपसान्वेति विद्वां स्तेन श्रेष्ठो भवति हि जीवमानः ॥ ३.१९५.६६ ॥
啊,国王!对婆罗门,无论言语、意念还是行为,都不能加以指责。智者若如此以苦行获得吠陀,便在有生之年因此成为人中最优者。
3.195.67
एवमुक्ते वामदेवेन राज न्समुत्तस्थू राक्षसा घोररूपाः ।
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ ३.१९५.६७ ॥
婆摩提婆如此说完,大王啊,形貌可怖的罗刹们站了起来。国王被他们手持长矛击打,这时高声说出了这些话。
3.195.68
इक्ष्वाकवो यदि ब्रह्मन्दलो वा विधेया मे यदि वान्ये विशोऽपि ।
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥ ३.१९५.६८ ॥
婆罗门啊,即使伊刹婆迦族人或军队,或其他吠舍听从我,我也不会放弃婆摩提婆的两头母牛;这样的人并不具有法的品性。
3.195.69
एवं ब्रुवन्नेव स यातुधानै र्हतो जगामाशु महीं क्षितीशः ।
ततो विदित्वा नृपतिं निपातित मिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ ३.१९५.६९ ॥
他正这样说着,便被食人鬼们杀死,迅速倒在地上。伊刹婆迦族人得知国王已倒下,便为那支军队举行了灌顶。
3.195.70
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः ।
दलं राजानं ब्राह्मणानां हि देय मेवं राजन्सर्वधर्मेषु दृष्टम् ॥ ३.१९५.७० ॥
于是婆罗门婆摩提婆来到那个王国,说了这些话:大王啊,军队与国王本身都应当交给婆罗门;在一切法中都是这样看待的。
3.195.71
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ ।
एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥ ३.१९५.७१ ॥
人中之王啊,如果你畏惧不法,今天就快把那两头母牛交给我。国王听了婆摩提婆的这些话,怒气冲冲地对他的御者说:
3.195.72
एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर सङ्गृहीतम् ।
येन विद्धो वामदेवः शयीत संदश्यमानः श्वभिरार्तरूपः ॥ ३.१९५.७२ ॥
取来一支色彩斑斓、涂满毒药的箭,使被它射中的伐摩提婆倒在地上,形容凄惨,被猎犬撕咬。
3.195.73
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र ।
तं जहि त्वं मद्वचनात्प्रणुन्न स्तूर्णं प्रियं सायकैर्घोररूपैः ॥ ३.१९५.७३ ॥
人主啊,我知道你与正妃所生的儿子叫做鹰胜,今年十岁。听从我的话,你应当迅速用形状可怖的箭射死那位你所爱的儿子。
3.195.74
एवमुक्तो वामदेवेन राज न्नन्तःपुरे राजपुत्रं जघान ।
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तच्च वाक्यं बभाषे ॥ ३.१९५.७४ ॥
伐摩提婆如此说后,大王啊,他在内宫杀死了王子。那支锋锐光耀的箭被射出;达拉听到这话,便说道。
3.195.75
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य ।
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ ३.१९५.७५ ॥
伊刹婆库的后裔们啊!唉,我将为你们做你们喜欢的事,今天就碾碎并杀死这个婆罗门。再拿来一支锋锐光耀的箭;诸位地上的君主,今天请看我的勇力。
3.195.76
यं त्वमेनं सायकं घोररूपं विषेण दिग्धं मम संदधासि ।
न त्वमेनं शरवर्यं विमोक्तुं सन्धातुं वा शक्ष्यसि मानवेन्द्र ॥ ३.१९५.७६ ॥
你搭在弓上对着我的这支形状可怖、涂满毒药的箭,人主啊,你既不能将这支最好的箭射出,也不能再次搭上。
3.195.77
राजोवाच ।
इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् ।
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥ ३.१९५.७७ ॥
国王说:伊克什瓦库的后裔们,看啊,我被抓住了。我无法释放这支箭,也不敢将它毁灭。愿长寿的伐摩提婆长存。
3.195.79
संस्पृशैनां महिषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् ।
मार्कण्डेय उवाच
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ।
यथा युक्तं वामदेवाहमेनं दिने दिने संविशन्ती व्यशंसम् ॥ ३.१९५.७९ ॥
“用箭触碰这位王后,你便能从这罪中解脱。”摩根德耶说:国王便照此而行。于是王女对仙人说:婆摩提婆啊,依理而行,我每日进见他时都如此declare了。
3.195.80
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते ।
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ ३.१९५.८० ॥
“明眸的女子啊,你保护了王族。请选择一件无与伦比的恩赐,我将赐予你。王女啊,无瑕的人,请统治你的这些子民和伊克什瓦库的伟大王国。”
3.195.81
राजपुत्र्युवाच ।
वरं वृणे भगवन्नेकमेव विमुच्यतां किल्बिषादद्य भर्ता ।
शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥ ३.१९५.८१ ॥
王女说:尊者啊,我只选择一个恩赐——愿我的丈夫今日从此罪中解脱,并与他的儿子和亲族吉祥地生活。再生者中最优秀的人啊,这便是我所选的恩赐。