摩诃婆罗多 · 章 3.196
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.196.1
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च ।
पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः ॥ ३.१९६.१ ॥
摩根德耶、众仙人、婆罗门与坚战问道:仙人跋迦是通过何种方式获得长寿的?
3.196.2
मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः ।
दीर्घायुश्च बकोराजन्नृषिर्नात्र विचारणा ॥ ३.१९६.२ ॥
于是大苦行者摩根德耶回答他们所有人:大王,仙人跋迦确实长寿,此事毫无疑问。
3.196.3
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत ।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ ३.१९६.३ ॥
坚战(法王,昆蒂之子)听后,婆罗多的后裔啊,与诸弟一同向摩根德耶发问。
3.196.4
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ ।
सखायौ देवराजस् यतावृषी लोकसंमतौ ॥ ३.१९६.४ ॥
跋迦与达尔毗耶两位大德,据闻是长寿的朋友,与天王相等,是为世人所敬重的仙人。
3.196.5
एतदिच्छामि भगवन्बकशक्रसमागमम् ।
सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया ॥ ३.१९६.५ ॥
尊者啊,我愿听闻跋迦与帝释天相遇之事,其中苦乐交织,正如您如实所说。
3.196.6
वृत्ते देवासुरे राजन्संग्रामे रोमहर्षणे ।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥ ३.१९६.६ ॥
大王,诸天与阿修罗之间那场令人毛骨悚然的大战结束之后,因陀罗成为了三界之主。
3.196.7
सम्यग्वर्षति पर्जन्ये सस्यसंपद उत्तमाः ।
निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः।
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः ॥ ३.१९६.७ ॥
云雨适时降下,庄稼便极为丰饶。百姓无病,极其守法,专心奉行法道。众人欢喜,各安其本分。
3.196.8
ताः प्रजा मुदिताः सर्वा दृष्ट्रा बलनिषूदनः ।
ततस्तु मुदितोराजन्देवराजः शतक्रतुः ॥ ३.१९६.८ ॥
见所有百姓欢喜,击败跋罗者——大王啊,于是天王百祭(因陀罗)也欢喜了。
3.196.9
ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः ।
आश्रमांश्च विचित्रांश् नदीश्च विविधाः शुभाः ॥ ३.१९६.९ ॥
他骑乘爱罗婆多,看见欢喜的百姓,以及奇妙的修行林,和众多吉祥的河流。
3.196.10
नगराणि समृद्धानि घेटाञ्जनपदांस्तथा ।
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ॥ ३.१९६.१० ॥
繁荣的城市、村落和地区,以及善于保护百姓、奉行法道的君王。
3.196.11
उदपानं प्रपा वापी तटाकानि सरांसि च ।
नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः ॥ ३.१९६.११ ॥
水井、施水处、阶梯井、池塘与湖泊,常有精通各种吠陀祭仪的上等婆罗门前来。
3.196.12
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ।
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ॥ ३.१९६.१२ ॥
大王啊,于是百祭(因陀罗)降临于美丽的大地,来到那片满布众树、清净吉祥的美妙之地。
3.196.13
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ।
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ ३.१९६.१३ ॥
大王啊,在东方,靠近大海,有一处可爱的地方。那里有一座可爱的修行处,常有鹿与鸟类聚集。在那座可爱的修行处,诸神之王看见了鹤Baka。
3.196.14
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत् ।
पाद्यासनार्थदानेन फलमूलैरथार्चयत् ॥ ३.१९६.१४ ॥
Baka看见天神之王因陀罗,心中大喜。他奉上洗足之水与座位,并以果实和根茎款待他。
3.196.15
सुखोपविष्टो वरदस्ततस्तु बलसूदनः ।
ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः ॥ ३.१९६.१५ ॥
舒适落座的赐福者、斩杀Bala者,那三十神之主,随即向鹤Baka发问道。
3.196.16
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ ।
समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥ ३.१९६.१६ ॥
贤者啊,无罪之人,你出生至今已过十万年。婆罗门啊,请告诉我,长寿者有何种苦难。
3.196.17
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥ ३.१९६.१७ ॥
与不喜爱的人同住,与所爱之人分离,与恶人交往——这便是长寿者的苦难。
3.196.18
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि ।
परेष्वायत्तता कृच्छ्रं किंनु दुःखतरं ततः ॥ ३.१९६.१८ ॥
此处,儿子与妻子的死亡,亲族与朋友的死亡,以及依赖他人的苦楚——还有什么比这更痛苦的呢?
3.196.19
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः एरैः संपरिभूयते ॥ ३.१९६.१९ ॥
在世间我看不到比这更大的痛苦:失去财富的人被像象一样(强大)的人彻底轻视。
3.196.20
अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ ३.१९६.२० ॥
长寿者看见无德出身者生于贵族之家,贵族之家走向衰亡,也看见聚合与离散。
3.196.21
अपिप्रत्यक्षमेवैतत्तव देघ शतक्रतो ।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ ३.१९६.२१ ॥
天神啊,百祭之主(因陀罗),这明明就在你眼前。富足的无德之人,家族的兴衰颠倒是怎样发生的?
3.196.22
देवदानवगन्धर्वमनुष्योरगराक्षसाः ।
प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥ ३.१९६.२२ ॥
天神、檀那婆、乾闼婆、人类、龙蛇与罗刹,都会遭遇颠倒;还有什么比这更痛苦?
3.196.23
कुले जाताश् क्लिश्यन्ते दौष्कुलेयवशानुगाः ।
आढ्यैर्दरिद्राऽवमताः किंनु दुःखतरं ततः ॥ ३.१९६.२३ ॥
出身良好之家的人,屈从于出身低贱者的意志而受苦;贫穷者被富人轻视。还有什么比这更痛苦?
3.196.24
लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम् ।
हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः।
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥ ३.१९६.२४ ॥
世间这种颠倒的秩序随处可见:无知者欢喜,而智者与学者却受苦。在这里,人的生命看起来充满了巨大的悲苦与煎熬。
3.196.25
पुनरेव महाभाग देवर्षिगणसेवित ।
समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥ ३.१९६.२५ ॥
伟大有福者啊,被众天仙圣者所侍奉的婆罗门啊,请再告诉我:长寿者的快乐是什么?
3.196.26
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे ।
कुमित्राण्यनपाश्रित् किं वै सुखतरं ततः ॥ ३.१९६.२६ ॥
在家中,即使在初八或十二日也煮些蔬菜,又不依赖恶友的人,还有谁比他更幸福呢?
3.196.27
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ।
अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥ ३.१९६.२७ ॥
在那里,日子不被计算,人们也不称他为大食者——即使是在家中煮菜的人也有快乐,啊,摩伽婆。
3.196.28
आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कंचन ।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ ३.१९६.२८ ॥
凭自己的力量所得,不依赖任何人——即使是在家中慷慨食用的水果和蔬菜,也是更好的。
3.196.29
परस्य तु गृहे भोक्तुः परिभूतस् नित्यशः ।
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥ ३.१९६.२९ ॥
在他人家中吃饭的人总是受辱;即使是精心烹调的食物对他也不好——因此这对善人来说并非选择。
3.196.30
श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति ।
धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः ॥ ३.१९६.३० ॥
那贪婪如狗、想吃他人食物的吝啬而恶毒之人,他所吃的食物,真是可耻!
3.196.31
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः ।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥ ३.१९६.३१ ॥
对于那位优秀的再生者来说,还有什么比在把食物分给客人、仆人和祖先之后,吃剩下的食物更令人愉快的呢?
3.196.32
अतो मृष्टतरं नान्यत्पूतं किंचितच्छतक्रतो ।
दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥ ३.१९६.३२ ॥
因此,没有比这更甜美、更纯净的了,哦,舍塔克拉图:那人把食物给予客人之后,总是以此而食。
3.196.33
तावतां गोसहस्राणां फलं प्राप्नोति दायकः ।
यदेनो यौवनकृतंतत्सर्वं नश्यते ध्रुवम् ॥ ३.१९६.३३ ॥
施主获得那么多千头牛的果报,而青年时所犯的一切罪过必定消失。
3.196.34
रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम् ।
यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥ ३.१९६.३४ ॥
由再生者之手,伴随多汁的施物而食的食物,顷刻间便能使人度过罪过,如同以水洒水。
3.196.35
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः ।
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ ३.१९६.३५ ॥
诸神之主讲述了这些以及许多其他吉祥的故事后,向巴卡告辞,前往天界。