Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.197

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.197.1

ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः ॥ ३.१९७.१ ॥

于是般度之子们再次对摩根德耶说道。

3.197.2

कथितं ब्राह्मणमहाभाग्यं राजन्यमहाभाग्यमिदानीं शुश्रूषामह इति तानुवाच मार्कण्डेयो महर्षिः श्रूयतामिति इदानीं राजन्यानां महाभाग्यमिति । कुरूणामन्यतमः सुहोत्रो नाम राजा महर्षीनभिगम्य निवृत्य रशस्थमेव राजानमौशीनरं शिबिं ददर्शाभिमुखं तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन परस्परेण तुल्यात्मानौ विदित्वान्योन्यस्य पन्थानं न ददतुस्तत्र नारदः प्रादुरासीत् किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य तिष्ठत इति ॥ ३.१९७.२ ॥

婆罗门的大福已经讲述;现在我们愿听刹帝利的大福,般度之子们说道。于是大仙摩根德耶对他们说:“听着,现在讲述诸王的大福。”库鲁族中有一位名叫苏和陀罗的国王,他拜见了诸大仙后返回,看见对面站在车上的乌希那罗王尸毗。两人相遇,各自依年岁互相致敬;因知彼此德行相等,二人都不肯让路。这时那罗陀出现,说:“这是怎么回事?你们二人为何堵住彼此的道路站着?”

3.197.4

तावूचतुर्नारद नैतद् भगवन् पूर्वकर्मकर्त्रादिभिर्विशिष्टस्य पन्था उपदिश्यते समर्थाय वा आवां च सख्यं परस्परेणोपगतौ तच्चावधानतोऽत्युत्कृष्टमधरोत्तरंपरिभ्रष्टं नारदस्त्वेवमुक्तः श्लोकत्रयमपठत्-
क्रूरः कौरव्य मृदवे
मृदुः क्रूरे च कौरव ।
साधुश्चासाधवे साधुः
साधवे नाप्नुयात् कथम् ॥ ३.१९७.४ ॥

二人对那罗陀说:尊者,这不对。道路是指示给因前业而卓越之人,或指示给有能力之人的;我们二人已相互结为友谊,并且由于专注,高下之分已经消失。于是那罗陀听到这样的话,诵出三首颂:刚烈者对温和者,温和者对刚烈者,啊,俱卢之子;善者对恶者,善者对善者,啊,俱卢之子;善者怎样能得到善者应得的果报呢?

3.197.5

कृतं शतगुणं कुर्या-
न्नास्ति देवेषु निर्णयः ।
औशीनरः साधुशीलो ।
भवतो वै महीपतिः ॥ ३.१९७.५ ॥

所作之业应当得百倍之果报;诸神之中对此并无疑议。德行良善的奥什那罗,确是你们的国王。

3.197.6

जयेत् कदर्यं दानेन ।
सत्येनानृतवादिनम् ।
क्षमया क्रूरकर्माण-
मसाधुं साधुना जयेत् ॥ ३.१९७.६ ॥

应以布施胜过吝啬者,以真实胜过妄语者,以忍耐胜过行残酷之人,以善胜过不善者。

3.197.7

तदुभावेव भवन्तावुदारौ य इदानीं भवद्भ्यामन्य- तमः सोऽपसर्पतु एतद् वै निदर्शनमित्युक्त्वा तूष्णीं नारदो बभूव । एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः प्रशस्य प्रययौ ॥ ३.१९७.७ ॥

你们二人都很慷慨;现在你们中谁退让,谁就是这个榜样。那罗陀说完便沉默了。考拉瓦听后,向右绕行尸毗,让出道路,因他的诸多善行而赞美他,然后离去。

3.197.8

तदेतद् राज्ञो महाभाग्यमप्युक्तवान् नारदः ॥ ३.१९७.८ ॥

那罗陀也这样谈到了国王的大福分。