Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.2.1

प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम् ।
वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः।
तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः ॥ ३.२.१ ॥

夜が明け、汚れなき行いの者たちが森へ出発しようとしたとき、施しで生きるバラモンたちが彼らの前に立った。そこで王、クンティーの子ユディシュティラが彼らに語った。

3.2.2

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः ।
फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ ३.२.२ ॥

我らは全財産と王国と栄光を奪われ、悲しみのうちに果実と根と肉を食べて、森へ行くのだ。

3.2.3

वनं च दोषबहुलं बहुव्यालसरीसृपम् ।
परिक्लेशश्चवो मन्ये ध्रुवं तत्र भविष्यति ॥ ३.२.३ ॥

森は危険に満ち、多くの猛獣や爬虫類がいる。そこではきっと苦難があると私は思う。

3.2.4

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् ।
किंपुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ ३.२.४ ॥

バラモンの苦難は神々さえ疲れさせる。ましてや私のことは言うまでもない。バラモンたちよ、望むままにここから帰りなさい。

3.2.5

गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः ।
नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिन ॥ ३.२.५ ॥

王よ、あなたの歩む道、その道を我らも進もうと準備している。真の法を見る方よ、信徒である我らを見捨てるべきではない。

3.2.6

स्नेहकर्माणि भक्तेषु दैवतान्यपि कुर्वते ।
विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ ३.२.६ ॥

神々でさえ信徒に愛の行いをする。特に善行を堅く守るバラモンに対してはそうである。

3.2.7

ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः ।
सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ ३.२.७ ॥

私もまた常にバラモンへの最高の帰依を持っています、二度生まれし者たちよ。しかし、助けを失ったこの状況が私を苦しめているようです。

3.2.8

आहरेयुर्हि ये सर्वे फलमूलमृगांस्तथा ।
त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ ३.२.८ ॥

果実や根菜や獣を持ち帰っていた私の兄弟たちは、今や悲しみから生じた苦しみに惑わされています。

3.2.9

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च ।
दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ ३.२.९ ॥

ドラウパディーの辱めと王国の奪取に苦しむこの人々を、ここでさらなる苦難にさらす勇気は私にはありません。

3.2.10

अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव ।
स्वयमाहृत्य वन्यानि त्वानुयास्यामहे वयम् ॥ ३.२.१० ॥

王よ、私たちの生計への心配があなたの心に残りませんように。私たち自身が森の食物を持ってあなたに従いましょう。

3.2.11

अनुध्यानेन जप्येन विधास्यामः शिव तव ।
कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ ३.२.११ ॥

おお吉祥なる方よ、瞑想と読誦によってあなたのために尽くし、心地よい物語で森の中であなたと楽しみましょう。

3.2.12

एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह ।
न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ ३.२.१२ ॥

そのとおりで、疑いはありません。私はバラモンたちと楽しみたい。しかし自分の不足の感覚から、まるで自分自身が拒まれているように見えるのです。

3.2.13

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृत्य भोजिनः ।
मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ ३.२.१३ ॥

私が皆さんを連れてきて、食事をする姿を、私への信仰のために苦しむ皆さんを、どうして見ることができようか。ドリタラーシュトラの罪深く不相応な息子たちに恥あれ。

3.2.14

इत्युक्त्वा नृपतिः शोचन्निषसाद महीतले ॥ ३.२.१४ ॥

このように言って、王は悲しみながら地面に座った。

3.2.15

तमध्यात्मरतो विद्वाञ्शौनको नाम वै द्विजः ।
योगे साङ्ख्ये च कुशलो राजानमिदमब्रवीत् ॥ ३.२.१५ ॥

そのとき、精神性に専心し、学識あり、ヨーガとサーンキヤに通じたシャウナカというバラモンが王にこう語った。

3.2.16

शोकस्थानसहस्राणि हर्षस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ ३.२.१६ ॥

悲しみの千の原因と喜びの百の原因が、日ごとに愚者の中に入ってくるが、賢者の中には入らない。

3.2.17

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ ३.२.१७ ॥

実に、あなたのような賢者は、知識に反し、多くの欠点があり、善を破壊する行為に執着することはない。

3.2.18

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोभिघातिनीम् ।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ ३.२.१८ ॥

八つの支分を持つ知性と呼ばれるもの、あらゆる幸福を破壊し、シュルティとスムリティに結ばれたもの、王よ、それはあなたの中にとどまっている。

3.2.19

शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः ॥ ३.२.१९ ॥

聴こうとする意欲、聴聞、把握、保持、そして思惟と吟味、意味の理解、真理の理解——これらが知性の資質である。

3.2.20

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनेष्वपि ।
शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ ३.२.२० ॥

財産の苦境にあっても、困難な境遇にあっても、災難にあっても、身内の中にあってさえも、あなたのような人は身体と心の苦しみに沈むことはない。

3.2.21

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा ।
आत्मव्यवस्थानकरागीताः श्लोका महात्मना ॥ ३.२.२१ ॥

聞きなさい。昔ジャナカが歌ったことを語ろう——自己を確立させる詩句、偉大な魂によって歌われたものを。

3.2.22

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् ।
तयोर्व्याससमासाभ्यांशमोपायमिमं शृणु ॥ ३.२.२२ ॥

世界は心と身体から生じる二つの苦しみに悩まされている。それを鎮める方法を聞きなさい——詳しくも、簡潔にも。

3.2.23

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।
दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥ ३.२.२३ ॥

身体の苦しみは四つの原因から生じる。病、不快なものとの接触、疲労、そして愛しいものを失うことである。

3.2.24

तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात् ।
आधिव्याधिप्रशमनं क्रियायोगबलेन तु ॥ ३.२.२४ ॥

そのときには、それへの対処と、絶えずそれを思い続けないことによって、心身の苦悩は鎮まる——修行の行為の力によって。

3.2.25

मतिमन्तो व्यथोपेताः शमं प्रागेव कुर्वते ।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ ३.२.२५ ॥

賢者は苦悩に悩まされるとき、あらかじめ楽しい物語や人々にもたらす享楽によって心を鎮める。

3.2.26

मानसेन हि दुःखेन शरीरमुपतप्यते ।
अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ॥ ३.२.२६ ॥

心の苦しみによって身体は実に責め苛まれる。壺の中の水が熱せられた鉄塊によって熱されるように。

3.2.27

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।
प्रशन्ते मानसे दुःखे शारीरमुपशाम्यति ॥ ३.२.२७ ॥

ゆえに知識によって心の苦しみを鎮めるべきである、水によって火を消すように。心の苦しみが鎮まれば、身体の苦しみも鎮まる。

3.2.28

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ ३.२.२८ ॥

愛着こそ心の苦しみの根であると知られる。愛着によって生き物は執着し、苦しみとの結びつきに至る。

3.2.29

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ ३.२.२९ ॥

苦しみは愛着を根とし、恐れもまた愛着から生じる。悲しみ、喜び、そして労苦——すべては愛着から起こる。

3.2.30

स्नेहात्कारुण्यरागौ च प्रजास्वीर्ष्यादयस्तथा ।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ ३.२.३० ॥

愛着から慈悲と欲望が生じ、また生き物への嫉妬なども同様である。この二つはいずれも善をもたらさない。そのうち前者がより重いと伝えられる。

3.2.31

कोटराग्निर्यथाऽशेषं समूलं पादपं दहेत् ।
धर्मार्थिनं तथाऽल्पोपि रागदोषो विनाशयेत् ॥ ३.२.३१ ॥

木のうろに燃える火が根ごと木全体を焼き尽くすように、ダルマと富を求める者は、わずかな執着の過ちによっても滅ぼされる。

3.2.32

विप्रयोगे न तु त्यागी दोषदर्शी समागमे ।
विरागं भजते जन्तुर्निर्वैरो निष्परिग्रहः ॥ ३.२.३२ ॥

離別のときには放棄する者となるが、結合のときには過失を見る。敵意も所有もない者は離欲に至る。

3.2.33

तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् ।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ ३.२.३३ ॥

それゆえ、身内・友人・富の蓄積への愛情、そして自分の身体から生じる愛着を、知識によって引き返させるべきである。

3.2.34

ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु ।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ ३.२.३४ ॥

知識を備え、自制し、聖典に通じ、自己を律する人々には、愛着は付着しない。ちょうど蓮の葉に水がとどまらないように。

3.2.35

रागाभिभूतः पुरुषः कामेन परिकृष्यते ।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ ३.२.३५ ॥

執着に打ち負かされた人は欲望に引きずられる。彼には願望が生じ、やがて渇愛が増大する。

3.2.36

तृष्णा हि सर्वपापिष्ठा नित्योद्देगकरी नृणाम् ।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ ३.२.३६ ॥

渇愛はまさにすべての中で最も罪深く、人々に絶え間ない動揺をもたらし、非法に満ち、恐ろしく、罪を伴うものである。

3.2.37

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णांत्यजतः सुखम् ॥ ३.२.३७ ॥

愚かな者には捨てがたく、人が老いても衰えず、命を奪う病のようなその渇望を捨てる者にこそ幸福がある。

3.2.38

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति भूतानि अयोनिज इवानलः ॥ ३.२.३८ ॥

その渇望には始めも終わりもなく、人の身体の内に宿り、胎から生まれぬ火のように生類を滅ぼす。

3.2.39

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति ।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ ३.२.३९ ॥

薪が自らから生じた火によって滅びるように、自制のない自我は生まれつきの貪欲によって滅びる。

3.2.40

राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
अर्थिभ्यः कालतस्तस्मान्नित्यमर्थवतां भयम्।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ ३.२.४० ॥

王から、水から、火から、盗賊から、身内からさえ、乞う者から、時間から——それゆえ富める者にはつねに恐れがある。生き物がつねに死を恐れるように。

3.2.41

यथा ह्याभिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ ३.२.४१ ॥

空では鳥に、地では猛獣に、水では魚に獲物が食われるように、富める者は皆に食われる。

3.2.42

अर्थ एव हि केषांचिदनर्थं भजते नृणाम् ।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः।
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ ३.२.४२ ॥

ある者にとっては富そのものが人を破滅へ導く。富を最高の善として執着する人は、真の善を得ない。ゆえに富を得るあらゆる手段は、心の迷いを増大させる。

3.2.43

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।
अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ ३.२.४३ ॥

けちな心、高慢と思い上がり、恐れと動揺——賢者は、これらの苦しみは富から生じ、肉体をもつ者に降りかかると知っている。

3.2.44

अर्थस्योपार्जने दुःखमार्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ ३.२.४४ ॥

富を得ることにも苦しみがあり、得たものを守ることにも苦しみがある。失うことにも、使うことにも苦しみがある——富のゆえに人々は打ちのめされるのだ。

3.2.45

अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः ।
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ ३.२.४५ ॥

富を捨てることは苦しく、守られた富はやがて敵となる。富は苦労してのみ得られるものだ——その破滅を思い悩んではならない。

3.2.46

असन्तोषपरा मूढाः संतोषं यान्ति पण्डिताः ।
अन्तो नास्ति पिपासायाः संतोषः परमं सुखम्।
तस्मात्संतोषमेवेह परं पश्यन्ति पण्डितः ॥ ३.२.४६ ॥

不満に執着する愚者は満足を得ず、賢者はそれを得る。渇愛には終わりがない。満足こそ最高の幸福である。ゆえに賢者はこの世において、満足こそを最上のものと見る。

3.2.47

अनित्यं यौवनं रूपं जीवितं रत्नसंचयः ।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ ३.२.४७ ॥

若さ、美しさ、命、宝の蓄え、権勢、愛する人との共住——これらはすべて無常である。賢者はそれらに執着してはならない。

3.2.48

त्यजेत स च यांस्तस्मात्तज्जान्क्लेशान्सहेत च ।
न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः।
अतश्च धार्मिकैः पुम्भिरनीहार्थः प्रशस्यते ॥ ३.२.४८ ॥

だから、それらを捨て去り、それから生じる苦しみにも耐えるべきである。蓄える者で煩いのない者は見当たらない。ゆえに正しい人々は、執着なき富の放棄をこそ称賛する。

3.2.49

धर्मार्थं यस्य वित्तेहा वरं तस्य नरीहता ।
प्रक्षालनाद्धि पङ्कस्य श्रेयो ह्यस्पर्शनं नृणाम् ॥ ३.२.४९ ॥

法のために富を望む者にとっては、人々の中で欲望のないことが優れている。泥を洗い落とすより、触れないことこそ善い。

3.2.50

युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि ।
धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ ३.२.५० ॥

ユディシュティラよ、このように富を渇望すべきではない。もしお前の行いが法によるものならば、富への欲望から解放されよ。

3.2.51

नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम ।
भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ ३.२.५१ ॥

私のこの富への渇望は享受の欲望のためではない。ブラーフマナよ、私は貪欲からではなく、ブラーフマナを養うためにのみ望むのだ。

3.2.52

कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे ।
भरणं पालनं चापि न कुर्यादनुयायिनाम् ॥ ३.२.५२ ॥

ブラーフマナよ、家住期にある私のような者が、従う者を養い守らずにいられるだろうか。

3.2.53

संविभागो हि भूतानां सर्वेषामेव दृश्यते ।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ ३.२.५३ ॥

すべての生き物の間に分かち合いが見られる。同じように、家住者は調理する者にも与えるべきである。

3.2.54

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ ३.२.५४ ॥

草、大地、水、そして第四に、温かく真実の言葉。善人の家では、これらが絶えることは決してない。

3.2.55

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ ३.२.५५ ॥

疲れた者には寝床を、立ち疲れた者には座席を、渇いた者には水を、飢えた者には食べ物を与えるべきである。

3.2.56

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
उत्थाय चासनं दद्यादेष धर्मः सनातनः।
प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनाम् ॥ ३.२.५६ ॥

慈しみの眼差し、善意、そして優しい言葉を与えるべきである。立ち上がって席を勧めるべきである——これが永遠の法である。立ち上がって迎え、近づき、正しく敬意を払うべきである。

3.2.57

अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिवान्धवाः ।
पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः ॥ ३.२.५७ ॥

祭火、牛、親族、客人と友人、息子、妻、召使い——敬われなければ、家の主を焼き尽くすであろう。

3.2.58

आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून् ।
न चैकः स्वयमश्नीयाद्विधिवर्जं न निर्वपेत् ॥ ३.२.५८ ॥

自分のためだけに食事を作るべきではなく、無益に動物を殺すべきでもない。ひとりで食べるべきではなく、定められた儀礼なしに供物を捧げるべきでもない。

3.2.59

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ।
वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते ॥ ३.२.५९ ॥

犬、賤民、鳥のために、食べ物を地面にまくべきである。これはヴァイシュヴァデーヴァと呼ばれる供物であり、夕と朝に捧げられる。

3.2.60

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ ३.२.६० ॥

ゆえに、常に残食(ヴィガサ)を食べる者、甘露を食べる者であるべきである。食事の後の残りがヴィガサであり、祭祀の残りが甘露である。

3.2.61

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ ३.२.६१ ॥

目を与え、心を与え、優しく真実の言葉を与えるべきである。後に従い、仕えるべきである。これが五つの布施を伴う祭祀である。

3.2.62

यो दद्यादपरिक्लिष्टमन्नमद्वनि वर्तते ।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ ३.२.६२ ॥

道中にある者が、苦労なく、疲れ果てた、以前見たことのない人に食物を与えるなら、その人には大きな功徳の果報がある。

3.2.63

एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे ।
तस्य धर्मं परंप्राहुः कथं वा विप्र मन्यसे ॥ ३.२.६३ ॥

このように家住期にあって生計を営む者の法を、人々は最高の法と呼ぶ。バラモンよ、君はこれをどう考えるか。

3.2.64

अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ३.२.६४ ॥

ああ、なんと大きな苦しみだろう!この世は倒錯している。善人が恥じ入ることによって、悪人は喜ぶのだ。

3.2.65

शिश्नोदरकृतेऽप्राज्ञः करोति विषसं बहु ।
मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः ॥ ३.२.६५ ॥

無知な者は、性器と腹のために多くの悪を行う。迷いと欲望に支配され、感官の対象に引かれるままに従うのである。

3.2.66

ह्रियते बुध्यमानोपि नरो हारिभिरिन्द्रियैः ।
विमूढसंज्ञो दुष्टाश्वैरुद्धान्तैरिव सारथिः ॥ ३.२.६६ ॥

知っていても人は、人を惑わす感官によって運び去られる。あたかも悪く暴れる馬に心を乱された御者のように。

3.2.67

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा ।
तद्रा प्रादुर्भवत्यषां पूर्वसंकल्पजं मनः ॥ ३.२.६७ ॥

六つの感官がその対象に触れるとき、以前の意志から生じた心が現れる。

3.2.68

मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम् ।
वस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ॥ ३.२.६८ ॥

心がどの感官によって対象を享受しようと走るのか、それに支配された者には渇望が生じ、行為への傾きが生まれる。

3.2.69

ततः संकल्पवीर्येण कामेन विषयेषुभिः ।
विद्धः पतति लोभाग्नौज्योतिर्लोभात्पतङ्गवत् ॥ ३.२.६९ ॥

そこで意志の力により、欲望によって対象の矢に射抜かれた彼は、貪欲の火に落ちる。あたかも蛾が貪りのために炎に落ちるように。

3.2.70

ततो दारैर्विहारैश्च मोहितश्च यथेप्सया ।
महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ ३.२.७० ॥

そして妻や快楽に惑わされ、欲するままに、大いなる迷妄の口に沈んだ彼は、自分自身を悟らない。

3.2.71

एवं पतति संसारे तासुतास्विह योनिषु ।
अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ ३.२.७१ ॥

こうして彼は輪廻の中で、ここの様々な胎に落ち、無明と行為と渇愛によって車輪のように回されている。

3.2.72

ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते ।
जले भुवि तथाऽऽकाशे जायमानः पुनःपुनः ॥ ३.२.७२ ॥

ブラフマーから草の葉に至るまで、彼は衆生の間を巡り、水中、地上、空中で幾度も生まれ変わる。

3.2.73

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु ।
ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ ३.२.७३ ॥

これは無知な者の道である。賢者の道も私から聞きなさい。法と至福を喜び、解脱に歓びを見出す人々の道である。

3.2.74

तदिदं वेदवचनं कुरु कर्म त्यजेति च ।
तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ ३.२.७४ ॥

これがヴェーダの言葉である。行為せよ、そしてそれを捨てよ。ゆえに、これら一切の法を慢心から行ってはならない。

3.2.75

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः ।
अलोभ इतिमार्गोऽयं धर्ममस्याष्टविधः स्मृतः ॥ ३.२.७५ ॥

祭祀、学習、布施、苦行、真実、忍耐、自制、そして貪欲のないこと——法のこの道は八つからなると説かれる。

3.2.76

अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः ।
कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ ३.२.७६ ॥

ここでは最初の四つ組が祖霊の道(pitṛyāṇa)に立っている。「なすべき」と説かれた義務を、慢心から行ってはならない。

3.2.77

उत्तरो देवयानस्तु सद्भिराचरितः सदा ।
अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ ३.२.७७ ॥

しかし北方の神々の道(devayāna)は、常に善き人々によって歩まれてきた。心の清らかな者は、この八支の道によってのみ歩むべきである。

3.2.78

सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् ।
सम्यग्द्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ ३.२.७८ ॥

正しい決意との結びつきにより、正しく感覚を制し、正しい特別の誓戒により、そして正しく師に仕えることによって。

3.2.79

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् ।
सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ॥ ३.२.७९ ॥

適切な食事の節制により、正しい学習と聖典の知識により、正しい行為の放棄により、そして正しい心の制御により。

3.2.80

एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ।
रागद्वेषविनिर्मुक्ता ऐश्वर्यवशमागताः ॥ ३.२.८० ॥

このように輪廻に打ち勝つことを望む者は行為をなす。愛着と嫌悪から解放され、彼らは至高の力の支配下に至る。

3.2.81

रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ ।
योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ ३.२.८१ ॥

ルドラ、サーディヤ、アーディティヤ、ヴァス、そして二人のアシュヴィンは、ヨーガと自在の力に満ち、これらの生類を支えている。

3.2.82

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् ।
तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ ३.२.८२ ॥

クンティーの子よ、あなたもまた完全な寂静に依って、苦行によって成就を求めよ。バラタの子孫よ、ヨーガの成就をも。

3.2.83

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते ।
तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ ३.२.८३ ॥

父母に属する成就と、行為より生ずる成就は、あなたはすでに得ている。今こそ、再生族を養うために苦行によって成就を求めよ。

3.2.84

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहम् ।
तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ ३.२.८४ ॥

成就者たちは望むものに恩恵を施す。ゆえに苦行を完全に受け入れ、自らの心の願いを成し遂げよ。